बोधसार · अध्याय 49
[प्. 788-]
उन्मत्तप्रलापशतकम् ।
शुद्धबोधसुधास्वादी प्रलपामि प्रमत्तवत् ।
तत्प्रलापनिगूढार्थं शोधयन्तु सतां धियः
कामः क्रोधश्च लोभश्च मोहश्च मदमत्सरौ ।
संसारतारका यद्वत्तथा तद्विवृतिं शृणु
विश्रान्तिसुन्दरीसङ्गरतिलावण्यलम्पटाः ।
एकान्तलीलाचतुराः कामिनो मुक्तिगामिनः
यद्बलान्मोहदैत्यस्य योगी नरहरिः स्वयम् ।
वक्षो विदारयाञ्चक्रे स क्रोधो मुक्तिसाधनम्
भ्रुकुटीकुटिलं यस्य मुखमीक्षितुमक्षमाः ।
कामलोभादयो भावाः स द्वेषी केशवप्रियः
शाश्वते सुप्रसन्नानां नश्वरे भृकुटीभृताम् ।
रागद्वेषवतां तात मुक्तिः करतले स्थिता
मनःकाचमणिं दत्त्वा ज्ञानचिन्तामणिं मुनिः ।
क्रीणाति येन लोभेन स लोभो मुक्तिसाधनम्
येन वर्णाश्रमाचारदेहभोगधनादिकम् ।
विस्मरन्ति चितः प्रेम्णा स मोहः परमं पदम्
मत्तो नान्यत्परं किंचिदहमेव महेश्वरः ।
अहमेवोत्तमश्चेति मदो मुक्तिप्रदो मतः ॥ न्ब्स्_49.8* ॥
दृश्योत्कर्षं न सहते ज्ञानोत्कर्षबलात्तु यः ।
स तु सम्वत्सरशतं ज्येष्ठो निर्मत्सरान्मुनेः
क्षणं न क्षमते यस्तु बाह्यस्फुरणमक्षमी ।
तद्वामचरणाङ्गुष्ठे निबद्धाः क्षमिणां गुणाः
कामादयो महाधूर्त्ता धूर्त्तितं यैर्जगत्त्रयम् ।
तान्धूर्त्तयति यो युक्त्या स धूर्तो धूर्जटिप्रियः
यो लालयति लोभादीनन्तर्मूलानि कृन्तति ।
बहिरन्योऽन्य एवान्तर्मुक्तिमेति कपट्यसौ
गुणात्मकेषु सर्वेषु दोषमेवान्तरात्मनः ।
कर्णे जपति यो नित्यं पिशुनोऽसौ विमुक्तिभाक्
परापवाद एवास्ति हृदये यस्य सर्वदा ।
परां गतिं गतो दृष्टः स मया मुनिशेखरः
मिथ्यैवेदं जगत्सर्वमिति निश्चितचेतसाम् ।
स मिथ्यावादिनां लोको दुर्लभः सत्यवादिनः
नैव किंचित्करोमीति यः सदाचारवर्जितः ।
आचारिणो न गच्छन्ति तस्यानाचारिणो गतिम्
पूर्वं यानि च मित्राणि विचारादीनि तान्यपि ।
विहाय तत्परं यातो मित्रद्रोही स मुच्यते
पञ्चभूतात्मकं विश्वं निर्मितं येन मायया ।
स एव हि मया दृष्टो मायावी मुक्तिभाजनम्
स्वेच्छयैव कृतं विश्वं स्वेच्छयैव निहन्ति यः ।
कृतज्ञादपि पूज्योऽसौ कृतघ्नो मोक्षमश्नुते
आश्चर्यं योऽभिमन्येत जीव आत्मानमीश्वरम् ।
सोऽभिमानी गतिं याति निरहङ्कारदुर्लभाम्
गुणेषु दोषं पश्यन्तो विश्वमात्रविनिन्दकाः ।
आत्मस्तुतिपरा यान्ति नित्यं वैकुण्ठमन्दिरम्
बुद्ध्वाऽपि शुद्धमात्मानं व्यावहारिकलोकवत् ।
करोति न करोमीति दम्भकृच्छम्भुवल्लभः
बोधखङ्गेन तीक्ष्णेन मोहाहङ्कारदुर्धियाम् ।
घातकः पातकं हन्ति पूर्वजन्मशतार्जितम्
अहङ्कारं हरिरहं ब्रह्मैवाहमहं शिवः ।
इति विश्वास्य हन्तारः पुण्या विश्वस्तघातकाः
मुक्तो विधिनिषेधाभ्यां निश्चिन्तः स्वेच्छया चरन् ।
कर्मठानामपाङ्क्तेयः सोऽस्माकं पङ्क्तिपावनः
निन्दितावभिनिर्मुक्ताभ्युदितौ यौ तु तौ हि नः ।
पूतौ कर्माभिनिर्मुक्तोऽभ्युदितश्च चितौ सदा
दत्त्वा द्वारि कपाटं यः खण्डलड्डुकवन्मुनिः ।
एकाकी मिष्टमश्नाति स याति परमां गतिम्
ज्ञानकर्मेन्द्रियगणो निरुद्ध्य निजमन्दिरे ।
पङ्क्तीकृत्य हतो येन सोऽस्माकं पङ्क्तिपावनः
पश्य संसारनाशार्थमात्मनाशं सहन्ति ये ।
संसारद्वेषिणां तेषां मुक्तिः शास्त्रेषु वर्णिता
अहं ममेति सर्वस्वं बोधद्यूतेषु हारितम् ।
येनासौ मुक्तिभाक्प्रोक्तो बृहदारण्यकश्रुतौ
दीनेन्द्रियमृगेष्वेव दया यस्य न विद्यते ।
स एव देवकीसूनोर्दीनबन्धोरतिप्रियः
आत्मभोगरतो राजा यस्तु नावेक्षते पुरीम् ।
लिप्यते न स पापेन प्रमाणं मुण्डकश्रुतिः
ज्ञानवैराग्यपाशेन हतो येन मनोधनी ।
यः स्यादेवंविधः पाशी तस्य काशी पदे पदे
गङ्गायमुनयोर्मध्ये बालरण्डां तपस्विनीम् ।
बलात्कारेण यो भुङ्क्ते स रण्डाव्यसनी शुचिः
बोधदावाग्निना दग्धं येन द्वैतवनं घनम् ।
अतिपुण्यां गतिं याति स हि दावाग्निदायकः
गृहे स्थितानामपि यो गवां ग्रासं ददाति न ।
आचरत्यात्मनः पुष्टिं सर्वपापैः प्रमुच्यते
रसाः सर्वेऽपि विक्रीता धर्माधर्ममजानता ।
ग्रन्थौ बद्धं बोधधनं स धन्यो रसविक्रयी
अन्तर्याम्यात्मना येन रचितो वर्णसङ्करः ।
स्वयं शङ्कर एवासौ वर्णितो वर्णसङ्करी
येन वेदाः समभ्यस्य विदित्वाऽर्थं स्वचिन्तया ।
प्लाविताः सह वेदान्तैर्वेदप्लावी स मुच्यते
शिवे निवेदितं सर्वं शिवनिर्माल्यतां गतम् ।
तद्भुनक्ति पवित्रात्मा शिवनिर्माल्यभोजनः
ब्रह्मचर्यं गतो भुङ्क्ते सर्वा नगरनायिकाः ।
लिप्यते न स पापेन चित्रं वेदान्तदर्शनम्
योगिनामवधूतानां शुकादीनां मुखाच्च्युतम् ।
किञ्चिदुच्छिष्टमास्वाद्य मुच्येदुच्छिष्टभोजनः
ब्रह्म जानाति तस्यैव ब्राह्मणस्य स्वचेतसः ।
वृत्तिलोपः कृतो येन स धन्यो वृत्तिलोपकृत्
यस्तु वृन्ताकदग्धान्नं कलञ्जादि यदृच्छया ।
लब्धमश्नाति हि मुनिस्तस्यादूरतरो हरिः
भृगवे वरुणेनोक्ता ब्रह्मविद्या तु वारुणी ।
तद्वारुणीरसास्वादमत्तानामुत्तमा गतिः
पराग्वृत्तिं परित्यज्य या प्रत्यक्सा तु वारुणी ।
तदभ्यासरतानां च न दूरे परमं पदम्
सुन्दरीं वीक्ष्य चित्कान्तामिन्द्रियेश्वरमिन्द्रियम् ।
मानसं स्खलितं येषां ते मुक्ता अजितेन्द्रियाः
योगभूमिं समारुह्य गम्भीरे ब्रह्मसागरे ।
पश्चान्निपतितो लीन आरूढपतितः शुचिः
चिद्विद्याकर्मनाशायां नद्यां स्नानं मया कृतम् ।
कर्मनाशाजलस्पर्शात्कर्मबन्धो निवर्त्तते
अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च ।
सर्वत्र परिपूर्णोऽहं पुनः संस्कारवर्जितः
निजं गृहं परित्यज्य रमते परमन्दिरे ।
स गृहस्थो गतिं गच्छेत्परामिति विदां मतम्
आत्मनः सुखलोभेन सुकृतं येन हारितम् ।
स एव सुकृती शेषः सुकृत्यपि हि दुष्कृती
अज्ञानमेव विज्ञानमविवेको विवेकिता ।
सर्वात्मकत्वं कैवल्यं येषां ते सिद्धसत्तमाः
बोधो यदवधानेन तन्मनो नाशयन्ति ये ।
विपरीतकृतां तेषां मुक्तिरित्याह शङ्करः
वेदान्तपाठरूपेण स्वधर्माः कीर्त्तिता मया ।
स्वधर्मकीर्त्तनादेव सायुज्यं पदमर्जितम्
द्विभार्यो ब्राह्मणो यस्तु त्यजेत्पूर्वां पतिव्रताम् ।
परस्या गुणलोभेन स याति परमां गतिम्
एतस्य विवरणम्
प्रवृत्तिश्च निवृत्तिश्च द्वेभार्ये वेदबोधिते ।
प्रथमा कर्मनिष्ठा स्याद्ब्रह्मनिष्ठा तथाऽपरा
कर्कशा रसिका चेति तयोर्नामान्तरं क्रमात् ।
कर्कशा कर्मकाण्डस्था रसिका ब्रह्मवादिनी
कर्कशा रसिका चेति यद्यपि द्वे पतिव्रते ।
रसिका स्वपतिं भुङ्क्ते कर्कशा कष्टभागिनी
कर्मनिष्ठा तु दासीव गृहकर्मरता सदा ।
ज्ञाननिष्ठा महाराज्ञी राजसिंहासने स्थिता
पतिहेतोर्दिवा नक्तं गृहकर्म करोतु सा ।
पतिं नालिङ्ग्य निद्राति कथं सौभाग्यभागिनी
रसरीतिं न जानाति कर्कशा कर्मवादिनी ।
पतिव्रता स्वभावेन भर्त्तारं स्तौति केवलम्
ज्ञाननिष्ठा तु रसिका तत्तत्संस्कारलक्षणैः ।
आनन्दयति भर्त्तारं तमेवाश्लिष्य खेलति
आसने शयने याने भोजने सा तदन्विता ।
क्षणं न तिष्ठति स्वामी तां विना रसलालसः
यस्तु जानाति चातुर्यान्महदन्तरमेनयोः ।
स कथं तत्र मूढायां रमेत किमु तत्सुखम्
यस्तु कश्चिन्महामूढः पामरः पशुधर्मवान् ।
कर्कशायां रमते रसिकां च न विन्दति
तस्यां च दुःखमाप्नोति प्रत्यहं कलहायते ।
भूयस्तामेव भजते दौर्भाग्यं तस्य तादृशम्
अत्र द्विभार्यशास्त्रार्थे विषयोऽयं व्यवस्थितः ।
निवृत्तिवनितां त्यक्त्वा प्रवृत्तो नरकं व्रजेत्
प्रवृत्तिवनितां त्यक्त्वा निवृत्तो मोक्षमश्नुते ।
विषमोऽप्येष शास्त्रार्थः प्रमाणं व्यासवाक्यतः
इति प्रवृत्तिनिवृत्तिशास्त्रविवरणम् ।
अथान्यदपि ।
एको विष्णुर्महद्भूतं व्यासेनोक्तं लगेद्यदि ।
तन्महाभूतसञ्चारे न दूरे परमं पदम्
डाकिनीसिद्धमन्त्रोऽयं ब्रह्मास्मीत्यक्षरात्मकः ।
भावनामात्रतो यस्य सद्यस्तद्रूपतां व्रजेत्
गुरुशास्त्रप्रसादेन संप्राप्य परमं पदम् ।
ममैवेदं मया प्राप्तमिति प्राह स उत्तमः
यत्तु जन्मशताभ्यस्तविज्ञानैरपि वस्तुतः ।
न किञ्चिदपि सम्प्राप्तं तस्य प्राप्तिर्महीयसी
अणीयसो महीयस्त्वं नेदीयस्त्वं दवीयसः ।
परस्य निजरूपत्वं यत्प्रत्येति प्रमा हि सा
यद्दृश्यते तत्तु मिथ्या तत्सत्यं यन्न दृश्यते ।
एतत्प्रामाणिकत्वं हि महोपनिषदां मतम्
विचित्रा यस्य रचना समस्ता भाति नीरसा ।
जीवन्मृतकतुल्योऽसौ जीवन्मुक्तः श्रुतौ स्तुतः
स्वयमेव प्रकाशेत दीपः शून्यालये यथा ।
तस्य व्यर्थप्रकाशस्य सार्थकं जन्म वर्णितम्
न बोधयति भावानामात्मनो भेदमण्वपि ।
अबोधदीप एवायमस्माकं बोधदीपकः
निशायामेव जागर्मि निद्रामि सकलं दिनम् ।
न च रोगा प्रबाधन्ते मा जरामरणादयः
उत्तमाधममध्यानां भेदभानं धियां फलम् ।
ताभिर्हीनस्य हरिणा प्रोक्ता पण्डितराजता
जडेन येन संत्यक्ते उभे सुकृतदुष्कृते ।
बुद्धियुक्तः स एवेति पार्थं प्राह जनार्दनः
कृताकृतैर्न यस्यार्थो नाश्रयो यस्य कुत्रचित् ।
पार्थसारथिरित्याह स तुच्छः स्वच्छमुक्तिभाक्
धर्माधर्मौ न जानाति न जानाति शुभाशुभे ।
सुखदुःखे न जानाति स ज्ञानीति मतं हरेः
चिन्तनेनैव मुक्तिः स्यादिति सर्वत्र वर्णितम् ।
अस्माकं तु मते स्वस्मिन्न किञ्चिदपि चिन्तयेत्
चिन्तनं सर्वशास्त्राणां मतमन्यन्मतं मम ।
न किञ्चिच्चिन्तनादेव स्वयं तत्त्वं प्रकाशते
स्वयं प्रकाशिते तत्त्वे तत्क्षणात्तन्मयो भवेत् ।
एकोऽपि न गुणो यस्मिन्द्वौ त्रयो वा कुतः किल ।
गुणान्गायति गोविन्दो निस्त्रैगुण्यस्य तस्य हि
यस्य नैवाधिकारोऽस्ति कस्मिंश्चिदपि कर्मणि ।
मुख्योऽधिकारी कैवल्ये स गीतो नन्दसूनुना
पश्यन्शृण्वन्स्पृशञ्जिघ्रन्यः प्रत्यक्षापलापकृत् ।
नैव किञ्चित्करोमीति तमार्यं प्राह केशवः
जानन्तोऽपि न सन्मार्गं मूढायोपदिशन्ति ये ।
मूढमार्गं प्रशंसन्ति तान्साधूनाह माधवः
यस्मिन्मार्गे प्रविष्टस्य भ्रष्टताऽग्रिमजन्मनि ।
तमेव योगिनां मार्गमस्तौषीत्पार्थसारथिः
यथेष्टचेष्टारोधो हि सिद्धिदो हठयोगिनाम् ।
यथेष्टचेष्टा कैवल्यमस्माकं ज्ञानयोगिनाम्
हत्वाऽपि य इमाल्लोकान्न हन्ति न निबध्यते ।
अस्माकं तु मते तस्य सङ्गतिः शान्तिसाधनम्
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
एतस्यापरिहार्यस्य परिहारो मतं मम
ज्ञानाग्निः सर्वकर्माणि कुरुते यस्य भस्मसात् ।
न तस्य कर्मभ्रष्टस्य कर्मठैर्लभ्यते पदम्
यस्तु कापुरुषः कामात्सर्वस्मादपि निर्गतः ।
स एव पुरुषार्थीति जगाद पुरुषोत्तमः
विष्णुगीता मयाऽधीता निर्णयस्तत्र निर्गतः ।
सर्वधर्मपरित्यागी सर्वपापैः प्रमुच्यते
असङ्गवस्तुविषये प्रलापोऽयं तु सङ्गतः ।
ध्यातो मुहुर्मुहुर्दद्यात्सतां पूर्णामसङ्गताम्
अगोचरविचारेऽस्य निन्द्यकामादिवर्त्मना ।
शतकस्य प्रवृत्तस्य व्यक्तोन्मत्तप्रलापता
अस्योन्मत्तप्रलापत्वादुपेक्षां तात मा कुरु ।
नूनमेतस्य भावार्थो दुर्बोधो विषयात्मभिः
इत्युन्मत्तप्रलापोऽयं नाम्ना प्रोक्तो मया तव
नूनमेकान्तनिष्ठेन नित्यमेकाग्रचेतसा ।
इत्युन्मत्तप्रलापोऽयं विचार्यः कृतबुद्धिना
अवस्थाया मनोन्मन्या उन्मत्ता ये महाधियः ।
निधिस्तेषां प्रलापोऽयं स्थाप्यो हृदयमन्दिरे
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0