बोधसार · अध्याय 12.5
[प्. 160-]
लययोग
चञ्चलं हि न जानाति मनो निश्चलतासुखम् ।
तद्विचिन्तयितुं तस्मै मुनिभिर्दर्शितो लयः
आख्याताः शम्भुना गौर्यै ह्यसंख्याता लयक्रमाः ।
केन ज्ञेयाः केन वर्ण्याः किञ्चित्तु कथयाम्यहम्
निद्रादौ जागरस्यान्ते निद्रान्ते जागरोदये ।
लयो भवति चित्तस्य कार्यं तत्रात्मचिन्तनम्
यदा शिथिलतां याति भारं त्यक्त्वेव भारिकः ।
आत्माऽऽदरेण कर्त्तव्यं तदैव शिवपूजनम्
यदा यदा शिथिलतां याति चित्तं तदा तदा ।
चिन्तनीयो महेशानस्तदेव शिवपूजनम्
सर्वेष्टानिष्टभावानामिष्टत्वेनैवभावनात् ।
नीरागद्वेषता चित्ते या सैव शिवपूजनम्
पीडैव परमा पूजा यथा चरणपीडनम् ।
दुःखमेव परा पूजा रूक्षमुद्वर्त्तनं यथा
खेद एव परा पूजा खेदे चिति मनोलयः ।
भयं हि परमा पूजा भीषाऽस्मादिति च श्रुतेः
दानं तु परमा पूजा दीयते परमात्मने ।
अदानं परमा पूजा यदि चित्तं प्रसीदति
रोगा एव परा पूजा रोगैः पापक्षयो यतः ।
आरोग्यं परमा पूजा नैरोग्यं मुक्तिसाधनम्
क्रिया तु परमा पूजा शिवार्थं क्रियतेऽखिलम् ।
अक्रियैव परा पूजा निश्चला ध्यानरूपिणी
सत्सङ्गः परमा पूजा सत्सङ्गो मोक्षसाधनम् ।
असत्सङ्गः परा पूजा यत्र मोहः परीक्ष्यते
धैर्यं तु परमा पूजा धीरो ह्यमृतश्नुते ।
अधैर्यं परमा पूजा शीघ्रं कार्यविमोक्षतः
स्तुतिरेव परा पूजा स्तुतौ देवः प्रसीदति ।
निन्दैव परमा पूजा सुहृदां गालयो यथा
तृष्णैव परमा पूजा देवार्थं वहु काङ्क्षते ।
सन्तोषः परमा पूजा देवः सन्तोषलक्षणः
यात्रा हि परमा पूजा देवस्यैतत्प्रदक्षिणम् ।
आसनं परमा पूजा स्वासनं योग उत्तमः
भोजनं परमा पूजा देवनैवेद्यरूपतः ।
अभोजनं परा पूजा ह्युपवासप्रियो हरिः
स्थितत्वं परमा पूजा तदुपस्थानमात्मनः ।
पतनं परमा पूजा नमस्कारस्वरूपिणी
भाषणं परमा पूजा सर्वं स्तुतिमयं हरेः ।
मौनं तु परमा पूजा मौनं व्याख्यानमस्य तत्
चेष्टैव परमा पूजा चेष्टते तत्प्रकाशतः ।
अचेष्टा हि परा पूजा जोषमास्वेति वेदवाक्
जन्मैव परमा पूजा सोऽवतारो हरेः सतः ।
जीवनं परमा पूजा जीवन्कार्याणि साधयेत्
दीर्घायुः परमा पूजा योगिनो दीर्घजीविनः ।
स्वल्पायुः परमा पूजा सद्यो ह्यस्माद्विमुच्यते
मरणं परमा पूजा निर्माल्यत्यागरूपिणी ।
शोको हि परमा पूजा शोको वैराग्यसाधनम्
हर्ष एव परा पूजा हृष्टरूपः सदा हरिः ।
पुष्टिस्तु परमा पूजा स्वस्थचित्तो हि पुष्टिमान्
कृशत्वं परमा पूजा कृशगात्रा हि योगिनः ।
लाभ एव परा पूजा लाभः सन्तोषकारणम्
हानिरेव परा पूजा तस्मादेव विमुच्यते ।
गुण एव परा पूजा साधूनां संमतो गुणी
दोषा एव परा पूजा निरहङ्कारता यतः ।
मान एव परा पूजा मान्यते परमेश्वरः
अपमानः परा पूजा योगी सिद्ध्येदमानतः ।
धनं हि परमा पूजा धनं धर्मस्य साधनम्
निर्धनत्वं परा पूजा ब्रह्म प्राप्तमकिञ्चनैः ।
अप्रमादः परा पूजा ह्यप्रमत्तो हि सिद्ध्यति
प्रमादः परमा पूजा कर्त्तव्यं विस्मरेद्यतः ।
सुषुप्तिः परमा पूजा समाधिर्योगिनां हि सः
कर्मयोगः परा पूजा कर्म ब्रह्मार्पणं हरौ ।
भक्तियोगः परा पूजा यो मद्भक्तः स मे प्रियः
ज्ञानयोगः परा पूजा ज्ञानात्कैवल्यमश्नुते ।
तुरीयं परमा पूजा साक्षात्कारस्वरूपिणी
श्रवणं परमा पूजा श्रूयते परमेश्वरः ।
मननं परमा पूजा मननं ध्यानसाधनम्
मद्गुरोः सदृशः कश्चिद्गुरुः कर्णे लगेद्यदि ।
सर्वमेव तदा पूजा देवस्य लयरूपिणी
लयानामपि सर्वेषां विश्वविस्मृतिहेतुतः ।
श्रेष्ठं नादानुसन्धानं नादो हि परमो लयः
मकरन्दं पिबन्भृङ्गो यथा गन्धं न काङ्क्षति ।
नादासक्तं तथा चित्तं विषयान्नाभिकाङ्क्षति
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0