भाषा

ENहिગુ
ग्रंथ पाठ

भृगुसंहिता · अध्याय 30

30.1

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सिहितायां प्रकीर्णाधिकारे एकोनत्रिंशो ऽध्यः.
अथत्रिंशो ऽध्यायः.
प्रायश्चित्तम्
अथवक्ष्ये विशेषेण तन्त्रसंकरनिष्कृतिम् ।
वैष्णवस्यान्यतन्त्रेण संकरे दोषमादिशेत्

30.2

ग्रामस्य यजमानस्य राज्ञो राष्ट्रस्य संक्षयः ।
तद्दोषशमनायैव सांकर्यमपहाय च

30.3

पद्मावले वैष्णवं च विष्णुसूक्तं च पौरुषम् ।
पारमात्मिकमीङ्कारा द्यष्टाशीतिं विशेषतः

30.4

अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा ।
दोषगौरवमुद्दिश्य हुत्वा पूर्ववदाचरेत्

30.5

वैष्णवं द्विविधं शास्त्रं मुनिभिः परिकीर्तितम् ।
वैखानसं पञ्चरात्रं वैदिकं तान्त्रिकं क्रमात्

30.6

वैखानसं वैदिकं स्याद्वैदिकैरर्चितं द्विजैः ।
ऐहिकामुष्मिकफलप्रदं सौम्यं प्रकीर्तितम्

30.7

पञ्चरात्रमथाग्नेयमवैदिकमतात्त्विकम् ।
तापादिपञ्चसंस्कारदीक्षावद्भिस्समर्चितम्

30.8

अश्रीकरमथ प्रोक्तङ्केवलामुष्मिकप्रदम् ।
सौम्यं सर्वत्र संपूज्यं ग्रामादिषु विशेषतः

30.9

ब्राह्मणानां च गेहेषु सौम्ये नै वार्चयेद्धरिम् ।
आग्नेयमर्चयेत्तद्वदवास्त्वङ्गालये तथा

30.10

पर्वतादिष्वरण्येषु विविक्तेषु स्थलेषुच ।
विप्रावासे जनावासे नैव कुर्यादनेन तु

30.11

सौम्ये वैखानसे मार्गे यद्याग्ने येन संकरः ।
पञ्चरात्रेण संप्राप्तो राजा राष्ट्रं विनश्यति

30.12

तद्दोषशमानायैव पद्माग्नौ जुहुयात्क्रमात् ।
महाशान्तिं विधानेन सप्ताहं वा त्षहन्तु वा

30.13

अष्टाधिकशदैश्चैव संस्नाप्य कलशैस्ततः ।
अभ्यर्च्य देवदेवेशं संपूज्यैव तु वैष्णवान्

30.14

भोजयित्वा ब्राह्मणांस्तु कारयेत्पूर्ववर्त्मना ।
पञ्चरात्रविधानेन प्रतिष्ठाप्यार्चनेकृते

30.15

कालेनान्तरिते तस्मिन् कुर्यात्सौम्य प्रवेशनम् ।
सौम्यत्वाद्राजराष्ट्राणां तत्स मृद्धिकरं भवेत्

30.16

पद्मानले महाशान्तिं हुत्वादौ च ततःक्रमात् ।
वैखानसेन विधिनाविमानं बिंबमेव च

30.17

संस्कृत्य चोचितैस्सर्वैस्कंस्कारैः कर्षणादिभिः ।
प्रतिष्ठाप्य तदारभ्य सर्वं तेनैव चाचरेत्

30.18

आलयाश्रितदेवानां परिवारस्य पर्षदाम् ।
पूजायामप्यमुख्यायां संकरो नैव सम्मतः

30.19

महात्म्यं किमुवक्ष्यामि शास्त्रस्य महतो ऽस्य वै ।
नालं देवास्त्रयस्सेन्द्रा अनन्तो ऽप्युपवर्णितुम्

30.20

श्रुणन्तु मुनयस्सर्वे शास्त्रमाहात्म्यमुत्तमम् ।
यावच्छक्ति प्रवक्ष्यामि ज्ञातं गुरुकृपाबलात्

30.21

पुरा चतुर्मुखो ब्रह्मासिसृक्षुरखिलं जगत् ।
सुप्तोद्थितश्चिरं कालं प्राक्रामीत्सर्गकर्मणि

30.22

विसस्मार यदा धाता निद्रयाक्रान्तमानसः ।
वेदान्त्सर्गप्रधानांस्तु सृष्टिर्नैवप्रवर्तते

30.23

चिन्तातुर स्तदा ब्रह्मा मूढः कर्तव्यकर्मणि ।
बहुधा ध्यायमानस्तुन लेभे कारणं स्वतः

30.24

स्वशक्त्या यद्विधेयं स्यात्सर्वं चक्रे विमूढधीः ।
न हि तत्कारणं लेभे वेदविस्मरणं तु यत्

30.25

चिराच्छिन्तां तु तां त्यक्त्वा स्वस्थचित्तः प्रजापतिः ।
हृत्पद्ममध्ये पुरुषं परमेण समाधिना

30.26

चिन्तयामास वै विष्णुमृग्यजुस्सामरूपिणम् ।
तुष्टाव च तदा ब्रह्मा हरिप्रवणमानसः

30.27

ननाम च तदा विष्णुं शङ्खचक्रगद्धरम् ।
अर्चयामास देवेशं पाद्याद्यैर्विग्रहैस्समैः

30.28

मुहुर्मुहुः प्रणम्याथमूर्थ्ना देवं जगत्पतिम् ।
निर्व्याजकरुणालेशाद्देवस्य विमलान्तरः

30.29

तुष्टावजगदीशानं नारायणमजं विधिः ।
"जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन

30.30

नमस्ते ऽस्तु हृषीकेश महापुरुष पूर्वज ।
देशकालपरिच्छेदरहितानन्त चिन्मय

30.31

सत्यज्ञानसुखानन्दस्वरूप परमेश्वर ।
पञ्चव्यूह चतुर्व्यूहान न्तव्यूहात्मविग्रह

30.32

विष्णो पुरुष सत्याच्युतानिरुद्ध जगत्पते ।
नित्यमुक्तजनावासपरमव्योमनायक

30.33

श्रीभूनीलादिसंसेव्य दिव्यमङ्गलविग्रह ।
शङ्खचक्रगदावाणे भक्ताभयवरप्रद

30.34

कीरीट हार केयूर कटकाङ्गदभूषित ।
ग्रैवेयकपरिष्कार कटीसूत्रविराजित

30.35

तुलसीमालिकाराजद्विशालोरस्थ्सलांचित ।
प्रलंबयज्ञसूत्राढ्य कौस्तुभाभरणोज्ज्वल

30.36

सर्वलोकेश्वराचिन्त्य श्रीवत्सकृतलक्षण ।
दिव्यायुधसमासेव्य पीतांबरसुशोभित

30.37

नित्यनिर्यत्ननिरन्ध्रविसारिकरुणारस ।
मन्दस्नितमुखांभोज मधुराधरपल्लव

30.38

रुक्माभ रक्तनेत्रास्यपाणिपाद सुखोद्वह ।
सुभ्रूललाटसुभग सुनस स्वायतेक्षण

30.39

वृत्तपीनायतभुज तनुमध्य महाहनो ।
विलासविक्रमाक्रान्त त्रैलोक्यचरणांबुज

30.40

ज्ञानशक्ति बलैश्वर्यवीर्य तेजोविधे ऽनघ ।
नमस्ते विष्णवे तुभ्यं पुरुषाय नमो नमः

30.41

समस्सत्यस्वरूपाय अच्युताय नमो नमः ।
नमो ऽनिरुद्धरूपाय वासुदेवाय शार्ङ्गिणे

30.42

नमश्चिदात्मने ऽनन्त शान्तरूपाय धन्विने ।
शासते निरपेक्षाय स्वतन्त्रायाधिकारिणे

30.43

अच्युतायाविकाराय तेजसां निधये नमः ।
प्रधान पुरुषेशाय वेदवेद्याय वेदिने

30.44

नमः पर व्यूहरूप नमो विभवविग्रह ।
अन्तर्यामिन्नमस्ते ऽस्तु नमोर्ऽचारूप शाश्वत

30.45

सहस्रशीर्षं पुरुषं सहस्राक्षं निरञ्जनम् ।
सहस्रपादं त्रातारं शरणं त्वाङ्गतो ऽस्म्यहम्

30.46

माता त्वं मे पिता त्वं मे भ्राता त्वं मे सखामम ।
सर्वं त्वमसि विश्वात्मंस्त्वयि सर्वं प्रतिष्ठितम्

30.47

संसारसागरं घोरमनन्तं क्लेशभाजनम् ।
त्वामेव शरणं पाप्य निस्तरन्ति मनीषिणः

30.48

न हि ते गोप्य ते किञ्चिन्न ह्यन्त्यविदितं तव ।
त्वं साक्षी देहिनामेकस्सर्वं व्याप्य त्वमेधसे

30.49

न ते रूपं न करणं कारणं नास्ति ते ऽनघ ।
त्वं शास्ता सर्वलोकानां स्रष्टापाता हरन् हरे

30.50

अहं भवश्च ते ब्रह्मन् प्रसादक्रोधजावुभौ ।
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम्

30.51

विज्ञानं तदिदं प्राप्तं ब्रह्मत्वं च यदार्जितम् ।
सर्वं तव कटाक्षस्य लेशो ऽयं मधुसूदन

30.52

तमसाक्रान्तचित्तस्य विस्मृता निगमा मम ।
अवेदविहितस्सर्गो मया कर्तुं न शक्यते

30.53

प्रसीद परमेशान वेदभिक्षां प्रयच्छ मे ।
इति चिन्तयतस्तस्य बभूवावाविलं मनः

30.54

ततस्तुभगवान् ब्रह्मा वेदराशिमवाप्तवान् ।
सस्मार निखिलान्वेदान् सांगानुपनिषद्गणम्

30.55

पुराणन्यायमीमांसाधर्मशास्त्राणि सर्वशः ।
चतुष्षष्टिकलाश्चैव विद्यास्थानानि यानि च

30.56

अन्तर्हितानां खननाद्वेदानान्तु विशेषतः ।
स विभुः प्रोच्यते ब्रह्मा विखना ब्रह्मवादिभिः

30.57

वैखानसश्च भगवान् प्रोच्यते स पितामहः ।
जगत्सर्वमशेषेण वेददृष्टेन वर्त्मना

30.58

प्राणाच्च चक्षुषस्तद्वदभिमानाच्च मर्मणः ।
हृदयाच्छिरसश्श्रोत्रादुदानाद्व्यानतस्ततः

30.59

समानाच्च तथापानादृषिश्रेष्ठानिमान् दश ।
दक्षं मरीचिनं नीललोहितं भृगुमेन च

30.60

तथांगिरसमत्रिञ्च पुलस्त्यं पुलहं तथा ।
वसिष्ठं चक्रतुं चैव क्रमादसृजदब्जभूः

30.61

नव ब्रह्माण एवै ते विनास्युर्नीललोहितम् ।
वेदानां व्यसनादर्पाक् प्राग्रूपं मिलितं तु यत्

30.62

तान्तु वैखानसीं शाखायेतानध्यापयन्मुनिः ।
नाम्ना विखनसं प्राहुर्यं च शातातपं तथा

30.63

भृग्वङ्गिरोमरीच्यत्रिपुलस्त्यपुलहाःक्रतुः ।
तथा वसिष्ठोदक्षश्च नव ब्रह्माणर् इरिता

30.64

(नव ब्राह्माण एवैते विन्यान्ये नीललोहितम्) ।
एते विखनसश्सिष्याश्श्रुतिस्मृतिविधानतः ।
तच्छिष्यास्तु महात्मानो मुनयस्तत्त्वदर्शिनः

30.65

वेदानुगानि शास्त्राणि चक्रुर्लोकहितैषिणः ।
के चिद्गृह्याणि वै चक्रुर्गृह्यश्रौतात्मकानि तु

30.66

धर्मशास्त्राणि केचित्तु पुराणानि च के चन ।
इतिहासांस् तथाकल्पान् प्रोचुरन्ये महर्षय?

30.67

के चिद्व्याकरणं केचिन्न्यायमन्ये तथेतरत् ।
वाङ्मयं सकलं सर्वं शास्त्रबद्धं प्रचक्रिरे

30.68

तान्तुवाखानसीं शाखां स्वसूत्रे विनियुक्तवान् ।
पद्मभूःपरमो धाता तस्मिन्नाराधनत्रयम्

30.69

तान्तु वैखानसीं शाखां स्वसूत्रे विनियुक्तवान् ।
चक्रे ऋगादिभेदैस्तु व्यसित्वा तु पृथक् पृथक्

30.70

आदिकाले तु भगवान् ब्रह्मातु विखना मुनिः ।
यजुश्शाखानुसारेण चक्रेसूत्रं महत्तरम्

30.71

वर्णाश्रमाचारयुतं श्रौतस्मार्तसमन्वितम् ।
यत्सूत्राद्यन्तमध्येषु भगवान् विष्णुरव्ययः

30.72

यष्टव्यो गीयते यस्मात्सर्वसूत्रोत्तमं तु तत् ।
वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः

30.73

सर्वैस्सधर्मोनुष्ठेयो नात्र कार्याविचारणा ।
स्वसूत्रस्य परित्यागादन्यसूत्रसमाश्रयात्

30.74

सद्यःपतति वै विप्रोन वेदस्य समाश्रये ।
सूत्रं वैखानसं यत्तु वेदस्संप्रतिपद्यते

30.75

एतद्वैखानसं सूत्रमन्यसूत्रानपेक्षितम् ।
एतद्वैखानसं सूत्रं सर्ववेदार्थसंग्रहः

30.76

वैष्णवं सर्वविप्राणां साम्न्यमभिधीयते ।
वैखानसस्य सूत्रस्य चाग्नेश्श्रामणकस्य च

30.77

नारायणस्य देवस्य माहात्म्यं नावबुध्यते ।
यथा वेदेषु सर्वेषु सामवेदः प्रशस्यते

30.78

तथा सर्वेषु सूत्रेषु सूत्रमेतत्प्रशस्यते ।
अग्निर्वैखानसं शास्त्रं विष्णुर्वेदाश्चशाश्वताः

30.79

गायत्री वैष्णवा विप्रास्सप्तैते बहुपावनाः ।
अधीतेषु च वेदेषु सांगेषु लभते फलम्

30.80

तत्फलं लभते सद्यस्सूत्रमेतत्पठन् द्विजः ।
अग्नीषोमादयो देवा ये यज्ञांशहविर्भुजः

30.81

ते सर्वे सूत्रमाश्रित्य चैनं गच्छन्ति माधवम् ।
शारीराण्यन्यसूत्राणि तथा स्वर्गफलानि च

30.82

वैष्णवं सूत्रमेतद्धि सर्वसिद्धिकरं परम् ।
आद्यत्वात्सर्वसूत्राणां वैष्णवत्वाद्विशेषतः

30.83

मयानुवर्तितं तद्वत्काश्यपात्रिमरीचिभिः ।
यस्मिन्नेव तु संप्रोक्ते सूत्रे विखनसा पुरा

30.84

वनस्थानां तु सर्वेषां विधिश्श्रामणकाभिधः ।
वानप्रस्थास्ततस्स्वर्वे येद्विजाश्चान्यसूत्रिणः

30.85

तत्सूत्रविध्यमष्ठानात्स्मृता वैखानसा अमी ।
किं बहूक्तेन विधिना सर्वं वैखानसं जगत्

30.86

परस्मिन् व्योम्नि यच्चार्ऽके यत्तेजस्तुत्रयीमयम् ।
तद्वैखानः परं ब्रह्म इति वेदादधीमहि

30.87

शास्त्रमेतच्च सूत्रं च सर्वेषामपि जीवनम् ।
ये वैखानससूत्रेण संस्कृतास्तु द्विजातयः

30.88

ते विष्णुसदृशा ज्ञेयास्सर्वेषामुत्तमोत्तमाः ।
वैखानसानां सर्वेषां गर्भवैष्णवजन्मनाम्

30.89

नारायणस्स्वयं गर्भेमुद्रां धारयिते निजाम् ।
विप्रा वैखानसाख्याये तेभक्तास्तत्त्वमुच्यते

30.90

एकान्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजीनः ।
विष्णोःप्रियतमा लोके चत्वारः परिकीर्तिताः

30.91

अश्वद्थःकपिला गावस्तुलसी वैष्णवा द्विजाः ।
द्विजेषु ब्राह्माणाश्श्रेष्ठा ब्राह्मणेषु च चैष्णवाः

30.92

वैष्णवेषु परं श्रेष्ठा ये वैखानससूत्रिणः ।
वैष्णवीं प्रतिमां लोके विप्रं वैखानसं तथा

30.93

गङ्गां विष्णुपदीं दृष्ट्वा सर्वपापैः प्रमुच्यते मूलमस्यापि शास्त्रस्य ।
सार्धकोटिप्रमाणतः उपादिशत्स भगवान् अस्मभ्यं नैमिशे वने

30.94

इति संक्षेपतः प्रोक्तं महत्त्वं सूत्रशास्त्रयोः ।
तस्माद्वैखानसा विप्रास्संपूज्या भगवत्प्रियाः

30.95

पूजान्ते स्नपनान्ते च तथान्ते चोत्सवस्य च ।
आचार्यमर्चकं चापि सर्वान् वैखानसांस्तथा

30.96

प्रथमं पूजयित्वैव पश्चात्कार्यं समाचरेत् ।
यःपूजकमनादृत्य विप्रं वैखानसं हठात्

30.97

तीर्थं गृहीतुं प्रथम्च्छेत्स पतति ध्रुवम् यः ।
पूजकमनादृत्य विप्रं वैखानसं पुनः

30.98

प्रसादं देवदेवस्य प्रथमं तु जिघृक्षति ।
ब्रह्महत्यामवाप्नोति तत्बूजा निष्पला भवेत्

30.99

यः पूजकमनादृत्य विप्रं वैखानसं पुनः ।
यादृशीमपि देवाग्रे वाञ्छत्यपचितिं जनः

30.100

चतुर्वेद्यपि सो विप्रस्सद्यश्चण्डालतां व्रजेत् ।
तत्पूजा निष्फला च स्याद्राजराष्ट्रं विनश्यति

30.101

षट्कालं वा त्रिकालं वा द्विकालं कालमेव वा ।
आलये भगवत्पूजा सौम्येन विधिना कृता

30.102

सर्वसंपत्करी सा स्याज्जगतामिति शासनम् ।
तत्रार्चने तु शुद्धात्मा पूजकः परितोषितः

30.103

तेन राजा च राज्यं च यजमानश्च नान्वयः ।
सर्वलोकश्च संतुष्टो वर्धते ब्रह्मतेजसा

30.104

अग्रं वृक्षस्य राजानोमूलं वृक्षस्य पूजकाः ।
तस्मान्मूलं न हिंसीयान्मूलादग्रं प्ररोहति

30.105

फलं वृक्षस्य राजानः पुष्पं वृक्षस्य पूजकाः ।
तस्मात्पुष्पं न हिंसीयात्पुष्पात्संजायते फलम्

30.106

देवस्यं ब्राह्मणस्वं च सन्मानं पूजकस्य च ।
यस्तु न त्रायते राजा तमाहुर्ब्रह्मघातुकम्

30.107

दुर्बलानामनाथानां बालवृद्धतपस्विनाम् ।
अन्यायैः परिभूतानां सर्वेषां पार्थिवो गतिः

30.108

राजा पिता च माता च राजा च परमो गुरुः ।
राजा च सर्वभूतानां परित्राता गुरुर्मतः

30.109

दावाग्निदवदग्धानां राजा पूर्णमिवांभसा ।
समुद्रमिव तृप्यन्ति ब्राह्मणा वेदवादिनः

30.110

दहत्यग्निस्तेजसा च सूर्यो दहति रश्मिभिः ।
राजा दहति दिडेन विप्रो दहति मन्युवा

30.111

मन्युप्रहरणा विप्राश्चक्र प्रहरणो हरिः ।
चक्रात्तीक्ष्णतरो मन्युस्तस्माद्विप्रान्न कोपयेत्

30.112

अग्निदग्धं प्ररोहेत सूर्यदग्धं तथैव च ।
दण्ड्यस्तु संप्ररोहेत ब्रह्मशापहतो हतः

30.113

आपद्यपि च कष्टायां नावमान्यो हि पूजकः ।
अर्चकेन तु तुष्टेन यदुक्तं देवसन्निधौ

30.114

तद्वाक्यं तु ह रेर्वाक्यं नावमान्यो हि पूजकः ।
अर्चकं कोपयेद्यस्तु स हि देवस्य कोपकृत्

30.115

देवेशं तोषयेद्यस्तु स हि पूजकतोषकृत् ।
गन्धं पुष्पं तथा माल्यं तांबूलं चाक्षतादिकम्

30.116

प्रसादं चापि देवस्य प्रथमं पूजकोर्ऽहति ।
षडङ्गविदुषां चैव क्रतुप्रवरयाजिनाम्

30.117

वैखानसः पुनात्यग्रे गोष्ठीं विप्रशतस्य तु ।
फलाभिसंधिरहितं सर्वं कर्माखिलं कृतम्

30.118

ब्रह्मार्पणधिया कुर्यात्स भवेद्वैष्णवोत्तमः ।
नान्यं देवं नमस्कुर्यान्नान्यं देवं प्रपूजयेत्

30.119

अर्चयेत्सततं ध्यायेन्नारायणमनायम् ।
कायेन मनसा वाचा स तु वैष्णव उच्यते

30.120

तिर्यक्पुण्ड्रधरं चैव पाषण्डिनमवैष्णवम् ।
देवाग्रे पूजये ऽन्नैव तद्वैष्णवविमानना

30.121

अभ्यर्च्या विष्णुभक्ता हि वैष्णवा भगवत्प्रियाः ।
अवैष्णवस्य पूजा तु तेषामग्रे सुदारुणा

30.122

तस्मात्सर्वप्रयत्नेन त्यजेद्दूरादवैष्णवम् ।
येतु सामान्यभावेन मन्यन्ते पुरुषोत्तमम्

30.123

रुद्रादिभिस्सहाज्ञा नात्ते ऽपि ज्ञेया अवैष्णवाः ।
नरेषु ब्राह्मणाश्श्रेष्ठा ब्राह्मणेषु विपश्चितः

30.124

विपश्चित्सु कृतधियस्तेषु कर्तार एव च ।
कर्तृषु ब्रह्मविदुषो ये हि भक्ताजनाक्दने

30.125

विष्णुभक्तेषु सर्वत्र श्रेष्ठा वैखानसास्स्मृताः ।
तस्मात्संपूज्य सर्वादौ भक्त्या वैखानसं द्विजम्

30.126

विष्णुभक्तं ततः पूज्य यथावर्णानुपूर्व्यशः ।
गोष्ठीं समर्चयेत्काले भोज्याश्चान्ये द्विजातयः

30.127

स्त्रीयः पूज्या विधानेन वैष्णप्यो वैष्णवाश्रयाः ।
न हि साधारणि सृष्यिर्वैष्णवीति विचिन्तयेत्

30.128

जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः ।
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते

30.129

न ह्यभागवतैर्विष्णुर्ज्ञ्रातुं स्तोतुं च तत्त्वतः ।
द्रष्टुं वा शक्यते मूढाः प्रवेष्टुं कुत एव हि

30.130

तद्भक्तिभाविताः पूता नरास्तद्गतचेतसः ।
भवन्तिवै भागवतास्ते विष्णुं प्रविशन्ति च

30.131

अनेक जन्मसंसारचिते पापसमुच्चये ।
वार्षिणे जायते पुंसां गोविन्दाभिमुखी मतिः

30.132

प्रद्वेषं याति गोविन्दे द्विजान् वेदांश्च निन्दति ।
यो नरस्तं विजानीयादासुरांशसमुद्भवम्

30.133

पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता ।
जायते विष्णुमायातः पतितानां दुरात्मनाम्

30.134

यदा पापक्षयः पुंसां तदा देवद्विजातिषु ।
विष्टौ च यज्ञपुरुषे श्रद्धा भवति निश्चला

30.135

यथा स्वल्पान शेषस्तु नराणां पापसंचयः ।
भवन्ति ते भागवता निश्श्रेयशपरा नराः

30.136

भ्राम्यतामत्र संसारे नराणां कर्मदुर्गमे ।
हस्तावलंबनो ह्येको भक्तिक्रीतो जनार्दनः

30.137

कर्मणा मनसा वाचा प्राणिनां यो ऽनसूयकः ।
भावसक्तश्च गोविन्दे विष्णौ भागवतो हि सः

30.138

यो ब्राह्मणांश्च वेदांश्च नित्यमेव नमस्यति ।
न द्रोग्धा परवित्तादेः सहि भागवतः स्मृतः

30.139

सर्वान् देवान् हरिं वेत्ति सर्वान् लोकांश्च केशवम् ।
तेभ्यश्च नास्यमात्मावं स हि भागवतस्स्मृतः

30.140

देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकाः ।
तरुपाषाणकाष्ठादीन् भूम्यंभोगगनं दिशः

30.141

आत्मानं चापि देवेशाद्व्यतिरिक्तं जनार्दनात् ।
यो न जानाति पुण्यात्मा स हि भागवतस्स्मृतः

30.142

सर्वं भगवतो भागो यद्भूतं भव्यसंस्थितम् ।
इति यो वै विजानाति स हि भागवतस्स्मृतः

30.143

भवभीतिं हरत्येष भक्तिभावेन भावितः ।
भगवानिति यद्भावस्स तु भागवतस्स्मृतः

30.144

भावं न कुरुते यस्तु सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा स तु भागवतस्स्मृतः

30.145

बाह्यार्थनिरपेक्षो यो भक्त्या भगवतः क्रियाम् ।
भावेन निष्पादयति ज्ञेयो भागवतो हि सः

30.146

नारयो यस्य सुस्निग्धा न चोदासीनवृत्तयः ।
पश्यतस्सर्वमेवेदं विष्णुं भागवतस्स हि

30.147

सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः ।
तां गतिं न नरायान्ति यां तु भागवता नराः

30.148

योगच्युतैर्भागवतैद् देवराजश्शतक्रतुः ।
अवाङ्निरीक्ष्यते नज्रीकिमु ये योगपारगाः

30.149

यज्ञनिष्पत्तये वेदा देवा यज्ञपतेः कृते ।
तत्तोषणाय यतते स हि भागवतस्स्मृतः

30.150

येन सर्वात्मना भक्त्या विष्णौ भावो निवेशितः ।
युक्तत्वात्कृतकृत्यत्वात्स हि भागवतस्स्मृतः

30.151

व्रतिनां यज्ञपुरुषः पूज्यो विष्णुरसंशयः ।
स्त्रीयश्च स्वं च भर्तारमृते पूज्यन्न दैवतम्

30.152

भर्तुर्गृहस्थस्य सतः पूज्यो यज्ञपतिर्हरिः ।
वैखानसानामाराध्यस्तपोभिर्मधुसूदनः

30.153

ध्येयः परिव्राजकानां वासुदेवो महात्मनाम् ।
एवमाश्रमिणां विष्णुस्सर्वेषां च परायणम्

30.154

न दानैर्नतपोभिश्च प्रीयते भगवान् हरिः ।
वर्णाश्रमाचारवता यथा स परितुष्यति

30.155

वर्णाश्रमाचारवता पुरुषेण परःपुमान् ।
विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः

30.156

अत्रानुक्तेषु दोषेषु प्रायश्चित्तं प्रवक्ष्यते ।
पैण्डरीकाग्निमासाद्य परिषिच्य च पावकम्

30.157

षट्कृत्वो वैष्णवं तद्वच्चतुष्कृत्वश्च व्याहृतीः ।
अष्टाक्षरं चाष्टकृत्वस्तथा च द्वादशाक्षरम्

30.158

हुत्वा द्वादशकृत्वस्तु विष्णुसूक्तं च पौरुषम् ।
एकाक्षरादिसूक्तं च श्रीभूसूक्तद्वयं हुनेत्

30.159

देवं संस्नाप्य चाभ्यर्च्य हविस्सम्यङ्नि वेदयेत्, ।
अनेन विधिना तत्र शान्तिर्भवति शोभना

30.160

हादोषेषु च पुनरुक्तहोमैस्सहैव तु ।
पारमात्मिकमीङ्काराद्यष्टाशीतिं विशेषतः

30.161

हुत्वा च सर्वदैवत्यमष्टाभिश्च शतैर्घटैः ।
देवं संस्नाप्य चाभ्यर्च्य हविस्सम्यङ्नि वेदयेत्

मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc