बोधसार · अध्याय 14.1
[प्. 207-]
राजयोगे भूमिकाभेदभास्करः ।
भूमिकाभेदमारभ्य यावद्ग्रन्थसमापनम् ।
अगाधबोधसारेऽस्मिन्राजयोगो निरूप्यते
अथायं हृदि कर्तव्यो भूमिकाभेदभास्करः ।
यस्य प्रसादमात्रेण तमो हार्दं विलीयते
अज्ञानभूमिकाः सप्त सप्तैव ज्ञानभूमिकाः ।
बीजजाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च
जाग्रत्स्वप्नस्तथा स्वप्नः स्वप्नजाग्रत्सुषुप्तकम् ।
इति सप्तविधो मोहस्तेषां विवरणं शृणु
कुसूले संस्थितं बीजं तत्र सर्वो यथा द्रुमः ।
तथा यत्र स्थितं विश्वं न तु व्यक्तिमुपागतम्
बीजरूपं स्थितं जाग्रद्बीजजाग्रत्तदुच्यते ।
संसारप्रथमावस्था महामोहः स एव हि
तदेवाज्ञानमित्युक्तं यत्स्वबोधेन लीयते ।
कुसूले संस्थितं बीजं क्षेत्रे निक्षिप्यते यदा
अंकुरोन्मुखतां याति साऽवस्था जाग्रदुच्यते ।
इदमेव महत्तत्त्वमिति सांख्यैर्निरूप्यते
ईक्षणं चेति वेदान्तैः सामान्याहङ्कृतिस्तथा ।
आनन्दमयकोशश्च तत्साक्षी त्वीश्वरः स्मृतः
विशेषाहङ्कृतिः सूक्ष्माङ्कुरवद्व्यावहारिकी ।
महाजाग्रद्बुधैः प्रोक्ता व्यष्ट्यवस्थात्रये तु सा
जाग्रत्स्वप्नसुषुप्ताख्येऽवस्था जाग्रदिति स्मृता ।
जाग्रदेव यदा जीवो मनोराज्यं करोति हि
जाग्रतः स्वप्न इव यत्स जाग्रत्स्वप्न उच्यते ।
लोकप्रसिद्धो यः स्वप्नः स स्वप्न इति कथ्यते
जातेऽपि जागरे जन्तोः स्वप्नदृष्टार्थभासनम् ।
प्रत्यक्षमिव संस्कारात्स्वप्नजाग्रत्तदुच्यते
षडवस्थापरित्यागे सुषुप्तिः सप्तमी मता ।
अज्ञानभूमिकास्त्वेताः शृणु विज्ञानभूमिकाः
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0