भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 14.2

14.2.1

[प्. 213-]
ज्ञानभूमिकाः
जिज्ञासाऽथ विचाराख्या ततस्तु तनुमानसा ।
सत्त्वापत्तिरसंसक्तिः पदार्थाभाविनी तथा

14.2.2

सप्तमी तुर्यमित्युक्ता तुर्यातीतमतः परम् ।
आसामेव नामान्तराणि ।
मुमुक्षा च समक्षा च परीक्षा च परोक्षका

14.2.3

अपरोक्षा महादीक्षा पराकक्षेति सप्त ताः ।
प्रथमा त्वधिकाराख्या द्वितीया श्रवणात्मिका

14.2.4

तृतीया मननप्राया निदिध्यासश्चतुर्थिका ।
साक्षात्कारः पञ्चमी स्यात्षष्ठी परिणतिः स्मृता

14.2.5

सप्तमी तु परा काष्ठा सैव तुर्यमितीरिता ।
प्रथमायां तु विद्यार्थी द्वितीयायां पदार्थवित्

14.2.6

निःसंशयस्तृतीयायां चतुर्थ्यां पण्डितो भवेत् ।
प्राप्तानुभूतिः पञ्चम्यां षष्ठ्यामानन्दघूर्णितः

14.2.7

सप्तमी सहजा तुर्या तुर्यातीतमतः परम् ।
भूमिका त्रितयं पूर्वं त्वत्र जाग्रदिति स्मृतम्

14.2.8

जिज्ञासोरत्र संसारो यथापूर्वं यतः स्थितः ।
चतुर्थी स्वप्न इत्युक्ता स्वप्नाभं यत्र वै जगत्

14.2.9

सुषुप्तिः शिथिला गाढा द्विविधाऽऽद्या तु पञ्चमी ।
षष्ठी गाढसुषुप्तिः स्यात्सप्तमी तुर्यमुच्यते

14.2.10

अत्र प्रश्नः
संसारमेव यो वेत्ति मोक्षमार्गं न वेत्ति यः ।
तस्य संसारिणः पूर्वं मुमुक्षा जायते कथम्

14.2.11

यादृशो यस्य संस्कारस्तादृशी तस्य वासनाः ।
संसारसंस्कारवतो मुमुक्षा जायते कथम्

14.2.12

मोक्षे तु विषयो नास्ति सुखं न विषयैर्विना ।
इति मूढधियां पूर्वं मुमुक्षैव कथं भवेत्

14.2.13

अत्रोतरम् ।
निष्कामा वा सकामा वा भक्तिर्विष्णोः शिवस्य वा ।
सप्रेम हृदये जाता मुमुक्षाकारणं हि तत्

14.2.14

कदाचिच्छुद्धभावेन गङ्गातीरे तपः कृतम् ।
तत्पुण्यपरिपाकेन मुमुक्षा जायते सताम्

14.2.15

विदुषां वीतरागाणामन्नपानादिसेवया ।
सङ्गत्या प्रणयेनापि मुमुक्षाऽऽकस्मिकी भवेत्

14.2.16

तदुक्तम् ।
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः

14.2.17

तथा च वासिष्ठे ।
चलार्णवयुगच्छिद्रकूर्मग्रीवाप्रवेशवत् ।
अनेकजन्मनामन्ते विवेकी जायते पुमान्

14.2.18

सोपास्तीनां कर्मणां तु चित्तशुद्धिः फलं मतम् ।
वेदनेच्छा वेदनं वा चित्रा सत्कर्मणां गतिः

14.2.19

वेदान्तैरपि जिज्ञासोस् तस्मात्कर्मोररी कृतम् ।
श्रद्धा चित्तस्य शान्तिश्च दान्तिश्चोपरमस्तथा ।
मुमुक्षा साधनानां हि संपत्प्रथमभूमिका

14.2.20

गुरूपसदनं पूर्वं कर्त्तव्यं हि मुमुक्षुणा ।
गुरुमेवाभिगच्छेच्च विज्ञानार्थमिति श्रुतिः

14.2.21

तल्लक्षणानि ।
मोक्ष एव ममास्त्वीश माऽस्तु संसारदर्शनम् ।
इति यः सुदृढो भावो मुमुक्षालक्षणं हि तत्

14.2.22

पुण्यक्षेत्रेषु या बुद्धिः पुण्यतीर्थेषु या रुचिः ।
मोक्षधर्मेषु या श्रद्धा मुमुक्षालक्षणं हि तत्

14.2.23

यतः कुतश्चिदानीय ज्ञानशास्त्राण्यवेक्षते ।
चिन्तयंस्तस्य तात्पर्यं मुमुक्षालक्षणं हि तत्

14.2.24

महताऽपि प्रयत्नेन कुर्यात्पण्डितसङ्गतिम् ।
संस्थापयित्वा मूर्धानं तेषां चरणपङ्कजे

14.2.25

प्रश्नान्मनोगतान्पृच्छेत्स्वाज्ञानं च प्रकाशयेत् ।
तेषामुत्तरवाक्यानां तात्पर्यं हृदि भावयेत्

14.2.26

नाधर्मो रोचते यस्य यस्य धर्मे सदा रुचिः ।
काम्यधर्मे न च श्रद्धा मुमुक्षालक्षणं हि तत्

14.2.27

रागद्वेषमदक्रोधलोभमत्सरवृत्तिषु ।
स्वभावाद्ग्लानिमाप्नोति मुमुक्षालक्षणं हि तत्

14.2.28

तत्र श्लोकः ।
प्रेक्षितुं न विजानाति प्रेक्षणे कुरुते मनः ।
लज्जां जहाति नैवेयं वयःसन्धिरयं किल

14.2.29

चलिता स्वामिगेहाय वधूः खिद्यति रोदिति ।
इदमत्र समाधानं पदमग्रे दधाति यत्

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc