बीजगणित · श्लोक 40-61
द्विक-त्रि-पञ्च-प्रमितास् करण्यस् तासाम् कृतिम् द्वि-त्रिक-संख्ययोस् च।
षष्-पञ्चक-द्वि-त्रिक-संमितानाम् पृथक् पृथक् मे कथय आशु विद्वन्॥[उपजाति]
अष्टादश-अष्ट-द्विक-संमितानाम् कृती कृतीनाम् च सखे पदानि॥[उपजाति-अब्; च्द्=43अब्]
वर्गे करण्यास् यदि वा करण्योस् तुल्यानि रूपाणि अथ वा बहूनाम्।
विशोधयेत् रूप-कृतेस् पदेन शेषस्य रूपाणि युत-ऊनितानि॥[उपजाति]
पृथक् तद्-अर्धे करणी-द्वयम् स्यात् मूले अथ बह्वी करणी तयोस् या।
रूपाणि तानि एवम् अतस् अपि भूयस् शेषास् करण्यस् यदि सन्ति वर्गे॥[उपजाति]
ऋण-आत्मिका चेद् करणी कृतौ स्यात् धन-आत्मिकाम् ताम् परिकल्प्य साध्ये।
मूले करण्यौ अनयोस् अभीष्टा क्षय-आत्मिका एका सु-धिया अवगम्या॥[उपजाति]
त्रि-सप्त-मित्योस् वद मे करण्योस् विश्लेष-वर्गम् कृतितस् पदम् च।[उपजाति-च्द्; अब्=40एf]
द्विक-त्रि-पञ्च-प्रमितास् करण्यस् स्व-स्व-ऋण-गास् व्यस्त-धन-ऋण-गास् वा।
तासाम् कृतिम् ब्रूहि कृतेस् पदम् च चेद् षष्-विधम् वेत्सि सखे करण्यास्॥[उपजाति]
एक-आदि-संकलित-मित-करणी-खण्डानि वर्ग-राशौ स्युस्।
वर्गे करणी-त्रितये करणी-द्वितयस्य तुल्य-रूपाणि॥[गीति]
करणी-षट्के तिसृणाम् दशसु चतसृणाम् तिथिषु च पञ्चानाम्।
रूप-कृतेस् प्रोज्झ्य पदम् ग्राह्यम् चेद् अन्यथा न सत् क्व अपि॥[गीति]
उत्पत्स्यमानया एवम् मूल-करण्या अल्पया चतुर्-गुणया।
यासाम् अपवर्तस् स्यात् रूप-कृतेस् तास् विशोध्यास् स्युस्॥[आर्या]
अपवर्ते यास् लब्धास् मूल-करण्यस् भवन्ति तास् च अपि।
शेष-विधिना न यदि तास् भवन्ति मूलम् तदा तद् असत्॥[आर्या]
वर्गे यत्र करण्यस् दन्तैस् 32 सिद्धैस् 24 गजैस् 8 मितास् विद्वन्।
रूपैस् दशभिस् उपेतास् किम् मूलम् ब्रूहि तस्य स्यात्॥[आर्या]
वर्गे यत्र करण्यस् तिथि-विश्व-हुताशनैस् चतुर्-गुणितैस्।
तुल्यास् दश-रूप-आढ्यास् किम् मूलम् ब्रूहि तस्य स्यात्॥[आर्या]
अष्टौ षष् पञ्चाशत् षष्टिस् करणी-त्रयम् कृतौ यत्र।
रूपैस् दशभिस् उपेतम् किम् मूलम् ब्रूहि तस्य स्यात्॥[आर्या]
चतुर्-गुणास् सूर्य-तिथीषु रुद्र-नाग-ऋतवस् यत्र कृतौ करण्यस्।
स-विशव-रूपास् वद तद्-पदम् ते यदि अस्ति बीजे पटुता-अभिमानस्॥[उपजाति]
चत्वारिंशत्-अशीति-द्विशती-तुल्यास् करण्यस् चेद्।
सप्तदश-रूप-युक्तास् तत्र क्र्तौ किम् पदम् ब्रूहि॥[उपगीति]
भाज्यस् हारस् क्षेपकस् च अपवर्त्यस् केन अपि आदौ संभवे कुट्टक-अर्थम्।
येन छिन्नौ भाज्य-हारौ न तेन क्षेपस् च एतद् दुष्टम् उद्दिष्टम् एव॥[शालिनी]
परस्परम् भाजितयोस् ययोस् यस् शेषस् तयोस् स्यात् अपवर्तनम् सस्।
तेन अपवर्तेन विभाजितौ यौ तौ भाज्य-हारौ दृढ-संज्ञकौ स्तस्॥[उपजाति]
मिथस् भजेत् तौ दृढ-भाज्य-हारौ यावत् विभाज्ये भवति इह रूपम्।
फलानि अधस् अधस् तद्-अधस् निवेश्यस् क्षेपस् तथा अन्ते खम् उपान्तिमेन॥[उपजाति]
स्व-ऊर्ध्वे हते अन्त्येन युते तद्-अन्त्यम् त्यजेत् मुहुस् स्यात् इति राशि-युग्मम्।
ऊर्ध्वस् विभाज्येन दृढेन तष्टस् फलम् गुणस् स्यात् अपरस् हरेण॥[उपजाति]
एवम् तदा एव अत्र यदा समास् तास् स्युस् लब्धयस् चेद् विषमास् तदानीम्।
यथा आगतौ लब्धि-गुणौ विशोध्यौ स्व-तक्षणात् शेष-मितौ तु तौ स्तस्॥[उपजाति]
भवति कुट्ट-विधेस् युति-भाज्ययोस् समपवर्तितयोस् अपि वा गुणस्।
भवति यस् युति-भाजकयोस् पुनर् सस् च भवेत् अपवर्तन-संगुणस्॥[द्रुतविलम्बित]
योग-जे तक्षणात् शुद्धे गुण-आप्ती स्तस् वियोग-जे।
धन-भाज्य-उद्भवे तद्-वत् भवेताम् ऋण-भाज्य-जे॥[अनुष्टुभ्]
हर-तष्टे धन-क्षेपे गुण-लब्धी तु पूर्व-वत्॥[अनुष्टुभ्]
क्षेप-तक्षण-लाभ-आढ्या लब्धिस् शुद्धौ तु वर्जिता।
अथ वा भाग-हारेण तष्टयोस् क्षेप-भाज्ययोस्॥[अनुष्टुभ्]
गुणस् प्राक्-वत् ततस् लब्धिस् भाज्यात् हत-युत-उद्धृतात्।
क्षेप=अभावस् अथ वा यत्र क्षेपस् शुध्येत् हर-उद्धृतस्॥[अनुष्टुभ्]
ज्ञेयस् शून्यम् गुणस् तत्र क्षेपस् हर-हृतस् फलम्॥[अनुष्टुभ्-अब्; च्द्=63अब्]
एकविंशति-युतम् शत-द्वयम् यद्-गुणम् गणक पञ्चषष्टि-युज्।
पञ्च-वर्जित-शत-द्वय-उद्धृतम् शुद्धिम् एति गुणकम् वद आशु तम्॥[रथोद्धता]
शतम् हतम् येन युतम् नवत्या विवर्जितम् वा विहृतम् त्रिषष्ट्या।
निर्-अग्रकम् स्यात् वद मे गुणम् तम् स्पष्टम् पटीयान् यदि कुट्टके असि॥[उपजाति]
मूल पाठ: Bījagaṇita · Edition: V. G. Apate's edition (ASS 99, Poona 1930) · Data entry T. Hayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0