भाषा

ENहिગુ
ग्रंथ पाठ

बीजगणित · श्लोक 145-150

145

कस् त्रयोविंशति-क्षुण्णस् षष्ट्या असीत्या हृतस् पृथक्।
यत् अग्र-ऐक्यम् शतम् दृष्टम् कुट्टक-ज्ञ वद आशु तम्॥

146

अत्र अधिकस्य वर्णस्य भाज्यस्थस्य ईप्सिता मितिस्।
भाग-लब्धस्य नो कल्प्या क्रिया व्यभिचरेत् तथा॥

147

कस् पञ्च-गुणितस् राशिस् त्रयोदश-विभाजितस्।
यत् लब्धम् राशिना युक्तम् त्रिंशत् जातम् वद आशु तम्॥

148

षष्-अष्ट-शतकास् क्रीत्वा सम-अर्धेन फलानि ये।
विक्रीय च पुनर् शेषम् एक-एकम् पञ्चभिस् पणैस्।
जातास् सम-पणास् तेषाम् कस् क्रयस् विक्रयस् च कस्॥

149

वर्ग-आद्यम् चेद् तुल्य-शुद्धौ कृतायाम् पक्षस्य एकस्य उक्त-वत् वर्ग-मूलम्।
वर्ग-प्रकृत्या पर-पक्ष-मूलम् तयोस् समी-कार-विधिस् पुनर् च।
वर्ग-प्रकृत्या विषयस् न चेद् स्यात् तदा अन्य-वर्ण्स्य कृतेस् समम् तम्॥
कृत्वा अपरम् पक्षम् अथ अन्य-मानम् कृति-प्रकृत्या आद्य-मितिस् तथा च।
वर्ग-प्रकृत्या विषयस् यथा स्यात् तथा सुधीभिस् बहुधा विचिन्त्यम्॥

150

बीजम् मतिस् विविध-वर्ण-सहायिनी हि मन्द-अवबोधविधये विबुधैस् निज-आद्यैस्।
विस्तारिता

मूल पाठ: Bījagaṇita · Edition: V. G. Apate's edition (ASS 99, Poona 1930) · Data entry T. Hayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc