बोधसार · अध्याय 13
[प्. 180-]
भक्तिरसायनम्
अथ सिद्धान्तसर्वस्वं शृणु भक्तिरसायनम् ।
जन्ममृत्युजराव्याधिभेषजं तद्रसायनम्
धर्मार्थकाममोक्षाणां ज्ञानवैराग्ययोरपि ।
अन्तःकरणशुद्धेश्व भक्तिः परमसाधनन्
ययात्र रक्त्या जीवोऽयं दधाति ब्रह्मरूपताम् ।
साधिता सनकाद्यैः सा भक्तिरित्यभिधीयते
सर्वा साधनसंपत्तिरस्ति भक्तिस्तु नास्ति चेत् ।
तर्हि साधनसंपातस्तुषकण्डनवद्वृथा
यद्यन्यत्साधनं नास्ति भक्तिरस्ति महेश्वरे ।
तदा क्रमेण सिद्ध्यन्ति विरक्तिज्ञानमुक्तयः
न हि कश्चिद्भवेन्मुक्त ईश्वरानुग्रहं विना ।
ईश्वरानुग्रहादेव मुक्तिरित्येष निश्चयः
ईश्वरः परिपूर्णत्वान्न तु किञ्चिदपेक्षते ।
प्रीत्यैवाशु प्रसन्नः सन्परं कुर्यादनुग्रहम्
या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
त्वामनुस्मरतः सा मे हृदयान्माऽपसर्पतु
परमात्मनि विश्वेशे भक्तिश्चेत्प्रेमलक्षणा ।
सर्वमेव तदा सिद्धं कर्तव्यं नावशिष्यते
अपरोक्षानुभूतिर्या वेदान्तेषु निरूपिता ।
प्रेमलक्षणभक्तेस्तु परिणामः स एव हि
शास्त्रार्थः संपरिज्ञातो जातं प्रेम महेश्वरे ।
प्रेमानन्दप्रकारेण द्वैतं विस्मरणं गतम्
वासुदेवमयं सर्वं वासुदेवात्मकं जगत् ।
इत्थं द्वैतरसाढ्यस्य ज्ञानं किमवशिष्यते
वासुदेवः परं ब्रह्म परमात्मा परात्परः ।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
इत्यादिवचनैर्भक्तो वैष्णवः स्तौति केशवम्
शिवः कर्ता शिवो भोक्ता शिवः सर्वेश्वरेश्वरः ।
शिव अत्मा शिवो जीवः शिवादन्यन्न विद्यते
खंवायुतेजोजलभूक्षेत्रज्ञार्केन्दुमूर्तिभिः ।
अष्टाभिरष्टमूर्तिं च शांभवः स्तौति शङ्करम्
इदं यदा परिणतं प्रेम तज्ज्ञानमेव हि
अथ युक्त्यन्तरम् ।
बालकस्तात तातेति जनकं प्रति भाषते ।
न पुनस्तातशब्दार्थं स तु जानाति किञ्चन
यदा तातपदार्थस्य व्युत्पतिं यात्यसौ क्रमात् ।
तदा तु सत्यमेवायं तात इत्येति निश्चयम्
तथा भक्तो भजन्देवं वेदशास्त्रोदितैः क्रमैः ।
व्युत्पतिं परमां प्राप्य मुक्तो भवति हि क्रमात्
किं च लक्षणभेदो हि वस्तुभेदस्य कारणम् ।
न भक्तज्ञानिनोर्दृष्टा शास्त्रे लक्षणभिन्नता
विरागश्च विचारश्च शौचमिन्द्रियनिग्रहः ।
वेदे च परमा प्रीतिस्तदेकं लक्षणं द्वयोः
अध्याये भक्तियोगाख्ये गीतायां भक्तिलक्षणम् ।
यदुक्तमष्टभिः श्लोकैर्दृष्टं ज्ञानिषु तन्मया
तवास्मीति भजत्येकस्त्वमेवास्मीति चापरः ।
इति किञ्चिद्विशेषेपि परिणामः समो द्वयोः
अन्तर्बहिर्यदा देवं देवभक्तः प्रपश्यति ।
दासोऽहं भावयन्नेव दाकारं विस्मरत्यसौ
दृष्टमेकान्तभक्तेषु नारदप्रमुखेषु तत् ।
किंचिद्विशेषं वक्ष्यामि त्वमेकाग्रमनाः शृणु
यदीश्वररसी भक्तस्तदीश्वररसी बुधः ।
उभौ यद्यप्येकरसौ तथापीषद्विलक्षणौ
बुद्धा बोधरसादन्यरसनीरसतां गताः ।
तथाऽधिकप्रेमरसान्न तु भक्ताः कदाचन
अथ प्रश्नः ।
ननु ज्ञानं विना मुक्तिर्नास्ति युक्तिशतैरपि ।
तथा भक्तिं विना ज्ञानं नास्त्युपायशतैरपि
भक्तेर्ज्ञानं ततो मुक्तिरिति साधारणक्रमः ।
ज्ञानिनस्तु वसिष्ठाद्या भक्ता वै नारदादयः
एवमादिव्यवस्थायाः कारणं किं निरूप्यताम् ।
अत्रोच्यते विचित्रं यत्कारणं तन्निशामय
कथयामि सदृष्टान्तं येनार्थः स्फुटतां व्रजेत् ।
स्यात्तापस्य च पापस्य गंगास्नानेन हि क्षयः
यस्तु स्यात्तापशान्त्यर्थी तस्यापि स्यादघक्षयः ।
यस्तु स्यादघशान्त्यर्थी तापस्तस्यापि नश्यति
तापपापक्षयौ स्नानं त्रयमेतत्समं द्वयोः ।
तथाप्येकस्तु शैत्यार्थी शुद्ध्यर्थी तु द्वितीयकः
यथैव भावभेदेन नामभेदस्तयोरभूत् ।
एवमेव बुधैर्यैस्तु देवो मुक्त्यर्थमाश्रितः
भक्त्या ज्ञानमवाप्यैव ये मुक्ता ज्ञानिनो हि ते ।
यैस्तु संसारविरसैर्भक्त्यर्थं हरिराश्रितः
ततो भक्तिप्रभावेन स्वभावाज्ज्ञानमुद्गतम् ।
तज्ज्ञानं प्राप्य मुक्ता ये ते भक्ता इति वर्णिताः
विरक्तिभक्तिविज्ञानमुक्तयस्तु समा द्वयोः ।
तथापि भावभेदेन नामभेदस्तयोरभूत्
मुक्तिर्मुख्यफलं ज्ञस्य भक्तिस्तत्साधनत्वतः ।
भक्तस्य भक्तिर्मुख्यैव मुक्तिः स्यादानुषङ्गिकी
रीत्याऽनयऽपि सुमते वरिष्ठा भक्तिरीश्वरे ।
अथान्योऽपि महिमा
परमानन्दरूपोसौ परमात्मा स्वयं हरिः
शिवभक्तिं पुरस्कृत्य भुङ्क्ते भक्तिरसायनम् ।
सनकाद्या वसिष्ठाद्या नन्दिस्कन्दशुकादयः
भुञ्जते तत्पदं प्राप्ता अपि भक्तिरसायनम् ।
द्वैतं विना कथं भक्तिरिति तत्रोत्तरं शृणु
द्वैतं मोहाय बोधात्प्राक्प्राप्ते बोधे मनीषया ।
भक्त्यर्थं कल्पितं द्वैतमद्वैतादपि सुन्दरम्
तथा चोक्तं भागवते
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।
कुर्वन्त्यहेतुकीं भक्तिमित्थंभूतगुणो हरिः
जाते समरसानन्दे द्वैतमप्यमृतोपमम् ।
मित्रयोरिव दंपत्योर्जीवात्मपरमात्मनोः
हृदये वसति प्रीत्या लोकरीत्या च लज्जते ।
यथा चमत्कारमयी नित्यमानन्दिनी वधूः
पारमार्थिकमद्वैतं द्वैतं भजनहेतवे ।
तादृशी यदि भक्तिश्चेत्सा तु मुक्तिशताधिका
प्रियतमहृदये वा खेलतु प्रेमरीत्या पदयुगपरिचर्यां प्रेयसी वा विधत्ताम् ।
विहरतु विदितार्थो निर्विकल्पे समाधौ ननु भजनविधौ वा तद्द्वयं तुल्यमेव
विश्वेश्वरस्तु सुधिया गलितेऽपि भेदे भावेन भक्तिसहितेन समर्चनीयः ।
प्राणेश्वरश्चतुरया मिलितेऽपि चित्ते चैलाञ्चलव्यवहितेन निरीक्षणीयः
अथ भक्तिरसमाश्रित्य श्लोकः ।
योगे नास्ति गतिर्न निर्गुणविधौ सम्भावनादुर्गमे नित्यं नीरसया धिया परिहृते द्वे ऐहिकामुष्मिके ।
गोपः कोऽपि सखाऽकृतः स तु पुनर्नानाङ्गनासङ्गवानस्माकं पदमर्थयन्ति मुनयश्चित्रं किमस्मात्परम्
रोमाञ्चेन चमत्कृता तनुरियं भक्त्या मनो नन्दितं प्रेमाश्रूणि विभूषयन्तिं वदनं कण्ठं गिरो गद्गदाः ।
नास्माकं क्षणमात्रमप्यवसरः कृष्णार्चनं कुर्वतां मुक्तिर्द्वारि चतुर्विधापि किमियं दास्याय लोलायते
घनः कामोऽस्माकं तव तु भजनेऽन्यत्र न रुचिस्तवैवांघ्रिद्वन्द्वे नतिषु रतिरस्माकमतुला ।
सकामे निष्कामा सपदि तु सकामा पदगता सकामाऽस्मान्मुक्तिर्भजति महिमाऽयं तव हरे
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0