भाषा

ENहिગુ
ग्रंथ पाठ

भृगुसंहिता · अध्याय 3

3.1

इतिश्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वितीयो ऽध्यायः
अथ तृतीयो ऽध्यायः
अथ तृतीयो ऽध्यायः
विमानभेदाः
अथविन्यासरूपाणि प्रवक्षन्तेयथाक्रमम् ।
श्रीवत्संप्रथमंप्रोक्तं नन्द्यावर्तन्द्वितीयकम्

3.2

तृतीयंस्वस्तिकंविन्द्याच्चतुर्थंभद्रकंस्मृतम् ।
दण्डकंपञ्चमन्त्वाहुर् वेदिकंषष्ठमुच्यते

3.3

कुंभकंसप्तमंविन्द्या दष्टमंपद्मकन्तथा ।
नवमंस्याद्रथपदं दशमन्तुप्रकीर्णकम्

3.4

एतेषामाकृतिंवक्ष्ये यथावदनुपूर्वशः ।
न्यत्रदण्डकात्सर्वं बहिर्वीधीसमन्वितम्

3.5

तस्यचास्तगन्तैश्चिह्नैश्श्रीवत्साद्यंविधीयते ।
एकप्राचीनवीधीक मुदीचीनान्यवीथिकम्

3.6

श्रीवत्समितिविज्ञेयं सर्वविद्यासमंमतम् ।
मध्येकोणं चतुर्द्वारं प्रागीशादिप्रदक्षिणम्

3.7

तन्निगन्तोजवीथीकं नन्द्यावर्तमितिस्मृतम् ।
स्वस्तिकन्त्वोजवीथ्यन्तं भद्रंमध्यप्रतोलिकम्

3.8

एकप्राचीनकन्दण्डं चतुरश्रन्तुवेदिकम् ।
वृत्तङ्कुंभकमुद्दिष्टं पद्मकंस्याद्द्विवेदिकम्

3.9

ब्रह्मकोशाष्टकद्वारवीथीरथपदाकृतिः ।
प्रागुदक्प्रवणञ्चैव प्रकीर्णकमुदाहृतम्

3.10

द्विद्वारंवाचतुद्वान्रं मनस्तोयुक्तितोभवेत् ।
अयुक्तद्वारदेवस्य भजनंनाभिधीयते

3.11

दण्डकस्तेनमानेन योनिग्रहणमुच्यते ।
शरीरमङ्गंप्रत्यङ्गं ज्ञात्वायोनिंप्रकल्पयेत्

3.12

ग्रामंशरीरमङ्गंस्स्याद् देवद्विजपरिग्रहम् ।
प्रत्यङ्गमङ्गंसंवृत्तं विमानभवनादिकम्

3.13

दण्डेनपूर्वयोर्वादं हस्तेनान्यत्रधीयते ।
दण्डेविस्तारमायाम मेकैकङ्गुणयेत्त्रिभिः

3.14

एकैकंषष्टिभिहिन्त्वा शिष्टंयोनिंसमादिशेत् ।
हस्तेनद्वयसंसर्गे त्रिगुणंवसुभिहन्रेत्

3.15

शेषंयोनिंविजानियाद्ध्वजधूमादिकङ्क्रमात् ।
सर्वत्रकल्पयेद्योनिं तयोर्वर्गफलेनवा

3.16

योनेर्महादिशाश्रेष्ठा दिविसप्तत्रिगहिन्ता ।
प्रवीणञ्चतुरश्रंस्याच् चेषाणामायतंविदुः

3.17

अष्टषट्चतुरंशास्स्यु रितरेषांयथाक्रमम् ।
एवमायामयोगस्तु प्रत्यङ्गस्यैवकल्पयेत्

3.18

अङ्गेद्विगुणमायामं पादन्यूनमधाधिकम् ।
अर्धंनवाहयेन्न्यून मधिकन्तुविधीयते

3.19

आत्मावास्तुशरीरस्य विस्तारादधिकंविदुः ।
पादायामशिखावापि द्विगुणंवाविशेषतः

3.20

समंवासर्वतःकुर्याच् चरीरन्दण्डकादृते ।
वर्धयेदधिकायामं दण्डषोडशकेनवा

3.21

दण्डे अष्टगुणङ्कुर्या दायामंयुक्तितो ऽथवा ।
अङ्गमागमविस्तारो दण्डभेदो ऽपियोज्यते

3.22

अन्यत्रदण्डनेछिन्द्याच्चरेषुतुविशेषतः ।
पातंविस्तारसूत्रेषु विदुस्सूत्रद्वये ऽपिवा

3.23

कण्ठसूत्रद्वयेवापि प्रत्यङ्गेनैव कारयेत् ।
विधिभेदन्तुकर्तव्यं ब्रह्मभागेविशेषतः

3.24

एवङ्क्रमेण शास्त्रज्ञश्शरीरं संप्रकल्पयेत्

3.25

विष्णुस्थापनम्
सहस्रभूसुरादूर्ध्वे ब्रह्मांशेवायुदेशके ।
पञ्चमूर्तिविधानेन स्थापयित्वा जनार्धनम्

3.26

वैखानसै महाभागैर् वैदिकार्चनतत्परैः ।
वेदान्तवेदिभिर्विप्रैरञ्चयेत् पुरुषोत्तमम्

3.27

शङ्करादि स्थापनम् ईशान ईश्वरञ्चैव सोमेशानावथापिवा ।
पश्चिमेकेशवस्थान मैशान्यांशङ्करालयम्

3.28

अनुकल्पंविकल्पञ्च कल्पञ्चैवत्रिधाभवेत् ।
भूपरीक्षादियत्कर्म अनुकल्पमितिस्मृतम्

3.29

देवादीनांमुनीनाञ्च कल्पयेत्तुविकल्पकम् ।
गभेन्मृदालयेयत्र प्रतिष्ठायान्तुकल्पकम्

3.30

एवन्देशंविनिश्चित्य मूलस्थानञ्चनिर्दिशेत् ।
निर्मिते ऽत्रविमानस्यचो त्सेधार्थंसमन्तुवा

3.31

जलास्तंवाशिलान्तं वाखानयेदुचितंसुधीः ।
विस्तारायामसीमान्ताद्बाह्येखात्वादृढायच

3.32

एकहस्तन्द्विहस्तंवा त्रिहस्तंवाधिकङ्क्रमात् ।
वालुकैर्विश्वतःपूर्य दृढीकरणमादिशेत्

3.33

बालालयन्तुशक्तानामशक्तानांविनाभवेत् ।
ध्रुवार्चायाःप्रतिष्ठाचे द्बालागारंनकल्पयेत्

मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc