भाषा

ENहिગુ
ग्रंथ पाठ

भृगुसंहिता · अध्याय 29

29.1

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे ऽष्टाविंशो ऽध्यायः
अथैकोनत्रिंशो ऽध्यायः.
प्रायश्चित्तम्
अथवक्ष्ये विशेषेण ध्रुवबेरस्य निष्कृतिम् ।
ताम्रजं शैलजं चैव मूर्तिकं दारवं त्विति

29.2

चातुर्विध्यं ध्रुवस्यात्र पूर्वमेव मयोदितम् ।
षण्मानसहितं कृत्वासनालं पादपद्मकम्

29.3

कृत्वा तु ताम्रजं बिंबं कौतुकस्योक्तवर्त्मना ।
कृत्वाक्ष्युन्मोचनं चाधिवासान् संस्थाप्य चाचलम्

29.4

स्थापयेत्सह देव्यौच शुद्ध्यर्थं प्रतिपर्वतु ।
शुद्धोदैरभिषिच्यैव भूषणैश्च विभूष्यच

29.5

पुष्पन्यासं च कृत्वैव सर्वान् परिषदः क्रमात् ।
शैलानेव प्रकुर्वीत यथा शातातपो ऽब्रवीत्

29.6

शैलं ध्रुवं तथा चित्रं चित्रार्धं वा विधाय च ।
पूर्वोक्तेन विधानेन परं संस्कृत्य तत्क्रमात्

29.7

देव्यावन्यांश्च देवांश्च तदालयगतानपि ।
तद्द्रव्येण प्रकुर्वीत ध्रुवं षण्मानसंयुतम्

29.8

कृत्वाक्ष्णोश्च भ्रुवोस्तद्वदोष्ठयोरुभयोरपि ।
करपादतले चैव नखेषु मुकुटे ऽपि च

29.9

भूषणेषु विधानेन तत्तद्वर्णेन लेपयेत् ।
मृण्मयं दारवं वा चेत्तद्द्रव्येणैव देवताः

29.10

तदालयगताः कुर्यादन्यथा विपरीतकृत् ।
अथ वा वर्णहीनं तु शैलं सर्वत्र कारयेत्

29.11

अर्धचित्रस्य शैलस्य हीनेष्वं गेषु चैव हि ।
प्रत्यङ्गेषु तथोपाङ्गेष्वनिष्टं तद्भवेदिह

29.12

बालागारे ऽथ तच्छक्तिं नीत्वा बिंबं समाहरेत् ।
भूमौ पिधाय तस्योर्ध्वे पद्माग्निं परिकल्प्य च

29.13

हुत्वा च महतीं शान्तिं शिलाग्रहणवत्तथा ।
तत्तदङ्गसमुत्पत्तिं युक्त्या तक्ष्णा तु कारयेत्

29.14

हीने महाङ्गे तद्बेरमयुक्तं चेत्समीकृतौ ।
त्यक्त्वा तद्विधिना बेरं पुनरन्यत्समाहरेत्

29.15

बेरं संधानयोग्यं यस्त्यजेत्पापी भवेत्स हि ।
विनष्टं च भवेत्सर्वंसंधानं शक्तितश्चरेत्

29.16

ध्रुवबेरमथार्ऽचां च कर्तुं पूर्वमिवद्वयम् ।
अशक्तश्चेद्ध्रुवार्चान्तु कृत्वा चैकं स्वशक्तितः

29.17

प्रतिष्ठाप्यार्चयेत्सम्यगिति के चिन्मनीषिणः ।
एकबेरप्रतिष्ठायामेष एव विधिस्स्मृतः

29.18

अशक्तश्चेद्ध्रुवं बेरमर्चाबेरमथापि वा ।
सहितं रहितं वाथ देवीभ्यांस्थाप्य चार्चयेत्

29.19

मृदालये ब्रह्मस्थाने ध्रुवार्चाबेरमाहरेत् ।
तं देवीसहितं कृत्वा विमानं च विशेषतः

29.20

शैलं तु कर्तुमिच्छेच्चेद् देवो दैविकमाश्रयेत् ।
यथा तथा प्रकल्प्यैव विमानं कौतुकं पुनः

29.21

लोहजं जङ्गमं कृत्वा ब्रङ्मस्थाने समाचरेत् ।
कौतुकं शैलजं चेत्तु स्थावरं त्वेव स्थापयेत्

29.22

लघुबेरं प्रतिष्ठाप्य विमाने मृण्मये ऽर्चिते ।
कर्तुमिच्छेद्ध्रुवं बेरं विमानं चैव शैलजम्

29.23

विमानं परिकल्प्यैव विधिना हस्तमानतः ।
देवीभ्यां सहितं देवं दैविकांशे विधाय च

29.24

पूर्वार्चितां गृहीत्वैव बेरं कौतुककर्मणि ।
तस्योत्तरे चौत्सवादीन् प्रतिष्ठाप्य समर्चयेत्

29.25

पूर्वं ध्रुवार्चाबेरेतु अर्च्यमाने मृदालये ।
शिलाभिरिष्टकाभिर्वा विमानं कर्तुमिच्छया

29.26

रक्षार्थं तस्य बेरस्य शिल्पिस्पर्शनिवृत्तये ।
काष्ठेन पञ्जरं कृत्वा बालागारं दृढं ततः

29.27

संशोध्य शल्यं चाधस्ताद्युक्त्या परमाया पुनः ।
विमानं युग्महस्तेन तद्बेरस्य वशादपि

29.28

यथाविभवविस्तारं सौधं कृत्वा सुरक्षयेत् ।
तद्बेरसममध्यर्धं द्विगुणं चतुरश्रकम्

29.29

अधमं मध्यमं तद्वदुत्तमं त्रिविधोदितम् ।
कृत्वा तस्य चतुर्भागं त्रिभागं चार्धमेववा

29.30

गर्भागारं भवेच्छेषं भित्तिविष्कंभमेव च ।
समण्टपं विमानं तु पूर्ववत्कारयेद्विधिः

29.31

शिलेष्टकाविमाने तु वर्गस्यान्ते परस्य वा ।
कारयेन्मिश्रमथ चेदशक्तः कर्तुमीदृशम्

29.32

अधिष्ठानस्य चोर्ध्वं हि यथेष्टस्थानके पुनः ।
मिश्रद्रव्येण कुर्यात्तु शक्तिलोभं न कारयेत्

29.33

वर्णक्षयेध्रुवे दोषसंफदे स्फुटितादिभिः ।
अल्पदोषे ऽपि वाशक्तिं ध्रुवबेरस्थितां तदा

29.34

कुंभे ऽंभसि समावाह्य तत्कुंभं कौतुकादि च ।
समादाय विधानेन मालिकायां तु मण्डपे

29.35

सन्न्यस्य कौतुकादौ तु समावाह्य समर्चयेत् ।
काले कुंभे समारोप्य क्रियास्सर्वास्समाचरेत्

29.36

अतीते द्विदिने कुंभमन्यदादायचात्वरः ।
कुंभाच्छक्तिं समादाय कुंभे ऽन्यस्मिन् विधालतः

29.37

अर्चयेत्त्रिदिने चैवं कुंभसंशोधनं चरेत् ।
पश्चाच्च वर्णलेपादीन् कृत्वा संशोद्य चैवहि

29.38

वास्तुहोमं च पुण्याहं ध्रुवशुद्धिं च कारयेत् ।
कुंभं बिंबं समादाय प्रविश्याभ्यन्तरं ततः

29.39

कौतुकादीन् सुसंस्थाप्य न्यासादींश्च विधाय च ।
कुंभस्थां शक्तिमादाय ध्रुवबेरे ऽवरोपयेत्

29.40

ध्रुवात्पुनः कौतुकादिष्वावाङ्य तु समर्चयेत् ।
दोषाणां गोरवान्मासादूर्ध्वं कालेत्वपेक्षिते

29.41

देवं बालालये स्थाप्य शोधयेन्मृण्मयं पुनः ।
यावच्छूलं पुनश्शैलं शिलान्तं शोधयेत्क्रमात्

29.42

नवषट्पञ्चमूर्तीनां विमाने दोषसंयुतम् ।
यत्तलं तत्तलं गृह्य बालस्थानं प्रकल्प्य च

29.43

कौतुकादीन् सुसंस्थाप्य विधिना सम्यगर्चयेत् ।
पश्चात्तले तु निर्दुष्टे कौतुकादीन् प्रगृह्य च

29.44

स्थापयित्वा पुनश्चैव विधिनापि समर्चयेत् ।
अथ वक्ष्ये जीर्णबेरपरित्यागविधिं क्रमात्

29.45

ध्रुवस्याङ्गविहीने तु त्यजेत्तत्सद्य एव हि ।
कर्त्राराधकयोर्ग्राह्यमन्यथा स्यान्महद्भयम्

29.46

तस्मात्सर्वप्रयत्नेन जीर्णं संशोध्य सर्वतः ।
नववस्त्रैस्समाच्छाद्य बद्ध्वा च कुशरज्जुभिः

29.47

ब्राह्मणैर्वाहयित्वैव नदीं स्फारां समुद्रगाम् ।
अशोष्यं वा जलाधारमन्यन्नीत्वाथ तत्तटे

29.48

प्रपां कृत्वाग्निमाधाय चौपासनमतन्द्रितः ।
आघारान्ते तु जुहुयाद्वैष्णवं शतशस्ततः

29.49

"दद्भ्यस्स्वाऽऽहेत्यङ्गहोमं व्याहृत्यन्तं हुनेद्भुधः ।
वस्त्रबन्धं विमोच्यैव प्राङ्मुखोदङ्मुखो गुरुः

29.50

वारुणं वैष्णवं चैव प्रक्षिप्यैव च तज्जले ।
स्नायात्संस्मृत्य देवेशं दारवे तु विशेषतः

29.51

दग्ध्वाग्निनाथ तद्भस्म निक्षिपेत्तादृशे जले ।
देव्यादीनां पर्षदां च तत्तन्मन्त्रं सवैष्णवम्

29.52

हुनेज्जलेक्षिपेत्पश्चाद्दद्यादाचार्य दक्षिणाम् ।
अथ चेत्कौतुकादीना मङ्गहानिस्तदुच्यते

29.53

महाङ्गानि शिरः कुक्षि वक्षः कण्ठान् प्रचक्षते ।
पादौहस्तौ बाहवश्चेत्यङ्गानि प्रवदन्तिहि

29.54

अङ्गुल्यः कर्णनासाद्याः प्रत्यङ्गानि विदुर्बुधाः ।
शिरश्चक्रं च पीठं च प्रभामण्डलमेव च

29.55

उपाङ्गान्यूचिरे भूषणायुधांबरपूर्वकान् ।
तत्रोपाङ्गस्य हीने तु कुंभं संसाध्य पूर्ववत्

29.56

आवाह्य कुंभे तच्छक्तिं बिंबं संधाय पूर्ववत् ।
कृत्वा जलाधिवासादीन् वास्तुहोमं विधाय च

29.57

संशोद्य पञ्चगव्यैश्च कुशोदैश्च विशेषतः ।
सप्तभिः कलशैस्थ्साप्य कुंभस्थां शक्तिमादरात्

29.58

समावाह्य पुनर्बिंबे विधिना सम्यगर्चयेत् ।
प्रत्यङ्गहीने तच्छक्तिं महाबेरे ऽवरोप्य च

29.59

उध्रुत्य बिंबं संप्रोक्ष्य पञ्चगव्यैः कुशोदकैः ।
तुल्यलोहेन संधाय चाधिवास्य कुशादिषु

29.60

पुनः प्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत् ।
अङ्गहीनेतु संधानयोग्यं संधाय पूर्ववत्

29.61

अर्चयेदन्यथा युक्तेहीने वापि महाङ्गके ।
भूमौ पिधाय तद्बेरं तदूर्ध्वे जुहुयात्क्रमात्

29.62

अङ्गहोमं महाशान्तिमपोह्यैव च तद्दिनम् ।
उद्धृत्य बिंबं प्रक्षाल्य पञ्चगव्यैः कुशोदकैः

29.63

त्रिरग्नौ संपरिक्षिप्य शोधयेदाम्लवारिणा ।
राजतं द्विस्सकृद्रौक्मं दहेदग्नाविति क्रमः

29.64

कृत्वातेनैव द्रव्येण बिंबं पूर्ववदुत्तमम् ।
पुनःप्रतिष्ठां कृत्वैव कारयेदर्चनं क्रमात्

29.65

पटे कुड्ये ऽथ वा लिख्य बेरे विधिवदर्चिते ।
जीर्णमालोक्य तच्छक्तिमारोप्यैवार्कमण्डले

29.66

नवीकृत्य पुनस्तस्मिन् प्रतिष्ठाप्य समर्चयेत् ।
आचार्येण च येनादौ कर्षणाद्याः कृताः क्रियाः

29.67

प्रतिष्ठा वा कृता विष्णोस्तेनैवान्यांश्च कारयेत् ।
नित्यार्चनोत्सवादींश्च प्रायश्चित्तादिकानपि

29.68

तदभावे च तत्पुत्रं पौत्रं नप्तारमेव च ।
तद्वंशजं वा तच्छिष्यं तन्नियुक्तमथान्ततः

29.69

आचार्यसन्निधौ नान्यमाचार्यं वरयेत्क्वचित् ।
वरयेद्यदि राष्ट्रस्य राज्ञश्चापि महद्भयम्

29.70

भवेच्च निष्फला पूजा सर्वं कार्यं विनश्यति ।
तस्मात्सर्वप्रयत्नेन न कुर्याद्गुरुसंकरम्

29.71

अज्ञानादर्थलोभाद्वा कृते त्वाचार्यसंकरे ।
अब्जानले महाशान्तिं हुत्वा संप्रार्थ्यवै गुरुम्

29.72

याचयित्वा "क्षमऽऽस्वेति पूजयित्वा विशेषतः ।
पनस्तेनैव तत्कर्म कारयेदिति शासनम्

29.73

आचार्यदीनामलाभे तु तद्रूपं लेखयेत्पटे ।
तत्सन्निधौ युक्तमन्यमाचार्यं वरयेत्तथा

29.74

एकस्मिन्नालये स्याच्चेत्सन्निपातस्तु कर्मणाम् ।
आचार्यं संप्रणम्यैव तत्पुत्राद्यैर्विधानतः

29.75

कारयेत्तदलाभेतु कारयेत्तन्त्रतो गुरुः ।
पूर्वं तु योगमार्गेण प्रतिष्ठाप्यार्चिते पुनः

29.76

देवीभ्यां सह पश्चात्तु कारयेत् स्थापनं यदि ।
आभिचारिकमेव स्याद्राजराष्ट्रविनाशकृत्

29.77

ध्रुवकौतुक संयुक्ते पूज्यमाने पुरा ततः ।
विमानध्रुवयोर्नाशे ब्रह्मस्थाने ध्रुवार्चनम्,

29.78

कौतुकं चोत्सवस्थाने स्थापयेदिति के चन ।
स्थानके चासनं कुर्याच्छयनं वापि चेच्छया

29.79

असनेशयनं कुर्यात्थ्सानकं न तु कारयेत् ।
शयने नासनं चैव स्थानकं कारयेद्विधिः

29.80

कौतुकं स्थितमासीन मौत्सवं कारयेत्तथा ।
असीनं कौतुकं कुर्यात्थ्सितमौत्सवमेव वा

29.81

स्नपनं बलिबेरं च स्थितं सर्वत्र कारयेत् ।
अवतारगणस्यैव मूर्तीनां पञ्चकस्य च

29.82

अन्योन्यसंकरेणैव स्थापने कौतुकस्य च ।
महत्तरो भवेद्दो, स्तद्दोषशमवाय वै

29.83

हुत्वा तु महतीं शान्तिं यथास्थाने तु स्थापयेत् ।
अथ वक्ष्ये विशेषेण शान्तिपञ्चककल्पनम्

29.84

नराणां पापबाहुल्यादपराधविशेषतः ।
देवास्सृजन्त्यद्भुतानि तेषु दृष्टेषु सत्वरम्

29.85

कुर्याच्छान्तिं यथोक्तान्तु विपरीते त्वनर्थकृत् ।
कर्त्राराधकयोश्चैव राज्ञो राष्ट्रस्य वास्तुवः

29.86

संक्षोभो जायते सद्यो विनाशो भवति ध्रुवम् ।
द्वादशाहान्तरे तस्माच्छान्तिं कुर्याद्विधानतः

29.87

अतीते द्वादशाहेतु महाशान्तिपुरस्सरम् ।
संपूज्य वैष्णवान् शक्त्यादत्वा वै भूरिदक्षिणाम्

29.88

आरभेदुत्तरं कर्म मासे ऽतीते विशेषतः ।
सप्ताहं तु महाशान्तिं हुत्वा विप्रशतं तथा

29.89

भोजयित्वा च देवेशमनुमान्य तु कारयेत् ।
षण्मासे समतीते तु रमते तत्र नोहरिः

29.90

तस्मात्सर्वप्रयत्नेन कुर्याच्छान्तिं यथोदिताम् ।
भौमान्तरिक्षदिव्याख्यभेदात्त्रिविधमद्भुतम्

29.91

ग्रहयुद्धश्च भेदश्च विकारो ग्रहमण्डले ।
सर्वग्रासोपरागश्च दुर्भिक्षश्चाक्षभेदनम्

29.92

एवमादीनि दिव्यानि त्वद्भुतानि प्रचक्षते ।
आन्तरिक्षाणि चार्केन्द्वोः परिवेषो निरन्तरः

29.93

वर्णान्तरेण बाहुल्यात्परिवेषस्तथाविधः ।
रात्राविन्द्रधमर्देवसद्म चाकाशमण्डले

29.94

अशन्युल्कादिपातश्च राहुपुच्छादिदर्शनम् ।
नक्षत्रपतनं केतोर्धूमस्येन्द्रस्य दर्शनम्

29.95

गन्धर्वनगरस्यापि दर्शनं पतनं तु वा ।
प्रतिसूर्याब्जनक्षत्रदर्शनं संप्रचक्षते

29.96

भौमान्यनेकथोक्तानि चरस्थिरविभेदतः ।
देशकालस्वभावादिविरुद्धं प्रसवादिकम्

29.97

पृषदंशकसर्पाश्वयोनिजानां विशेषतः ।
गोनागमहिषाद्येषु तिर्यक्षु जननं तथा

29.98

कृमिकीटपतङ्गेषु विष्किरेष्वण्डजादिषु ।
विवर्णाकारवासादिराश्रयादिस्तथालये

29.99

रक्तस्त्रीदर्शनादीनि चाद्भुतानि चरेषु तु ।
दिव्यानि चान्तरिक्षाणि तेषामत्रोत्तमोत्तमम्

29.100

नाराणि चोत्तमानि स्युर्माहिषाद्यानि मध्यमम् ।
सरीसृपादिषु भवान्यथमानि वदन्तिहि

29.101

रोदनं हसनं जल्पो ज्वलनं परिवर्तनम् ।
स्वेदश्च रुधिरस्रावः कृमिकीनादिसंभवः

29.102

अकालस्फोटनं धूमश्चाङ्गकंपनमेव च ।
स्वापनास्वादनेचैव तृणवल्मीक संभवः

29.103

प्रतिमायां भवेच्चेत्तु रक्तस्त्रीदर्शनं तथा ।
पाषण्डप्रतिलोमान्त्यजातिभिः पतितैस्थथा

29.104

सृगालादिभिरस्पृश्यैस्स्पर्शने च प्रवेशने ।
स्थूणाविरोहणे चैव चलने परिवर्तने

29.105

तथापसर्पणे चैव कवाटशयनासने ।
भित्त्यायुधांबरे तद्वदग्निहोत्राद्युपस्करे

29.106

विमाने च विकारश्च मक्षिकावृक्षपातने ।
प्रवर्तने चोपसर्पे पर्णपुष्पफलेषु च

29.107

शाखादौ विपरीतस्य दर्शनं च विशेषतः ।
रक्तस्रावो जलस्रावश्चाद्भुतानि स्थिरेषु तु

29.108

तेषु गर्भकृहे चैव पीठे चैव भवानि तु ।
राज्ञोराष्ट्रस्य विप्राणां नाशकानि विशेषतः

29.109

कर्त्राराधकयोर्नाश इति शातातपो ऽब्रवीत् ।
प्रासादजानि राज्ञां स्युः प्रासादे ऽपि विशेषतः

29.110

अधिष्ठाने च पादे च प्रस्तरे च गले ऽपि च ।
शिखरे च भवानि स्युःक्षत्रियाणां क्रमेण तु

29.111

अभिषेकस्य योग्यस्य युवराजस्य चैव हि ।
अभिषिक्तस्य सम्राजश्चात्याहितकराणि तु

29.112

प्रथमावरणे वैश्यजातीनां मन्त्रिणां तथा ।
पुरोहितस्य तन्मण्डलाधिपानां महद्भयम्

29.113

शूद्रजातिविपद्धेत्द्वितीयावरणादिषु ।
सस्यनाशो गजाश्वादिपशुनाशस्च जायते

29.114

पुरोधसश्चाग्निकुण्डे ब्रह्मस्थाने द्विजन्मनाम् ।
रुद्रालये तु सर्वेषां नृपस्य तु गुहालये

29.115

सेनेशानां विपत्तिः स्याद्वक्रतुण्डालये तथा ।
श्षालये राजपत्नीनां दुर्गास्थाने ऽन्ययोषिताम्

29.116

मातृस्थाने ऽन्त्यजातीनामोषधीनां कुबेरके ।
नृपवाहनशस्त्रोपजीविनां भास्करालये

29.117

अन्यदेवालये तत्तद्भोक्तानामपि लक्षयेत् ।
आस्थानमण्डपसङ्गमण्डबप्राङ्गणेषु च

29.118

महानसे नृपावासे क्रीडास्थाने विशेषतः ।
आचार्ययजमानादिपदार्थिनिलयेषु च

29.119

चैत्यवृक्षादिषूद्भूता रक्तस्त्रीदर्शनादयः ।
वल्मीकाद्याश्च फलदास्तत्तद्दिश्युक्तमार्गतः

29.120

भौमेषु देवबेरार्चापीठगर्भगृहार्ते ।
जातादोषान्तु संप्रोक्ता उत्तमोत्तमसंज्ञिताः

29.121

उत्तमास्तुपुनर्जाताः प्राकारेमुखमण्डपे ।
मध्यमाः प्रथमावरणे शेषेषूक्तास्तथाधमाः

29.122

तथा राजाङ्गणे चोत्तमोत्तमाः परितस्ततः ।
अङ्कणेषूत्तमा अन्तर्वास्तुके मध्यमास्स्मृताः

29.123

अधमा वास्तुनो बाह्ये तारतम्यमिति स्मृतम् ।
दिव्यान्तरिक्षयोर्नास्ति चिकित्सा शान्तिरिष्यते

29.124

भौमेषु तु चरेष्वत्र निमित्तं च निमित्तिनम् ।
देशान्तरे वासयित्वा शान्तिन्तत्र समाचरेत्

29.125

स्थिरेषु प्रतिमानां तु रोदने हसने तथा ।
ज्वलने च तथा देवं संस्थाप्य तरुणालये

29.126

तद्बेरस्थां समारोप्य शक्तिं तत्र विधानतः ।
शान्तिं कृत्वा पुनः कुर्यात्थ्सापनं चार्चनं क्रमात्

29.127

परिवृत्तौ पुनस्थ्साप्य कुर्याच्छान्त्यादि पूर्ववत् ।
स्वेदे च रुधिरस्रावे सर्वं रोदनवच्चरेत्

29.128

कृमिकीटपतङ्गानां कृणादीनामथोद्भवे ।
आरोप्य पूर्ववच्छक्तिं पुनस्संधाय युक्तितः

29.129

शान्त्यादीनाचरेदेवमकालस्फोटनादिके ।
बेरार्चापीठके तद्वदालयाभ्यन्तरेपे च

29.130

वल्मीकाद्युद्भवे देवं संस्थाप्य तरुणालये ।
यावद्दोषं खनित्वैव गव्यैरभ्युक्ष्य पञ्चभिः

29.131

संशोध्य सर्वं संधाय पुनस्थ्सापन माचरेत् ।
प्रासादबाह्ये चोत्पन्ने विवरे विशदीकृते

29.132

पेषयित्वा मरीच्यादिजलेनापूर्य चाश्मना ।
आलिप्य शर्करां कुर्याच् छान्तिं दिव्यप्रचोदिताम्

29.133

पुनरप्युदिते कुर्यादेवमेव तुयुक्तितः ।
मक्षिकादर्शने तत्त्यद्व्यपोह्यत्वविलंबितम्

29.134

शोधयित्वा ततश्शान्तिमारभेत विचक्षणः ।
अस्पृश्यस्पक्शने तद्वत्कृत्वा शान्तिं समाचरेत्

29.135

स्थूणाविरोहणादौ च पुनस्संधाय चाचरेत् ।
हठाद्वृक्षाधिपतिने शान्ति स्तत्त्यागपूर्विका

29.136

राजाङ्गणे समुत्पन्ने राजानं सबलं पुनः ।
वेश्मान्तरं वासयित्वा शान्तिं कृत्वा यथोचिताम्

29.137

अभिषिच्य पुनर्युक्तेदिने राष्ट्रं प्रवेशयेत् ।
अथोत्तमोत्तमस्योत्तमस्य स्यान्मध्यमस्य च

29.138

अधमस्यापि चास्पृश्यस्पर्शनस्य यथाक्रमम् ।
क्रमेणाद्भुतशान्तिस्तु प्रभूता महती तथा

29.139

शान्तिश्शुद्धिरिति प्राज्ञैः पञ्चधा शान्तिरुच्यते ।
आलयाभिमुखे तद्वदैशान्यां चोत्तरे ऽथ वा

29.140

पर्वताग्रे तटाकस्य तीरे वा मण्डपं प्रपाम् ।
कूटं वा षोडशस्तंभसंयुक्तां सुमनोहरम्

29.141

चतुर्हस्तप्रमाणान्तस्त्संभान्तरसमायुताम् ।
तानोन्नताचलायुक्तां? कृत्वा मध्ये विधानतः

29.142

कुण्डं श्रामणकोक्तं तु कृत्वाधो द्वादशाङ्गुलम् ।
खनित्वैव चत् प्राच्यां द्विहस्तायत विस्तृतम्

29.143

हस्तमात्रसमुत्सेधं कृत्वा स्थण्डिलमुत्तमम् ।
प्रागादिषु चतुर्धिक्षु क्रमेणाहवनीयकम्

29.144

अन्वाहार्यं चावसथ्यं गार्हपत्यं च कारयेत् ।
अग्नेयादिषु कोणेषु कुण्डान्यौपासनानि च

29.145

कृत्वाद्वारेषु विधिना तोरणादि प्रकल्पयेत् ।
पूर्मकंभैरङ्कुरैश्च कदलीभिर्ध्वजैरपि

29.146

स्तंभ वेष्टनकाद्यैश्च दर्भमालाभिरेव च ।
अलङ्कृत्य वितानाद्यैर्यथाविभवस्तरम्

29.147

स्थण्डिले धान्यराशिं तु कृत्वा तस्य च मध्यमे ।
पद्ममष्टदलं कृत्वा तण्डुलैस्तस्य मध्यमे

29.148

सौवर्णं राजतं ताम्रं कृण्मयं वा स्वशक्तितः ।
द्वात्रिंशत्प्रस्थसंपूर्णं कंभमादाय शास्त्रवत्

29.149

तन्तुना परिष्ट्यैव यवान्तरमनन्तम् ।
वस्त्रयुग्मेन संवेष्ट्य भूषणैश्च विभूष्य च

29.150

सौवर्ण मङ्गलान्यष्टौ तथा पञ्चायुधानि च ।
वर्णचिह्नानि तादृंशि चाहीनान्यङ्गुलादपि

29.151

रत्नानि हेम रजतं ताम्रं कांस्यं तथा त्रपु ।
सीसायस्तीक्ष्णुकान्तानि ग्रहरूपाणि चैव हि

29.152

निक्षिप्यापूर्य तोयेव शुद्धेन तु विधानतः ।
कर्पूरचन्दनोशीरलवङ्गैलादिकानपि

29.153

गन्धद्रव्याणि चान्यानि न्यस्य चूतादिपल्लवान् ।
तन्मुखं तु पिधानेव पिदध्यात्सदृशेनवै

29.154

आचार्यमृत्विजश्चापि वृत्वा शास्त्रविधानतः ।
नववस्त्रोत्तरीयाद्यैः पञ्चाङ्गार्पितभूषणैः

29.155

अलङ्कृत्याग्निकुण्डेषु हुत्वाघारं यथोदितम् ।
मध्ये सूर्यं तथेन्द्रादि भार्गवाङ्गारकौ तथा

29.156

मन्दं गुरुं पावकादि चन्द्रराहुध्वजान् बुधम् ।
प्रदक्षिणवशेनैव ध्यात्वावाङ्यार्ऽचयेत् ततः

29.157

अष्टाक्षरेणायुतं वा सहस्रं चाष्टसंयुतम् ।
अभिमृश्य विधानेन ग्रहयज्ञोदितेन वै

29.158

हुनेच्च तत्तद्दैवत्यं समिच्चरुघृतैः क्रमात् ।
हुत्वाष्टोत्तरसाहस्रं ततो वैखानसानले

29.159

घृताप्लुतैर्बिल्वदलैरष्टोत्तर सहस्रकम् ।
हुनेदष्टाक्षरं नित्यं तथा बिल्वसमिद्घेतैः

29.160

दूर्वापूपव्रीहितिलचरुलाजाब्जसक्तुभिः ।
वैष्णव्याचैव गायत्षा पूर्ववज्जुहुयाद्गुरुः

29.161

घृतेनाष्टाक्षरेणैव सहस्रं चाष्टसंयुतम् ।
हुत्वान्ते तु घृतेनैव वैष्णवं विष्णुसूक्तकम्

29.162

जुहुयात्पौरुषं सूक्तं नृत्तैर्गेयैश्च घोषयेत् ।
यथादिशं चतुर्वेदान्नित्यमध्यापयेत्क्रमात्

29.163

कल्पसूत्रमथौखेयं प्रणीतं गुरुणा पुरा ।
स्वाध्यायो यत्र यत्रोक्तस्तत्राध्येयं विधानतः

29.164

ऋत्विग्भ्यो दक्षिणां दद्यादेवं सप्ताहमाचरेत् ।
यदि देवालये दोषः कुंभपार्श्वेथ स्थण्डिले

29.165

देवं तं स्थाप्य चाभ्यर्छ्य निवेद्य च महाहविः ।
देवस्याभिमुखे हुत्वा होममन्ते यथाविधि

29.166

नवाहं वाथ स्ताहम् उत्सवं कारयेद्विधिः ।
दिव्यान्तरिक्षयोः कुंभजलेना प्लावयेन्नृपम्

29.167

भौमेषु तत्थ्सलं प्राक्ष्य शिष्टतोयेन वै नृपम् ।
तत्पत्नीं चाभिषिञ्चेच्च गुरुं संपूज्य पार्थिवः

29.168

सुवर्णपशुभूम्यादीन् दद्यादृत्विग्भ्य एव च ।
दक्षिणां बहुलां दद्याज्जीवो यज्ञस्य दक्षिणा

29.169

यदि राजगृहे दोषः कृत्वा मण्डपमन्तिके ।
पूर्ववद्ग्रहयज्ञं च होमं श्रामणके ऽनले

29.170

कुंभस्य साधनं कृत्वा सप्ताहान्ते प्रभुं तथा ।
स्नापयेत्कुंभतोयेन प्रतिष्ठान्तक्रमेण वै

29.171

दक्षिणां गुरुपूर्वेभ्यो दत्वा कृत्वांकुरार्ऽपणम् ।
शुभे ऽनुकूले नक्षत्रे कृत्वा चैवाभिषेचनम्

29.172

प्रविशेत्पूर्वगेहं तु धर्मसिद्ध्यैगुरूदितः ।
एष एव विधिः प्रोक्तो गृहिणामपि सम्मतः

29.173

राज्ञां परार्थवृत्तित्वात्सो ऽत्र तु प्रकृतीकृतः ।
सर्वग्रासोपरागादिदिव्याद्भुतशमायवै

29.174

यथाशक्ति ब्राह्मणेभ्यस्स्वर्णं भूमिं पशूनपि ।
दद्यात्तथा विशेषेण दक्षिणां भूरिसम्मिताम्

29.175

अनावृष्टिनिवृत्त्यर्थं कुंभं संगृह्य पूर्ववत् ।
सर्वतीर्थं समावाह्य समभ्यर्च्याग्रतो हरेः

29.176

ध्यान्यपीठे तु सौवर्णं पद्ममष्टदलैर्युतम् ।
हेमपात्रे तु सन्न्यस्य देवमावाह्य तत्र च

29.177

अभ्यर्च्य तस्य चोर्ध्वेतु पीठे कुंभं निधाय च ।
कुंभमूले तु सुषिरं सूचीमात्रं विधाय च

29.178

तद्धारया त्वविच्छिन्नरूपया सेचयेद्धरिम् ।
समिद्भिर्वैतसीभिस्तु पालाशीभिरथापि वा

29.179

अष्ठोत्तरसहस्त्रं तु जुहुयात्पञ्जवारुणम् ।
अग्नौ श्रामणके पश्चाद्दिशाहोमेषु पूर्ववत्

29.180

अष्टात्तरसहस्रं तु प्रत्येकं पञ्चवारुणम् ।
समिद्भिर्जुहुयाद्विद्वान् वैतसीभिर्यधाविथि

29.181

समिद्भिः पुनराज्येन वैतसीभिः पृथग्घुनेत् ।
अष्टाधिकसहस्रं तु "इन्द्रं प्रणयन्तऽऽ मित्यपि

29.182

श्रामणाग्निं विधायैकं दक्षिणे तस्य वज्रिणम् ।
आवाह्य तु समभ्यर्च्य "शचीसहाऽऽयेति होमयेत्

29.183

देवं विशेषतो ऽभ्यर्च्य कारयेत्स्नपनादिकम् ।
एवं ज्ञात्वा विधानेन तत्तत्कर्मसु गौरवम्

29.184

त्षहादि त्रिंशद्घस्रान्तं श्रामणाग्नौ यथाविथि ।
दिने दिने पूरयित्वा कुंभं तेनैव सेचयेत्

29.185

सर्वान्ते देवमास्नाप्य समभ्यर्च्य हविर्ददेत् ।
कर्मान्ते स्यान्महावृष्टिस्तस्माद्यत्नेन कारयेत्

29.186

अथ वा वर्ष कामी वा मोक्षार्थी पशुकामनः ।
सर्वोपद्रवशान्त्यर्थी विजयार्थी विशेषतः

29.187

स्नपनालयमासाद्य अलङ्कृत्य च पूर्ववत् ।
कर्मगौरवमाज्ञाय संभृत्य बहुधा पयः

29.188

पूजयेत्प्रथमं यत्नादाचार्यं सहि धारकः ।
आचार्यस्सुप्रसन्नात्मा श्वभ्रात्प्राच्यां तु तण्डुलैः

29.189

कृत्वा पङ्क्तिं दक्षिणोत्तरायतां विपुलान्तराम् ।
श्वभ्राद्दक्षिणतः कृत्वा कुण्डं श्रामणकस्य तु

29.190

अग्निमाधाय कुंभां स्तु नव संवेष्ट्य तन्तुना ।
अद्भिः प्रक्षाल्य चोत्पूय कुशकूर्चेन चात्वरः

29.191

क्षीरेण पूरयित्वैव चोत्बूतेन क्रमेण वै ।
पङ्क्तिं निधायापिधानैरपिधायोपरि क्रमात्

29.192

वस्त्रेणाच्छादयेच्छ्वभ्रंपूजान्तेभ्यर्च्य वै हरिम् ।
स्वस्तिसूक्तेन चानम्य संस्थाप्य श्वभ्रमध्यमे

29.193

अर्चनोक्तविधानेन सर्वं पूर्वनदायरेत् ।
तन्तुना वेष्टिते क्षीरं कृहीत्वाकरके पूनः

29.194

विष्णुसूक्तेन "चेषेऽऽत्वेत्याद्यैर्मन्त्रैः क्रमाद्गुरुः ।
तया संस्नापयेद्देनमुक्तयो क्षीरधारया

29.195

तथैव परिषिच्याग्निं मन्त्रै"र्विष्णोर्नुऽऽकादिभिः ।
"अतोदेवादिऽऽभिस्तद्वदष्टार्ण मनुना तथा

29.196

जुहुयाद्विष्णुगायत्षा अष्टाधिकसहस्रकम् ।
अथ वा स्नपनं यावत्तावदुद्वर्त्य मन्त्रतः

29.197

हारिद्रेन तु चूर्णेन संशोध्याम्लादिभिस्ततः ।
गन्धोदेन सुसंस्नाप्य प्लोतेन विमृजेत्ततः

29.198

वस्त्रादिभिरलङ्कृत्य समभ्यर्च्य विधानतः ।
पायसादि हविर्दद्याद्दप्यादाचार्यदक्षिणाम्

29.199

अनेन सर्वान् कामांश्च लभेताविशयं नरः ।
ध्रुवबेरार्चने चेत्तु संस्नाप्य प्रमुखे घटम्

29.200

तस्मादानीय तत्रैव स्नापयेदुक्तगौरवात् ।
सप्तपञ्चत्षहान्यत्र क्षीरस्नानं प्रकल्पयेत्

29.201

एवं घृताभिषेकं च कारयेत्सदृशं फलम् ।
इमामद्भुताशान्तिन्तु काश्यपाद्याः प्रचक्षते

29.202

अथ प्रभूतशान्तिं तु प्रवक्ष्यामि तपोधनाः ।
पूर्ववन्मण्टपादीनि कारयित्वा यथाविधि

29.203

विशाहोमं चकृत्वैव श्रामणाग्नौ यथोदितम् ।
कुंभं संसाध्य च प्राग्वत्सप्ताहान्ते विशेषतः

29.204

अष्टोत्तरशतं वाष्टचत्वारिंशदथाथ वा ।
संगृह्य कलशानान्तु समभ्यर्च्यऽभिषेच्य च

29.205

देवं विशेषतो ऽभ्यर्च्य हविर्दद्यादयं विधिः ।
महाशान्तिक्रमं वक्ष्ये विना कुंभस्य साधनम्

29.206

अग्नौ श्रामणके बिल्वपत्रैराज्याप्लुतैःक्रमात् ।
अष्टाधिकसहस्रं वै हुनेदष्टाक्षरेण तु

29.207

आज्येन वैष्णवं विष्णुसूक्तं पौरुषमेव च ।
हुत्वा त्षहान्ते संस्नाप्य शुद्धस्नपनवर्त्मना

29.208

समभ्यर्च्य हविर्दद्यान्महाशान्तिरियं भवेत् ।
औपासनाग्नावेकाहं हुत्वा शान्तिं विधानतः

29.209

ब्राह्मणान् भोजयित्वैव दद्यादाचार्यदक्षिणाम् ।
अथ शुद्धिविधिं वक्ष्ये वास्तुहोमं हुनेत्ततः

29.210

बिल्वपत्रादिभिर्हुत्वा पृथगष्टोत्तरं शतम् ।
पुण्याहान्ते गुरुं पूज्य भोजयेद्ब्राह्मणानपि

29.211

सर्वत्रतु विकल्पेन घटसंस्कारमाचरेत् ।
अथातस्सर्वशान्तिस्स्यादपमृत्युभये तथा

29.212

ग्रहकोपे महाव्याधौ परचक्रभये तथा ।
अर्थबन्धुविनाशे च दुर्भिक्षे च पराजये

29.213

अभिचारभये चैव तापत्रयनिपीडने ।
विरुद्धे ऽचात्मनः प्राप्ते सर्वशान्तिं समाचरेत्

29.214

सप्ताहं वा नवाहं वा द्वादशार्णेन वै पृथक् ।
अष्टोत्तर सहस्रं तु जुहुयाद्विधिना क्रमात्

मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc