बीजगणित · श्लोक 125-144
यूथात् पञ्च-अंशकस् त्रि-ऊनस् वर्गितस् गह्वरम् गतस्।
दृष्टस् शाखा-मृगस् शाखाम् आरूढस् वद ते कति।
कर्णस्य त्रि-लवेन ऊना द्वादश-अङ्गुल-शङ्कु-भा।
चतुर्दश-अङ्गुला जाता गणक ब्रूहि ताम् द्रुतम्॥
चत्वारस् राशयस् के ते मूल-दास् ये द्वि-संयुतास्
द्वयोस् द्वयोस् यथा आसन्न-घातास् च अष्टादश-अन्वितास्।
मूल-दास् सर्व-मूल-ऐक्यात् एकादश-युतात् पदम्।
त्रयोदश सखे जातम् बीज-ज्ञ वद तान् मम॥
राशि-क्षेपात् वध-क्षेपस् यद्-गुणस् तत् पद-उत्तरम्।
अव्यक्त-राशयस् कल्प्यास् वर्गितास् क्षेप-वर्जितास्॥
क्षेत्रे तिथि-नखैस् तुल्ये दोस्-कोटी तत्र का श्रुतिस्।
उपपत्तिस् च रूढस्य गणितस्य अस्य कथ्यताम्॥
दोस्-कोटि-अन्तर-वर्गेण द्वि-घ्नस् घातस् समन्वितस्।
वर्ग-योग-समस् सस् स्यात् द्वयोस् अव्यक्तयोस् यथा॥
भुजात् त्रि-ऊनात् पदम् वि-एकम् कोटि-कर्ण-अन्तरम् सखे।
यत्र तत्र वद क्षेत्रे दोस्-कोटि-श्रवणान् मम॥
वर्ग-योगस्य यद्-राश्योस् युति-वर्गस्य च अन्तरम्।
द्वि-घ्न-घात-समानम् स्यात् द्वयोस् अव्यक्तयोस् यथा।
चतुर्-गुणस्य घातस्य युति-वर्गस्य च अन्तरम्।
राशि-अन्तर-कृतेस् तुल्यम् द्वयोस् अव्यक्तयोस् यथा॥
चत्वारिंशत् युतिस् येषाम् दोस्-कोटि-श्रवसाम् वद।
भुज-कोटि-वधस् येषु शतम् विंशति-संयुतम्॥
योगस् दोस्-कोटि-कर्णानाम् षट्पञ्चाशत् 56 वधस् तथा।
षट्शती सप्तभिस् क्षुण्णा 4200 येषाम् तान् मे पृथक् वद॥
आद्यम् वर्णम् शोधयेत् अन्य-पक्षात् अन्यान् रूपाणि अन्यतस् च आद्य-भक्ते।
पक्षे अन्यस्मिन् आद्य-वर्ण-उन्मितिस् स्यात् वर्णस्य एकस्य उन्मितीनाम् बहुत्वे॥
समी-कृत-छेद-गमे तु ताभ्यस् तद्-अन्य-वर्ण-उन्मितयस् प्रसाध्यास्।
अन्त्य-उन्मितौ कुट्टक-विधेस् गुण-आप्ती ते भाज्य-तद्-भाजक-वर्न-माने॥
अन्ये अपि भाज्ये यदि सन्ति वर्णास् तद्-मानम् इष्टम् परिकल्प्य साध्ये।
विलोमक-उत्तापन-तस् अन्य-वर्ण-मानानि भिन्नम् यदि मानम् एवम्।
भूयस् कार्यस् कुट्टके अत्र अन्त्य-वर्णम् तेन उत्थाप्य उत्थापयेत् व्यस्तम् आद्यात्॥
माणिक्य-अमल-नील-मौक्तिक-मितिस् पञ्च अष्ट सप्त क्रमात् एकस्य अन्यतरस्य सप्त नव षट् तद्-रत्न-संख्या सखे।
रूपाणाम् नवतिस् द्विषष्टिस् अनयोस् तौ तुल्य-वित्तौ तथा बीज-ज्ञ प्रति-रत्न-जानि सुमते मौल्यानि शीघ्रम् वद॥ [शार्दूलविक्रीडित]
एकस् ब्रवीति मम देहि शतम् धनेन त्वत्तस् भवामि हि सखे द्वि-गुणस् ततस् अन्यस्।
ब्रूते दश अर्पयसि चेद् मम षष्-गुणस् अहम् त्वत्तस् तयोस् वद धने मम किम्-प्रमाणे॥
अश्वास् पञ्च-गुण-अङ्ग-मङ्गल-मितास् येषाम् चतुर्णाम् धनानि उष्ट्रास् च द्वि-मुनि-श्रुति-क्षिति-मितास् अष्ट-द्वि-भू-पावकास्।
तेषाम् अश्वतरास् वृषास् मुनि-मही-नेत्र-इन्दु-संख्यास् क्रमात् सर्वे तुल्य-धनास् च ते वद सपदि अश्व-आदि-मौल्यानि मे॥
त्रिभिस् पारावतास् पञ्च पञ्चभिस् सप्त सारसास्।
सप्तभिस् नव हंसास् च नवभिस् बर्हिणस् त्रयस्॥
द्रम्मैस् अवाप्यते द्रम्म-शतेन शतम् आनय।
एषाम् पारावत-आदीनाम् विनोद-अर्थम् मही-पतेस्॥
षष्-भक्तस् पञ्च-अग्रस् पञ्च-विभक्तस् भवेत् चतुष्क-अग्रस्।
चतुर्-उद्धृतस् त्रिक-अग्रस् द्वि-अग्रस् त्रि-समुद्धृतस् कस् स्यात्॥
स्युस् पञ्च-सप्त-नवभिस् क्षुण्णेषु हृतेषु केषु विंशत्या।
रूप-उत्तराणि शेषाणि अवाप्तयस् च अपि शेष-समास्॥
एक-अग्रस् द्वि-हृतस् कस् स्यात् द्विक-अग्रस् त्रि-समुद्धृतस्।
त्रिक-अग्रस् पञ्चभिस् भक्तस् तद्-वत् एव हि लब्धयस्॥
कौ राशी वद पञ्च-षट्क-विहृतौ एक-द्विक-अग्रौ ययोस् द्वि-अग्रम् त्रि-उद्धृतम् अन्तरम् नव-हृता पञ्च-अग्रका स्यात् युतिस्।
घातस् सप्त-हृतस् षष्-अग्रस् इति तौ षट्क-अष्टकाभ्याम् विना विद्वन् कुट्टक-वेदि-कुञ्जर-घटा-संघट्ट-स्ंहस् असि चेद्॥
नवभिस् सप्तभिस् क्षुण्णस् कस् राशिस् त्रिंशता हृतस्।
यत् अग्र-ऐक्यम् फल-ऐक्य-आढ्यम् भवेत् षड्विंशतेस् मितम्॥
कस् त्रि-सप्त-नव-क्षुण्णस् राशिस् त्रिंशत्-विभाजितस्।
यत् अग्र-ऐक्यम् अपि त्रिंशत्-हृतम् एकादश-अग्रकम्॥
मूल पाठ: Bījagaṇita · Edition: V. G. Apate's edition (ASS 99, Poona 1930) · Data entry T. Hayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0