भाषा

ENहिગુ
ग्रंथ पाठ

बीजगणित · श्लोक 1-39

1

उत्पादकम् यद् प्रवदन्ति बुद्धेस् अधिष्ठितम् सत्-पुरुषेण सांख्यास्।
व्यक्तस्य कृत्स्नस्य तद् एक-बीजम् अव्यक्तम् ईशम् गणितम् च वन्दे॥[उपजाति]

2

पूर्वम् प्रोक्तम् व्यक्तम् अव्यक्त-बीजम् प्रायस् प्रश्नास् नो विना अव्यक्त-युक्त्या।
ज्ञातुम् शक्यास् मन्द-धीभिस् नितान्तम् यस्मात् तस्मात् वच्मि बीज-क्रियाम् च॥[शालिनी]

4

रूप-त्रयम् रूप-चतुष्टयम् च क्षयम् धनम् वा सहितम् वद आशु॥[उपजाति]
स्व-ऋणम् क्षयम् स्वम् च पृथक्-पृथक्त्वे धन-ऋणयोस् स्ंकलनाम् अवैषि॥[उपजाति-अब्; च्द्=7]

12

रूप-अष्टकम् रूप-चतुष्टयेन धनम् धनेन ऋणम् ऋणेन भक्तम्।
ऋणम् धनेन स्वम् ऋणेन किम् स्यात् द्रुतम् वद इदम् यदि बोबुधीषि॥[उपजाति]

20

अस्मिन् विकारस् ख-हरेण राशौ अपि प्रविष्टेषु अपि निःसृतेषु।
बहुषु अपि स्यात् लय-सृष्टि-काले अनन्ते अच्युते भ्बूत0गणेषु यद्-वत्॥[उपजाति]

21

यावत्तावत्-कालकस् नीलकस् अन्यस् वर्णस् पीतस् लोहितस् च एतद्-आद्यास्।
अव्यक्तानाम् कल्पितास् मान-संज्ञास् तद्-संख्यानम् कर्तुम् आचार्य-वर्यैस्॥[शालिनी]

23

स्वम् अव्यक्तम् एकम् सखे स-एक-रूपम् धन-अव्यक्त-युग्मम् वि-रूप-अष्टकम् च।
युतौ पक्षयोस् एतयोस् किम् धन-ऋणे विपर्यस्य च ऐक्ये भवेत् किम् वद आशु॥[भुजङ्गप्रयात]

26

स्यात् रूप-वर्ण-अभिहतौ तु वर्णस् द्वि-त्रि-आदिकानाम् सम-जातिकानाम्॥[उपजाति-च्द्; अब्=22]
वधे तु तद्-वर्ग-घन-आदयस् स्युस् तद्-भावितम् च असम-जाति-घाते।
भाग-आदिकम् रूप-वत् एव शेषम् व्यक्ते यद् उक्तम् गणिते तद् अत्र॥[उपजाति]

27

गुण्यस् पृथक् गुण-खण्ड-समस् निवेश्यस् तैस् खण्डकैस् क्रम-हतस् सहितस् यथा-उक्त्या।
अव्यक्त-वर्ग-करणी-गुणनासु चिन्त्यस् व्यक्त-उक्त-खण्ड-गुणना-विधिस् एवम् अत्र॥[वसन्ततिलका]

28

यावत्तावत्-पञ्चकम् वि-एक-रूपम् यावत्तावद्भिस् त्रिभिस् स-द्वि-रूपैस्।
संगुण्य द्राक् ब्रूहि गुण्यम् गुणम् वा व्यस्तम् स्व-ऋणम् कल्पयित्वा च विद्वन्॥[शालिनी]

29

भाज्यात् छेदस् शुध्यति प्रच्युतस् सन् स्वेषु स्थानकेषु क्रमेण।
यैस् यैस् वर्णैस् संगुणस् यैस् च रूपैस् भाग-हारे लब्धयस् तास् स्युस् अत्र॥[शालिनी]

31

कृतिभ्यस् आदाय पदानि तेषाम् द्वयोस् द्वयोस् च अभिहतिम् द्वि-निघ्नीम्।
शेषात् त्यजेत् रूप-पदम् गृहीत्वा चेद् सन्ति रूपाणि तथा एव शेषम्॥[उपजाति]

32

यावत्तावत्-कालक-नीलक-वर्णास् त्रि-पञ्च-सप्त-धनम्।
द्वि-त्रि-एक-मितैस् क्षय-गैस् सहितास् रहितास् कति स्युस् तैस्॥[आर्या]

33

यावत्तावत्-त्रयम् ऋणम् ऋणम् कालकौ नीलकस् स्वम् रूपेण आढ्यास् द्वि-गुणित-मितैस् तैस् तु तैस् एव निघ्नास्।
किम् स्यात् तेषाम् गुणन-ज-फलम् गुण्य-भक्तम् च किम् स्यात् गुण्यस्य अथ प्रकथय कृतिम् मूलम् अस्यास् कृतेस् च॥[मन्दाक्रान्ता]

34

योगम् करण्योस् महतीम् प्रकल्प्य घातस्य मूलम् द्वि-गुणम् लघुम् च।
योग-अन्तरे रूप-वत् एतयोस् ते वर्गेण वर्गम् गुणयेत् भजेत् च॥[इन्द्रवज्रा]
लघ्व्या हृतायास् तु पदम् महत्या स-एकम् निर्-एकम् स्व-हतम् लघु-घ्नम्।
योग-अन्तरे स्तस् क्रमशस् तयोस् वा पृथक्-स्थितिस् स्यात् यदि न अस्ति मूलम्॥[उपजाति]

35

द्विक-अष्ट-मित्योस् त्रि-भ-संख्ययोस् च योग-अन्तरे ब्रूहि सखे करण्योस्। भ् 35च्। त्रि-सप्त-मित्योस् च चिरम् विचिन्त्य चेद् षष्-विधम् वेत्सि सखे करण्यास्॥[उपजाति]

36

द्वि-त्रि-अष्ट-संख्या-गुणकस् करण्योस् गुण्यस् त्रि-संख्या च स-पञ्च-रूपा।
वधम् प्रचक्ष्व आशु वि-पञ्च-रूपे गुणे अथ वा त्रि-अर्क-मिते करण्यौ॥[उपजाति]

37

क्षयस् भवेत् च क्षय-रूप-वर्गस् चेद् साध्यते असौ करणीत्व-हेतोस्। भ् 37च्। ऋण-आत्निकायास् च तथा करण्यास् मूलम् क्षयस् रूप-विधान-हेतोस्॥[उपजाति]

38

धन-ऋण-ता-व्यत्ययम् ईप्सितायास् छेदे करण्यास् असकृत् विधाय।
तादृश् छिदा भाज्य-हरौ निहन्यात् एका एव यावत् करणी हरे स्यात्॥[उपजाति]
भाज्यास् तया भाज्य-गतास् करण्यस् लब्धास् करण्यस् यदि योग-जास् स्युस्। भ् 38ग्। विश्लेष-सूत्रेण पृथक् च कार्या यथा तथा प्रष्टुस् अभीप्सितास् स्युस्॥[उपजाति]

39

वर्गेण योग-करणी विहृता विशुध्येत् खण्डानि तद्-कृति-पदस्य यथा-ईप्सितानि।
कृत्वा तदीय-कृतयस् खलु पूर्व-लब्ध्या क्षुण्णास् भवन्ति पृथक् एवम् इमास् करण्यस्॥[वसन्ततिलका]

मूल पाठ: Bījagaṇita · Edition: V. G. Apate's edition (ASS 99, Poona 1930) · Data entry T. Hayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc