बोधसार · अध्याय 14.3
[प्. 231-]
अथ द्वितीया ।
प्रकृतेर्लक्षणं त्वेतदिदं विकृतिलक्षणम् ।
स्वरूपं पुरुषस्येदं तद्विचारस्य लक्षणम्
इदं सत्यमिदं मिथ्या त्विदं चेत्यमियं हि चित् ।
इदं ब्रह्म त्वियं माया तद्विचारस्य लक्षणम्
कस्मिन्निदं कुतश्चेदं किमिदं केन वा कृतम् ।
कथमेतद्विलीयते तद्विचारस्य लक्षणम्
क ईश्वरश्च को जीवः का मुक्तिः किन्तु बन्धनम् ।
किं द्वैतं कथमद्वैतं तद्विचारस्य लक्षणम्
नित्यानित्यविवेकेन नित्यवस्तुनि वस्तुता ।
अनित्ये तुच्छताबुद्धिस्तद्विचारस्य लक्षणम्
एवमभ्यासयोगेन विदुषां मनसा सह ।
जायते ब्रह्मवादो यः सा तु प्रौढविचारणा
स्वयं प्रकाशरूपोऽयं पृष्टः कोऽसीति संवदेत् ।
अहमज्ञो न जानामि मामहं कोऽहमित्युत
आत्मभानादृते नाहमज्ञ इत्युक्तिसम्भवः ।
आत्मानमेव नो वेत्ति तर्ह्ययं जड एव हि
जडत्वाच्च घटादीनि कथमेव प्रकाशयेत् ।
तस्मादयं स्वमात्मानं जानात्येवेति निर्णयः
अथात्मानमसौ वेत्ति परन्तु न हि वेत्ति यत् ।
विशेषं स्वगतं तस्मात्स्वरूपाज्ञानवानयम्
अत्र ब्रूमो विशेषोऽत्र नास्त्यवाच्ये तु चिद्घने ।
निर्विशेषस्वरूपेऽत्र विशेषं यदि वेत्ति सः
वेद्यत्वात्कल्पितः स्वस्मिंस्तेन किं तद्विचारणैः ।
निर्विशेषतया ज्ञातो निर्विशेषस्वरूपवान्
पूर्णबोधस्तर्हि जातो जिज्ञासैव निरर्थिका ।
किञ्जातीयः किंगुणोऽसौ किञ्चेष्टो नाम तस्य किम्
किं प्रकारः किमाकारः किंविकारश्च पृच्छसि ।
न जातिर्निर्गुणस्यास्य निश्चेष्टो नाम तस्य न
निष्प्रकारो निराकारो निर्विकारः स निश्चितः ।
सच्चिदानन्दरूपेण जिज्ञास्य इति चेद्वदेत्
सच्चिदानन्दरूपेण ज्ञात एवायमेव हि ।
अस्य विवरणम् ।
अयमात्मा स्वमात्मानं सद्रूपेण न वेत्ति किम्
अहमस्मीति जानाति नाहमस्मीति तद्वद ।
अहमस्मीति जानाति पश्चाद्विज्ञेय आत्मनः
धर्मे चार्थे च कामे च मोक्षे च यतते स्वयम् ।
तस्मात्सद्रूपतायां तु नास्त्येवाज्ञानमात्मनः
चेतनोऽहं विजानामि घटादीनीति यो वदेत् ।
स्वस्य चिद्रूपतायां तु तस्याज्ञानं न विद्यते
सर्वं प्रियं स्वकामाय तस्मात्प्रियतमः स्वयम् ।
तेनात्मनस्तु सा युक्ता स्पष्टैवानन्दरूपता
तेनात्मनस्तु सा व्यक्ता सच्चिदानन्दरूपता ।
तस्मात्स्वयं प्रकाशेऽस्मिन्सच्चिदानन्दरूपिणि
आकाशे नीलिमा यद्वत्तोयं मरुमरीचिषु ।
जले च नैल्यमन्येन चेतनेन प्रकल्पितम् ।
अज्ञानं चित्स्वरूपेण स्वयं स्वस्मिन्प्रकल्पितम्
मोहस्यापि स्वभावोऽयं विश्वरूपेण भासनम् ।
विद्यया नाशिते मोहे तत्स्वभावो न भासते
जीवचैतन्यभास्यानां वृत्तीनां प्रलये लयः ।
वृत्तीनां प्रलयादेव न भासन्तेऽत्र वृत्तयः
तत्पुनर्जीवचैतन्यं यथा पूर्वं हि वर्तते ।
न पुनर्वृत्तिभासात्मा जीवस्तत्र विनश्यति
आत्मचैतन्यभास्यस्य मोहस्य प्रलये तथा ।
मोह एव निवर्तेत यथा पूर्वं लसत्यसौ
दीपप्रभायामायातौ श्वेतकृष्णपटौ यथा ।
तौ तया काशितौ पश्चात्तन्नाशे सा यथा स्थिता
आत्मभायां समायातौ मोहबोधौ यथाक्रमात् ।
तया प्रकाशितौ पश्चात्तन्नाशेन सा यथा स्थिता
वेदान्तसंप्रदायेन कृत इत्यादिचिन्तने ।
असम्भावनया युक्ता विपरीतत्वभावना
सा नश्यति द्वितीयायां प्रज्ञातैक्ष्ण्यं च वर्धते ।
दृश्यते त्वग्रयया बुद्ध्या सा बुद्धिस्तस्य जायते
सक्षारैरग्निसंस्कारैर्विहिते हेमशोधने ।
श्यामिका क्षयमायाति केवलं हेम तिष्ठति
सतकैर्बोधसंस्कारैर्विहिते ब्रह्मशोधने ।
अविद्या क्षयमायाति केवलं ब्रह्म तिष्ठति
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0