भाषा

ENहिગુ
ग्रंथ पाठ

भृगुसंहिता · अध्याय 31

31.1

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे त्रिंशो ऽध्यायः.
अथैक त्रिंशो ऽध्यायः.
संप्रोक्षणत्रयम्.
अथ वक्ष्यामि तत्रोक्तप्रायश्चित्तस्य संग्रहम् ।
जलसंप्रोक्षणं चैव लघुसंप्रोक्षणं तथा

31.2

महासंप्रोक्षणं चेति प्रायश्चित्तं त्रिधा स्मृतम् ।
निमित्ते समनुप्राप्ते ज्ञात्वा गौरवलाघवम्

31.3

वक्ष्यमाणक्रारेण सद्यस्संप्रोक्षणं चरेत् ।
संप्रोक्षणविधानस्य न कालनियमस्स्मृतः

31.4

न कुर्यान्मासनक्षत्र तिथिवाराद्यवेक्षणम् ।
तस्मान्निमित्ते संप्राप्ते सद्यस्संप्रोक्षणं चरेत्

31.5

देशकालाद्यवेक्षाया निमित्ते सति गौरवम् ।
बहुबेरेषु चैकस्मिन् स्थावरे जङ्गमे ऽथ वा

31.6

अर्चनायां विहीनायां कालातीते विपर्यये ।
निर्माल्यपूजने चैव निवेदितनिवेदने

31.7

एकाहे ऽप्यर्चनाहीने नित्यस्नापनवर्जने ।
बलिहोमादिहीनेच नित्योत्सवविवर्जने

31.8

प्राकाराभ्यन्तरे प्राप्ते प्रमादादशुभे सति ।
अस्पृश्यागमने तत्र चण्डालाद्यैः प्रवेशने

31.9

श्वकुक्कुट वराहोष्ट्रगर्दभानां प्रवेशने ।
उदक्यया सूतिकया पाषण्डाद्यैरथापि वा

31.10

कुण्डगोलव्रतभ्रष्टतुरुष्कादिप्रवेशने ।
अन्यसूत्रिद्विजैस्स्पृष्टे मोहादज्ञानतो ऽपिवा

31.11

महावातहते बिंबे संसिक्ते वर्षबिन्दुभिः ।
विण्मूत्ररुधिरस्रावे बहुजल्पे च मैथुने

31.12

एवमादिनिमित्ते तु जलसंप्रोक्षणं चरेत् ।
नैवासंप्रोक्षिते बिंबे हरिर्वसति निश्चयः

31.13

तस्माद्बिंबविशुद्ध्यर्थं संप्रोक्ष्यैव समर्चयेत् ।
दोषाधिक्ये समुत्पन्ने लघुसंप्रोक्षणं चरेत्

31.14

राष्ट्रक्षोभे च दुर्भिक्षे तन्त्रसंकरदूषणे ।
शूद्रैर्वाथानुलोमैर्वापाषण्डैर्भ्रमितैरपि

31.15

उदक्यया सूतिकया पतितैर्वाथ पातकैः ।
चण्डालाद्यैः प्रविष्टे च गर्भागारे विशेषतः

31.16

सूतैर्वा कुण्डगोलाद्यैस्तथा देवलकादिभिः ।
श्वकुक्कुट वराहाद्यैः प्रविष्टे गार्दभादिभिः

31.17

उलूकगृध्रकाकाद्यैः प्रविष्टे ऽन्तर्गृहे तथा ।
तुरुष्काद्यैःप्रविष्टे वा शुक्रणोणितयोरपि

31.18

विण्मूत्रादेर्विसर्गे वा गर्भागारेर्धमण्डपे ।
त्षहादूर्ध्वं विहीने तु पूजने दीपवर्जने

31.19

एक रात्रमतिक्रम्य देवेग्रामान्तरस्थिते ।
आग्निदाहे ऽशनीपाते गर्भागारेर्ऽधमण्डपे

31.20

अन्यसूत्षर्चिते बिंबेस्पृष्टे वा बुद्धिपूर्वकम् ।
अन्यैरनुक्तैर्देषैश्च लघुसंप्रोक्षणं चरेत्

31.21

महानिमित्ते संप्राप्ते महासंप्रोक्षणं चरेत् ।
द्वादशाहात्समारभ्य वत्सरान्तं विधानतः

31.22

हीनायामर्चनायां च नित्ये नैमित्तिके तथा ।
क्रियाहीने विपर्यासे हीने मासोत्सवादिके

31.23

नित्यस्नपनहीने ऽपि मात्रादानविहीनके ।
बलिहोमादिहीने च संप्राप्ते शास्त्रसंकरे

31.24

एवमादिषु हीनेषु वत्सरान्तं प्रमादतः ।
पर्षदां परिवाराणामाश्रितालयसेविनाम्

31.25

ध्वजारोहणपूर्वं तु कृते कालोत्सवादिके ।
विप्रादिमरणे प्राप्ते देवागारे विशेषतः

31.26

गर्दभाश्वलुलायोष्ट्रश्वसूकरमुखे मृते ।
गजादिमृगनाशे च देवागारे प्रमादतः

31.27

चण्डालाद्यन्त्यजातीनां मरणे वा विशेषतः ।
शूद्रैर्वाथानुलोमैर्वा पाषण्डैः पतितादिभिः

31.28

संस्पृष्टे वैष्णवे बिंबे तुरुष्काद्यैर्मलिम्लुचैः ।
स्पृष्टे चण्डालकाद्यैर्वा महापातकदूषितैः

31.29

विमाने ऽशनिपाते वा महोल्का पतने ऽपि वा ।
लोहितो पलवर्षे च वांसुवर्षे विशेषतः

31.30

भूकंपाच्चलिते बिंबे वल्मीकस्य समुद्भवे ।
शिथिलिभवने वापि चाष्टबन्धे विशेषतः

31.31

जीर्णे स्तंभादिपतने देवागारेन वीकृते ।
अग्निस्पर्शे च बेरस्य मनुष्यप्रसवे तथा

31.32

सुथाकर्मणि सर्वत्र गर्भगेहादिके पुनः ।
बिंबेषु गर्भगेहे वा कृमिकीटादिदर्शने

31.33

हसने रोदने चैव भाषणे च विशेषतः ।
स्वेदशोणितयोर्वापि दर्शने वर्णसंक्षये

31.34

विमाने मण्डपे वाथ यत्र कुत्रापि वा हरेः ।
देवागारे समुत्पन्ने दोषेष्वेतेषु वा पृथक्

31.35

दुर्भिक्षे राष्ट्रसंक्षोभे दुर्निमित्तेषु चैव हि ।
दुस्स्वप्ने भूमिकंपे वा परराजाद्युपद्रवे

31.36

भूगुप्ते चोद्धृते बिंबे चिरमन्यालये स्थिते ।
अतिक्रम्य त्रिरात्रं तु देवे ग्रामान्तरे स्थिते

31.37

कुण्डगोलकसूताद्यैर्दीक्षितैरर्चने कृते ।
अनुक्तानि च कर्वाणि दुरितान्यद्भुतानि च

31.38

दृष्ट्वातु यजमानश्च ये तत्परिसरे जनाः ।
ग्रामस्थिता चनाश्चैव राजा राष्ट्रं च यत्नतः

31.39

ज्ञात्वा शास्त्रोक्तविधिना दोषजं भक्तितः फलम् ।
महासंप्रोक्षणं कुर्यान्महादोषापनुत्तये

31.40

महदोषेषु सर्वत्र महाशान्तिर्विथीयते ।
पूर्वं स्थापितबिंबस्य न साधारणहेतुना

31.41

स्यात्पुनस्थ्सापनं तस्मान्महासंप्रोक्षणं चरेत् ।
महासंप्रोक्षणविधेर्नूतनस्थापनस्य च

31.42

स्वल्पो भेद इति प्रोक्तमृषिभिः काश्यपादिभिः ।
जलसंप्रोक्षणविधिं प्रवक्ष्यामि तपोधनाः

31.43

यजमानाभ्यनुज्ञातो गुरुस्स्नात्वा विधानतः ।
आलयाभिमुखे वापि दक्षिणे वा मनोरमे

31.44

स्थण्डिले सैकते शुद्धे पुण्याहाग्निमुखात्वरम् ।
वास्तुहोमावसाने च दोषदुष्टं तु यत् स्थलम्

31.45

पर्यग्निपञ्चगव्याभ्यां संस्क्रत्य विधिना बुधः ।
बिंबं पुरुषसूक्तेन कलशैरभिषिच्य च

31.46

षट्द्रोणधान्य राशौ तु पञ्चकुंभान्निधाय च ।
वस्त्रयुग्नेन संवेष्ट्य प्रतिमास्तेषु निक्षिपेत्

31.47

नालिकेराम्रपत्राद्यैरलङ्कृत्य पृथक् घटान् ।
पञ्चसूक्तं जपित्वैव पञ्चशान्तिभिरेव च

31.48

पञ्चमूर्तिभिरावाह्य समभ्यर्च्याष्टविग्रहैः ।
पश्चादग्निं परिस्तीर्य पञ्चसूक्तं हुनेत्सुधीः र्

31.49

इङ्कारादींश्च जुहुयादष्टाशीतिमतः परम् ।
पञ्चवारुणमन्त्रैश्च महाव्याहृतिभिस्सह

31.50

पश्चादग्निं विसृज्यैव गुरवे दक्षिणां ददेत् ।
निष्काहीनसुवर्णं च वस्त्राभरणकुण्डलान्

31.51

पश्चात्कुंभजलेनैव प्रोक्षयित्वा समन्त्रकम् ।
प्रभूतं च निवेद्यैव नित्यार्चनमथाचरेत्

31.52

अनेन विधिना दोषा नश्यत्येव न संशयः ।
तद्बिंबे देवसान्निध्यं भवेदित्याह चाङ्गिराः

31.53

एतावानेव संप्रोक्तो जलसंप्रोक्षणक्रमः ।
लघुसंप्रोक्षणं कुर्याद्यजमानेन वै गुरुः

31.54

यथार्हं पूजितः पूर्वमारंभदिवसादधः ।
त्षहे वा द्वियहे वापि कृत्वा चैवाङ्कुरार्पणम्

31.55

औपासनाग्नौ श्वोभूते वास्तुहोमं विधाय च ।
पर्यग्नि पञ्चगव्याभ्यां शोधयित्वा समन्ततः

31.56

अभिषिच्य च देवेशमष्टोत्तरशतैर्घुटैः ।
शोथयित्वा विधानेन वस्तुवास्तुपरिच्छदान्

31.57

पश्चात्पद्माग्निमासाद्य कृताघारं विधानतः ।
कुंभपूजां ततः कुर्यात्सम्यक् ध्यानयुतो गुरुः

31.58

द्वात्रिंशत्प्रस्थसंपूर्णान् कुंभानाहृत्य शोभनान् ।
तन्तुना वेष्टयित्वा तु तोयैरापूर्य मन्त्रत

31.59

षड्भारधान्यरोशौ तु वेद्यां सप्तदश क्रमात् ।
वस्त्रयुग्मेन संवेष्ट्य प्रतिमास्तेषु निक्षिपेत्

31.60

निष्कत्रयकृतांस्तत्र नव रत्नानि यत्नतः ।
रत्नालाभे सुवर्णं वा प्रत्येकं निक्षिपेद्घटे

31.61

गन्धपुष्पैस्समभ्यर्च्य नालिकेराम्रपल्लवैः ।
आयुधैःपञ्चभिस्तद्वत्तोरणैरष्टमङ्गलैः

31.62

अलङ्कृत्य गुरुर्धीमान्त् पृष्ट्वा कूर्चेन तान् घटान् ।
पञ्चसूक्तं पञ्चशान्तिं ततो द्वादशसूक्तकम्

31.63

सारस्वतादिसूक्तं च दिक्सूक्तं पञ्चवारुणम् ।
स्वस्तिसूक्तं जपित्वैव तथैवौषधिसूक्तकम्

31.64

नवमूर्तिभिरावाह्य देवीभ्यां सह पार्षदैः ।
द्वात्रिंशद्विग्रहैस्सम्यगभ्यर्च्य तु निवेदयेत्

31.65

पैण्डरीकाग्निमासाद्य परिषिच्य च पावकम् ।
पञ्चसूक्तेन जुहुयाद्व्यापकत्रयमन्त्रतः

31.66

अष्टोत्तरशतं तद्वदष्टाविंशतिरेव वा ।
र् इङ्कारादींश्च जुहुयादष्टाशीतिमतः परम्

31.67

धातादिं मूलहोमं च पञ्चवारुणमेव च ।
हुत्वा कूश्माण्डहोमं च पञ्चवारुणमेव च

31.68

पङ्कजैर्बिल्वपत्रैर्वा विष्णुगायत्रिया ततः ।
अष्टोत्तरशतं हुत्वा पश्चादग्निं विसर्चयेत्

31.69

पश्चाद्गुरुः पूजितस्सन् वस्त्राभरणकुण्डलैः ।
कुंभमादाय शिरसो ग्राममालयमेव वा

31.70

प्रदक्षिणं परीत्याथ देवदेवस्य सन्निधौ ।
कूर्चेनादाय तत्तोयं प्रोक्षयेत्पञ्चमूर्तिभिः

31.71

"शुची वो हव्यऽऽ मन्त्रेण प्रोक्षयेत्सर्वमन्दिरम् ।
उपचारैस्समभ्यर्च्य "क्षमऽऽस्वेति प्रणम्य च

31.72

महाहविः प्रभूतं वा देवेशाय निवेदयेत् ।
ब्राह्मणानां सहस्रं च भोजयेद्गुरुणा सह

31.73

गुरवे दक्षिणां दद्यात्सुवर्णं पञ्चनिष्ककम् ।
प्रदद्याद्भूमिमिष्टां च प्रोन्मिषत्सस्यमालिनीम्

31.74

दशदानं ततः कृत्वा नित्यार्चनमथाचरेत् ।
एवं यः कुरुते भक्त्या लघुसंप्रोक्षणं हरेः

31.75

विष्णुसान्निध्यमाप्नोति दोषशान्तिश्च जायते ।
राजराष्ट्राभिवृद्धिश्च जगत्पुष्टिकरं भवेत्

31.76

लघुसंप्रोक्षणविधिर्मया प्रख्यापितः किल ।
काश्यपाद्यैश्च मुनिभिरेवमेव प्रचोदितः

31.77

महासंप्रोक्षण विधौ विशेषो वक्ष्यते मया ।
जलाधिवासरहितं नेत्रोन्मीलनवर्जनम्

31.78

प्रतिष्ठोक्तविधानेन सर्वं पूर्ववदाचरेत् ।
नेत्रयोस्तेजने तद्वद्दृष्टिदोषे विशेषतः

31.79

जलाधिवासनं कुर्यादक्ष्णोरुन्मीलनं पुनः ।
महाशान्तिविधानस्य विशेषो ऽत्र प्रकीर्तितः

31.80

जङ्गमप्रतिमास्सर्वा अधिवासपुरस्सरम् ।
प्रोक्षयित्वा विधानेन देवं पूर्ववदर्चयेत्

31.81

महानिमित्ते संप्राप्ते यजमानार्थितो गुरुः ।
प्रतिष्ठोक्तदिने विद्वान् ऋत्विग्भिर्लक्षणान्वितैः

31.82

वस्त्रैराभरणैश्चापि पूर्वोक्तमिव भूषितः ।
प्रोक्षणादिवसात्सूर्वमङ्कुरार्पणमाचरेत्

31.83

द्रव्याण्यपि सुसंभृत्य यागशालां प्रविश्य च ।
कदलीपूगमालाद्यैः पताकाद्यैरलङ्कृताम्

31.84

तन्मध्येकल्पयेद्वेदिं शयनार्थं विधानतः ।
तस्यास्तु पूर्वदिग्भागे कुंभवेदिं सलक्षणम्

31.85

परितश्चाग्निकुण्डांश्च पैण्डरीकं च कारयेत् ।
देवालयं च संशोध्य मृष्टसिक्तोपलेपनैः

31.86

आचार्यस्सुप्रसन्नात्मा यजमानार्थितो मुहुः ।
स्नात्वास्नानविधानेन गायत्रीं च सहस्रशः

31.87

जप्त्वा द्वादशसूक्तानि पुण्याहमपि वाचयेत् ।
वास्तुहोमं ततः कृत्वा कुण्डे त्वौपासने गुरुः

31.88

पर्यग्नि पञ्चगव्याभ्यां संशोध्यैव च सर्वतः ।
गार्हपत्यादिकुण्डेषु क्रमादाघारमाचरेत्

31.89

पक्वबिंबसमाकारघटानां पञ्चविंशतिम् ।
तन्तुना त्रिवृता वेष्ट्य शोधयित्वा सुधूपितान्

31.90

आदाय मन्त्रवद्दिव्यं जलमाहृत्य यत्नतः ।
पूताभिरद्भिरापूर्य नालिकेराम्रपल्लवैः

31.91

अलङ्कृत्य तथा कूर्चैर्गन्धपुष्पाक्षतादिभिः ।
यवैर्वाह्रीहिभिर्वाथ वेद्यां द्वादशभारकैः

31.92

आस्तीर्य तेषु संस्थाप्य पृथग्वस्त्रेण वेष्टयेत् ।
सौवर्णप्रतिमास्तत्र पञ्चनिष्ककृताः पृथक्

31.93

गजकूर्मादिरूपाणि नवरत्नादि च क्षिपेत् ।
ध्यानमार्गेण कुंभेषु मध्यमादिषु चक्रमात्

31.94

नवमूर्तिक्रमेणैव मन्त्रेणावाहयेद्गुरुः ।
वेद्यधस्थेषु कुंभेषु चें दादीनष्टदिक्पतीन्

31.95

आवाह्य गन्धपुष्पाद्यैस्समभ्यर्च्य निवेदयेत् ।
सहस्रकलशैस्स्नाप्य स्नपनोक्तप्रकारतः

31.96

सौवर्णं कौतुकं बद्ध्वा प्रतिष्ठोक्तविधानतः ।
शय्यावेदिं समभ्युक्ष्य पञ्चतल्पान् प्राकल्प्यच

31.97

शालिव्रीहियवैश्चापि षड्भारैश्च पृथक् पृथक् ।
तदर्धैस्तण्डुलैश्चाथ तदर्धैश्च तिलैस्तथा

31.98

उपर्युपरि चास्तीर्य चर्मजादीन् समास्तरेत् ।
शयने शाययेद्वेद्यामौत्सवं बिंबमुक्तवत्

31.99

कूर्चाधिवासं कुर्वीत ध्रुवमात्रं यदिक्रमात् ।
वेदानध्यापयेद्दिक्षु "ऋचां प्राचीऽऽरिति श्रुतिः

31.100

गार्हपत्यादिकुण्डेषु प्रतिष्ठोक्तविधानतः ।
ऋत्विग्भिः कारयेद्धोमं तत्तद्दैवत्यपूर्वकम्

31.101

गुरुस्सभ्याग्निमासाद्य परिषिच्य च पावकम् ।
पञ्चसूक्तं क्रमेणैव महाव्याहृतिपूर्वकम्

31.102

व्यापकत्रयमन्त्रं च विष्णुगायत्रिया पुनः ।
अषोत्तरशतं हुत्वा व्याहृत्या च तथैव च

31.103

ततो ऽब्जाग्निं समासाद्य पञ्चसूक्तैस्सहैव तु ।
धातादिमूलहोमं च पञ्चवारुणसंयुतम्

31.104

महाशान्त्युक्तमन्त्रांश्च त्रिरावर्त्य हुनेत्ततः ।
कुंभवेदिं समासाद्य समभ्यर्च्याष्टविग्रहैः

31.105

स्पृष्ट्वा कूर्चेन तत्कुंभान् ऋत्विग्भिस्सह वै गुरुः ।
आत्मसूक्तं जपित्वैव पञ्चसूक्तमतः परम्

31.106

स्वस्तिसूक्तं च दौर्गं च रात्रिमेकाक्षरं तथा ।
अष्टदिक्पालसूक्तानि पञ्चशान्तिमतः परम्

31.107

"आपो हिरण्यवर्णाऽऽभ्यां पावमानीभिरेव च ।
जप्त्वा द्वादशसूक्तं च ततस्सभ्यानले क्रमात्

31.108

हौत्रप्रशसनं कुर्यात्सर्वं होत् तु पूर्ववत् ।
चतुर्मूर्तिक्रमेणैव सहस्राहुतिना सह

31.109

"यद्देवाऽऽद्यैश्च कूश्माण्डैस्सर्वदैवत्यमन्त्रकैः ।
हुत्वातु दोषशान्त्यर्थं लोजैस्तद्वत्तिलैरपि

31.110

सापूपैर्विष्णुगायत्षा हुत्वाकुण्डेषु पूर्ववत् ।
अष्टोत्तरशतं तद्वदष्टाविंशतिरेव वा

31.111

परिषेगं ततः कृत्वा पैण्डरीके विशेषतः ।
पद्मैर्वा बिल्वपत्रैर्वा विष्णुगायत्रिया ततः

31.112

अषोत्तरसहस्रं तु घृतेनाप्लुत्य वै हुनेत् ।
पारमात्मिकमन्त्रैश्च र् इङ्काराद्यैश्च यत्नतः

31.113

अष्टाशीतिं ततो हुत्वा महाव्याहृतिपूर्वकम् ।
हुत्वा तद्दोषनाशाय राजराष्ट्राभिवृद्धये

31.114

सभ्याग्निं पौण्डरीकाग्निं हित्वान्येष्वन्तहोमकम्

31.115

नृत्तगीतादिवाद्यैश्च रात्रिशेषं नयेद्गुरुः ।
प्रातस्स्नात्वा विधानेन कलशैस्स्नपनं चरेत्

31.116

पञ्चसूक्तैश्च संस्नाप्य पञ्चशान्तिसमन्वितम् ।
पश्चाद्देवमलङ्कृत्य सुवस्त्राभरणादिकैः

31.117

गन्धपुष्पैस्सुगन्धैश्च यापन्नेत्रमनःप्रियम् ।
मुहूर्ते समनुप्राप्ते कुंभमादाय देशिकः

31.118

स्वस्तिसूक्तं जपन् ग्राममालयं वा प्रदक्षिणम् ।
कृत्वा देवाग्रतः कुंभं ध्यान्यपीठे निवेशयेत्

31.119

यजमानेन शक्त्यावै गुरुस्संपूजितस्तदा ।
कूर्यादनन्तरोक्तांश्च संस्कारान् भगवत्प्रियान्

31.120

वस्त्रेराभरणैश्शुभ्रैः कुण्डलैश्च विशेषतः ।
यजमानस्सुसंपूज्य पशुभूम्यादिभिर्गुरुम्

31.121

गुरवे दक्षिणां दद्यान्निष्काणामेकविंशतिम् ।
ऋत्विग्भ्यश्च तथा दद्यात्सुप्रीतो भगवान् हरिः

31.122

गुरुः पश्चात्समावाह्य समभ्यर्च्याष्टविग्रहैः ।
महाहविर्नि वेद्यैन पायसापूपसंयुतम्

31.123

साज्यं सव्यञ्जनं दत्वा मुखवासं निवेदयेत् ।
पुष्पाञ्जलिं ततो दत्वा "क्षयऽऽ स्वेति प्रणम्य च

31.124

सहस्रं ब्राह्मणानां च भोजयेच्छान्तिहेतवे ।
दशदानं विशेषेण देवप्रीतिकं भवेत्

31.125

एवमाद्वादशाब्दात्तु प्रतिष्ठामाचरेत्ततः ।
पुनस्थ्सापनसंस्कारात्प्रायश्चित्तं न हीतरत्

31.126

तस्मात्सर्वप्रयत्नेन शास्त्रोक्तं सर्वमाचरेत् ।
एवं यःकुरुते भक्त्या विष्णोस्संप्रोक्षणत्रयम्

31.127

प्रतिष्ठाफलमासाद्य वैष्णवं लोकमाप्नुयात्

मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc