बीजगणित · श्लोक 105-124
दश-पञ्च-करणी-अन्तरम् एकस् बाहुस् परस् च षट् करणी।
भूस् अष्टादश करणी रूप-ऊना लम्बम् आचक्ष्व॥
असमान-सम-छेदान् राशीन् तान् चतुरस् वद।
यद्-ऐक्यम् यद्-घन-ऐक्यम् वा येषाम् वर्ग्-ऐक्य-संमितम्॥ [आपटे: -धन- < -घन-]
त्रि-अस्र-क्षेत्रस्य यस्य स्यात् फलम् कर्णेन संमितम्।
दोस्-कोटि-श्रुति-घातेन समम् यस्य च तद्-वत्॥
युतौ वर्गस् अन्तरे वर्गस् ययोस् घाते घनस् भवेत्।
तौ राशी शीघ्रम् आचक्ष्व दक्षस् असि गणिते यदि॥
घन-ऐक्यम् जायते वर्गस् वर्ग-ऐक्यम् च ययोस् घनस्।
तौ चेद् वेत्सि तदा अहम् त्वाम् मन्ये बीज-विदाम् वरम्॥
यत्र त्रि-अस्रे क्षेत्रे धात्री मनु-संमिता सखे बाहू।
एकस् पञ्चदश अन्यस् त्रयोदश वद अवलम्बकम् तत्र॥
यदि सम-भुवि वेणुस् द्वि-त्रि-पाणि-प्रमाणस् गणक पवन-वेगात् एक-देशे सु-भग्नस्।
भुवि नृप-मित-हस्तेषु अङ्ग लग्नम् तद्-अग्रम् कथय कतिषु मूलात् एषस् भग्नस् करेषु॥
चक्र-क्रौञ्च-आकुलित-सलिले क्व अपि दृष्टम् तडागे तोयात् ऊर्ध्वम् कमल-कलिका-अग्रम् वितस्ति-प्रमाणम्।
मन्दम् मन्दम् चलितम् अनिलेन आहतम् हस्त-युग्मे तस्मिन् मग्नम् गणक कथय क्षिप्रम् अम्बु-प्रमाणम्॥
वृक्षात् हस्त-शत-उच्छ्रयात् शत-युगे वापीम् कपिस् कस् अपि अगात् उत्तीर्य अथ परस् द्रुतम् श्रुति-पथात् प्रोड्डीय किंचित् द्रुमात्। [आपटे: किंचि < किंचित्]
जाता एवम् समता तयोस् यदि गतौ उड्डीय-मानम् कियत् विद्वन् चेद् सु-परिश्रमस् अस्ति गणिते क्षिप्रम् तत् आचक्ष्व मे॥
पञ्चदश-दश-कर-उच्छ्राय-वेण्वोस् अज्ञात-मध्य-भूमिकयोस्।
इतरेतर-मूल-अग्र-ग-सूत्र-युतेस् लम्ब-मानम् आचक्ष्व॥
अव्यक्त-वर्ग-आदि यदा अवशेषम् पक्षौ तदा इष्टेन निहत्य किंचित्।
क्षेप्यम् तयोस् येन पद-प्रदस् स्यात् अव्यक्त-पक्षस्य पदेन भूयस्॥
व्यक्तस्य पक्षस्य सम-क्रिया एवम् अव्यक्त-मानम् खलु लभ्यते तत्।
न निर्वहस् चेद् घन-वर्ग-वर्गेषु एवम् तदा ज्ञेयम् इदम् स्व-बुद्ध्या॥
अव्यक्त-मूल-ऋण-ग-रूपतस् अल्पम् व्यक्तस्य पक्षस्य पदम् यदि स्यात्।
ऋणम् धनम् तत् च विधाय साध्यम् अव्यक्त-मानम् द्वि-विधम् क्वचित् तत्॥
चतुर्-आहत-वर्ग-समैस् रूपैस् पक्ष-द्वयम् गुणयेत्।
पूर्व-अव्यक्तस्य कृतेस् सम-रूपाणि क्षिपेत् तयोस् एव॥
अलि-कुल-दल-मूलम् मालतीम् यातम् अष्टौ निखिल-नवम-भागास् चालिनी भृङ्गम् एकम्।
निशि परिमल-लुब्धम् पद्म-मध्ये निरुद्धम् प्रतिरणति रणन्तम् ब्रूहि कान्ते अलि-संख्याम्॥
पार्थस् कर्ण-वधाय मार्गण-गणम् क्रुद्धस् रणे संदधे तस्य अर्धेन निवार्य तद्-शर-गणम् मूलैस् चतुर्भिस् हयान्।
शल्यम् षड्भिस् अथ इषुभिस् त्रिभिस् अपि छत्रम् ध्वजम् कार्मुकम् चिच्छेद अस्य शिरस् शरेण कति ते यान् अर्जुनस् संदधे॥
वि-एकस्य गच्छस्य दलम् किल आदिस् आदेस् दलम् तद्-प्रचयस् फलम् च।
चय-आदि-गच्छ-अभिहतिस् स्व-सप्त-भाग-अधिका ब्रूहि चय-आदि-गच्छान्॥
कस् खेन विहृतस् राशिस् कोट्या युक्तस् अथ वा ऊनितस्।
वर्गितस् स्व-पदेन आढ्यस् ख-गुणस् नवतिस् भवेत्॥
कस् स्व-अर्ध-सहितस् राशिस् ख-गुणस् वर्गितस् युतस्।
स्व-पदाभ्याम् स्व-भक्तस् च जातस् पञ्चदश उच्यताम्॥
राशिस् द्वादश-निघ्नस् राशि-घन-आढ्यस् च कस् समस् यस्य।
राशि-कृतिस् षष्-गुणिता पञ्चत्रिंशत्-युता विद्वन्॥
कस् राशिस् द्विशती-क्षुण्णस् राशि-वर्ग-युतस् हतस्।
द्वाभ्याम् तेन ऊनितस् राशि-वर्ग-वर्गस् अयुतम् 10000 भवेत्।
रूप-ऊनम् वद तम् राशिम् वेत्सि बीज-क्रियाम् यदि॥
वन-अन्तराले प्लवग-अष्ट-भागस् संवर्गितस् वल्गति जात-रागस्।
ब्रूत्-कार-नाद-प्रतिनाद-हृष्टास् दृष्टास् गिरौ द्वादश ते कियन्तस्॥
मूल पाठ: Bījagaṇita · Edition: V. G. Apate's edition (ASS 99, Poona 1930) · Data entry T. Hayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0