भाषा

ENहिગુ
ग्रंथ पाठ

बीजगणित · श्लोक 85-104

85

का कृतिस् नवभिस् क्षुण्णा द्विपञ्चाशत्-युता कृतिस्।
कस् वा चतुर्-गुणस् वर्गस् त्रयस्त्रिंशत्-युता कृतिस्॥[अनुष्टुभ्]

86

त्रयोदश-गुणस् वर्गस् कस् त्रयोदश-वर्जितस्।
त्रयोदश-युतस् वा स्यात् वर्गस् एव निगद्यताम्॥[अनुष्टुभ्]

87

ऋण-गैस् पञ्चभिस् क्षुण्णस् कस् वर्गस् स-एकविंशतिस्।
वर्गस् स्यात् वद चेद् वेत्सि क्षय-ग-प्रकृतौ विधिम्॥[अनुष्टुभ्]

88

उक्तम् बीज-उपयोगी इदम् संक्षिप्तम् गणितम् किल।
अतस् बीजम् प्रवक्ष्यामि गणक-आनन्द-कारकम्॥[अनुष्टुभ्]

89

यावत्तावत् कल्प्यम् अव्यक्त-राशेस् मानम् तस्मिन् कुर्वता उद्दिष्टम् एव।
तुल्यौ पक्षौ साधनीयौ प्रयत्नात् त्यक्त्वा क्षिप्त्वा वा अपि संगुण्य भक्त्वा॥[शालिनी]
एक-अव्यक्तम् शोधयेत् अन्य-पक्षात् रूपाणि अन्यस्य इतरस्मात् च पक्षात्।
शेष-अव्यक्ते न उद्धरेत् रूप-शेषम् व्यक्तम् मानम् जायते व्यक्त-राशेस्॥[शालिनी]
अव्यक्तानाम् द्वि-आदिकानाम् अपि इह यावत्तावत् द्वि-आदि-निघ्नम् हृतम् वा।
युक्त-ऊनम् वा कल्पयेत् आत्म-बुद्ध्या मानम् क्व अपि व्यक्तम् एवम् विदित्वा॥[शालिनी]

90

एकस्य रूप-त्रिशती षट् अश्वास् अश्वास् दश अन्यस्य तु तुल्य-मौल्यास्।
ऋणम् तथा रूप-शतम् च यस्य तौ तुल्य-वित्तौ च किम् अश्व-मौल्यम्॥[उपजाति]

91

यत् आद्य-वित्तस्य दलम् द्वि-युक्तम् तद्-तुल्य-वित्तस् यदि वा द्वितीयस्।
आद्यस् धनेन त्रि-गुणस् अन्यतस् वा पृथक् पृथक् मे वद वाजि-मौल्यम्॥[उपजाति]

92

माणिक्य-अमल-नील-मौक्तिक-मितिस् पञ्च अष्ट सप्त क्रमात् एकस्य अन्यतरस्य सप्त नव षट् तद्-रत्न-संख्या सखे।
रूपाणाम् नवतिस् द्वि-षष्टिस् अनयोस् तौ तुल्य-वित्तौ तथा बीज-ज्ञ प्रति-रत्न-जानि सु-मते मौल्यानि शीघ्रम् वद॥[शार्दूलविक्रीडित]

93

एकस् ब्रवीति मम देहि अतम् धनेन त्वत्तस् भवामि हि सखे द्वि-गुणस् ततस् अन्यस्।
ब्रूते दश अर्पयसि चेद् मम षष्-गुणस् अहम् त्वत्तस् तयोस् वद धने मम किम्-प्रमाणे॥[सिंहोद्धता]

94

माणिक्य-अष्टकम् इन्द्रनील-दशकम् मुक्ताफलानाम् शतम् यत् ते कर्ण-विभूषणे सम-धनम् क्रीतम् त्वद्-अर्थे मया।
तद्-रत्न-त्रय-मौल्य-संयुति-मितिस् त्रि-ऊनम् शत-अर्धम् प्रिये मौल्यम् ब्रूहि पृथक् यदि इह गणिते कल्पा असि कल्याणिनि॥[शार्दूलविक्रीडित]

95

पञ्च-अंशस् अलि-कुलात् कदम्बम् अगमत् त्रि-अंशस् शिलीन्ध्रम् तयोस् विश्लेषस् त्रि-गुणस् मृग-अक्षि कुटजम् दोलायमानस् अपरस्।
कान्ते केतक-मालती-परिमल-प्राप्त-एक-काल-प्रियात् दूत-आहूतस् इतस् ततस् भ्रमति खे भृङ्गस् अलि-संख्याम् वद॥[शार्दूलविक्रीडित]

96

पञ्चक-शत-दत्त-धनात् फलस्य वर्गम् विशोध्य परिशिष्टम्।
दत्तम् दशक-शतेन तुल्यस् कालस् फलम् च तयोस्॥[आर्या]

97

एक-शत-दत्त-धनात् फलस्य वर्गम् विशोध्य परिशिष्टम्।
पञ्चक-शतेन दत्तम् तुल्यस् कालस् फलम् च तयोस्॥[आर्या]

98

माणिक्य-अष्टकम् इन्द्रनील-दशकम् मुक्ताफलानाम् शतम् सत्-वज्राणि च पञ्च रत्न-वणिजाम् येषाम् चतुर्णाम् धनम्।
सङ्ग-स्नेह-वशेन ते निज-धनात् दत्त्वा एकम् एकम् मिथस् जातास् तुल्य-धनास् पृथक् वद सखे तद्-रत्न-मौल्यानि मे॥[शार्दूलविक्रीडित]

99

पञ्चक-शतेन दत्तम् मूलम् स-कलान्तरम् गते वर्षे।
द्वि-गुणम् षोडश-हीनम् लब्धम् किम् मूलम् आचक्ष्व॥[आर्या]

100

यत् पञ्चक-द्विक-चतुष्क-शतेन दत्तम् खण्डैस् त्रिभिस् नवति-युज् त्रिशती धनम् तत्।
मासेषु सप्त-दश-पञ्चसु तुल्यम् आप्तम् खण्ड-त्रये अपि स-फलम् वद खण्ड-संख्याम्॥ [वसन्ततिलका]

101

पुर-प्रवेशे दश-दस् द्वि-संगुणम् विधाय शेषम् दश-भुक् च निर्गमे।
ददौ दश एवम् नगर-त्रये अभवत् त्रि-निघ्नम् आद्यम् वद तत् कियत् धनम्॥

102

स=अर्धम् तन्दुल-मानक-त्रयम् अहो द्रम्मेण मान-अष्टकम् मुद्गानाम् च यदि त्रयोदश-मितास् एतास् वणिक् काकिणीस्।
आदाय अर्पय तन्दुल-अंश-युगलम् मुद्ग-एक-भाग-अन्वितम् क्षिप्रम् क्षिप्र-भुजस् व्रजेम हि युतस् स-अर्थस् अग्रतस् यास्यति॥

103

स्व-अर्ध-पञ्च-अंश-नवमैस् युक्तास् के स्युस् समास् त्रयस्।
अन्य-अंश-द्वय-हीनास् ये षष्टि-शेषास् च तान् वद॥

104

त्रयोदश तथा पञ्च करण्यौ भुजयोस् मिती।
भूस् अज्ञाता अत्र चत्वारस् फलम् भूमिम् वद आशु मे॥

मूल पाठ: Bījagaṇita · Edition: V. G. Apate's edition (ASS 99, Poona 1930) · Data entry T. Hayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc