बीजगणित · श्लोक 62-84
यद्-गुणा अक्षय-ग-षष्टिस् अन्विता वर्जिता च यदि वा त्रिभिस् ततस्।
स्यात् त्रयोदश-हृता निर्-अग्रका तम् गुणम् गणक मे पृथक् वद॥[रथोद्धता]
अष्टादश गुणास् केन दश-आढ्यास् वा दश-ऊनितास्॥[अनुष्टुभ्-च्द्; अब्=58च्द्]
शुद्धम् भागम् प्रयच्छन्ति क्षय-ग-एकादश-उद्धृतास्।
येन संगुणितास् पञ्च त्रयोविंशति-संयुतास्॥[अनुष्टुभ्]
वर्जितास् वा त्रिभिस् भक्तास् निर्-अग्रकास् स्युस् सस् कस् गुणस्॥[अनुष्टुभ्-अब्; च्द्=73अब्]
येन पञ्च गुणितास् ख-संयुतास् पञ्चषष्टि-सहितास् च ते अथ वा।
स्युस् त्रयोदश हृता निर्-अग्रकास् तम् गुणम् गणक कीर्तय आशु मे॥[रथोद्धता]
क्षेपम् विशुद्धिम् परिकल्प्य रूपम् पृथक् तयोस् ये गुण-कार-लब्धी॥[उपजाति-च्द्; अब्=59]
अभीप्सित-क्षेप-विशुद्धि-निघ्ने स्व-हार-तष्टे भवतस् तयोस् ते।
कअल्प्या अथ शुद्धिस् विकला-अवशेषम् षष्टिस् च भाज्यस् कु-दिनानि हारस्॥[उपजाति]
तद्-जम् फलम् स्युस् विकलास् गुणस् तु लिप्ता-अग्रम् अस्मात् च कला-लव-अग्रम्।
एवम् तद्-ऊर्ध्वम् च तथा अधिमास-अवम-अग्रकाभ्यस् दिवसास् रवि-इन्द्वोस्॥[उपजाति]
एकस् हरस् चेद् गुणकौ विभिन्नौ तदा गुण-ऐक्यम् परिकल्प्य भाज्यम्।
अग्र-ऐक्यम् अग्रम् कृतस् उक्त-वत् यस् संश्लिष्ट-संज्ञस् स्फुट-कुट्टकस् असौ॥[उपजाति]
कस् पञ्च-निघ्नस् विहृतस् त्रिषष्ट्या सप्त अवशेषस् अथ सस् एव राशिस्।
दश-आहतस् स्यात् विहृतस् त्रिषष्ट्या चतुर्दश अग्रस् वद राशिम् एनम्॥[उपजाति]
इष्टम् ह्रस्वम् तस्य वर्गस् प्रकृत्या क्षुण्णस् युक्तस् वर्जितस् वा सस् येन।
मूलम् दद्यात् क्षेपकम् तम् धन-ऋणम् मूलम् तद् च ज्येष्ठ-मूलम् वदन्ति॥[शालिनी]
ह्रस्व-ज्येष्ठ-क्षेपकान् न्यस्य तेषाम् तान् अन्यान् वा अधस् निवेश्य क्रमेण।
साध्यानि एभ्यस् भावनाभिस् बहूनि मूलानि एषाम् भावना प्रोच्यते अतस्॥[शालिनी]
वज्र-अभ्यासौ ज्येष्ठ-लघ्वोस् तद्-ऐक्यम् ह्रस्वम् लघ्वोस् आहतिस् च प्रकृत्या।
क्षुण्णा ज्येष्ठ-अभ्यास-युज् ज्येष्ठ-मूलम् तत्र अभ्यासस् क्षेपयोस् क्षेपकस् स्यात्॥[शालिनी]
ह्रस्वम् वज्र-अभ्यासयोस् अन्तरम् वा लघ्वोस् घातस् यस् प्रकृत्या विनिघ्नस्। भ् 71क्। घातस् यस् च ज्येष्ठयोस् तद्-वियोगस् ज्येष्ठम् क्षेपस् अत्र अपि च क्षेप-घातस्॥[शालिनी]
इष्ट-वर्ग-हतस् क्षेपस् क्षेपस् स्यात् इष्ट-भाजिते।
मूले ते स्तस् अथ वा क्षेपस् क्षुण्णस् क्षुण्णे तदा पदे॥[अनुष्टुभ्]
इष्ट-वर्ग-प्रकृत्योस् यद् विवरम् तेन वा भजेत्।[अनुष्टुभ्-च्द्; अब्=64च्द्]
द्वि-घ्नम् इष्टम् कनिष्ठम् तद् पदम् स्यात् एक-संयुतौ।
ततस् ज्येष्ठम् इह आनन्त्यम् भावनातस् तथा इष्टतस्॥[अनुष्टुभ्]
कस् वर्गस् अष्ट-हतस् स-एकस् कृतिस् स्यात् गणक उच्यताम्।
एकादश-गुणस् कस् वा वर्गस् स-एकस् कृतिस् सखे॥[अनुष्टुभ्]
ह्रस्व-ज्येष्ठ-पद-क्षेपान् भाज्य-प्रक्षेप-भाजकान्।
कृत्वा कल्प्यस् गुणस् तत्र तथा प्रकृतितस् च्युते॥[अनुष्टुभ्]
गुण-वर्गे प्रकृति-ऊने अथ वा अल्पम् शेषकम् यथा।
तत् तु क्षेप-हृतम् क्षेपस् व्यस्तस् प्रकृतितस् च्युते॥[अनुष्टुभ्]
गुण-लब्धिस् पदम् ह्रस्वम् ततस् ज्येष्ठम् अतस् असकृत्।
त्यक्त्वा पूर्व-पद-क्षेपान् चक्र-वालम् इदम् जगुस्॥[अनुष्टुभ्]
चतुर्-द्वि-एक-युतौ एवम् अभिन्ने भवतस् पदे।
चतुर्-द्वि-क्षेप-मूलाभ्याम् रूप-क्षेप-अर्थ-भावना॥[अनुष्टुभ्]
का सप्तषष्टि-गुणिता कृतिस् एक-युता का च एकषष्टि-निहता च सखे स-रूपा।
स्यात् मूल-दा यदि कृति-प्रकृतिस् नितान्तम् त्वद्-चेतसि प्रवद तात तता-लता-वत्॥[वसन्ततिलका]
अखिले कृति-मूलाभ्याम् द्विधा रूपम् विभाजितम्॥[अनुष्टुभ्]
द्विधा ह्रस्व-पदम् ज्येष्ठम् ततस् रूप-विशोधने।
पूर्ववत् वा प्रसाध्येते पदे रूप-विशोधने॥[अनुष्टुभ्]
त्रयोदश-गुणस् वर्गस् निर्-एकस् कस् कृतिस् भवेत्।
कस् वा अष्ट-गुणितस् वर्गस् निर्-एकस् मूल-दस् वद॥[अनुष्टुभ्]
कस् वर्गस् षष्-गुणस् त्रि-आढ्यस् द्वादश-आढ्यस् अथ वा कृतिस्।
युतस् वा पञ्चसप्तत्या त्रिशत्या वा कृतिस् भवेत्॥[अनुष्टुभ्]
स्व-बुद्ध्या एव पदे ज्ञेये बहु-क्षेप-विशोधने।
तयोस् भावनया आनन्त्यम् रूप-क्षेप-पद-उत्थया॥[अनुष्टुभ्]
इष्ट-भक्तस् द्विधा क्षेपस् इष्ट-ऊन-आढ्यस् दली-कृतस्।
गुण-मूल-हृतस् च आद्यस् ह्रस्व-ज्येष्ठे क्रमात् पदे॥[अनुष्टुभ्]
मूल पाठ: Bījagaṇita · Edition: V. G. Apate's edition (ASS 99, Poona 1930) · Data entry T. Hayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0