भृगुसंहिता · अध्याय 2
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे प्रथमो ऽध्यायः.
अथ द्वितीयो ऽध्यायः
अथद्वितीयो ऽध्यायः.
शङ्कुस्थापनम्
अतःपरंप्रवक्ष्यामि शङ्कुस्थापनमुत्तमम् ।
मेषन्तथैववृषभङ्गते सूर्येदिनेतथा
कृत्वासमतलांभूमिं गोमयेनतुलेवयेत् ।
तद्बहिभ्रामयेत्सू त्रद्वयन्तेनै वमानतः
प्राचीसाधनम्
पूर्वाह्णेचापराह्णेच शङ्कुछायान्तुलाञ्छयेत् ।
ततस्सूत्रत्रयंवाथपाति येच्छङ्कुमथ्यमे
भ्रामयेदधिकेर्ऽषन्तु न्यूनेतावद्विवर्धयेत् ।
प्राचीन्तत्सूत्रमानेन मध्यमेनै वकल्बयेत्
उदक्सूत्रंभवेत्तत्र कृत्वातुचतुरश्रकम् ।
पञ्चगव्येनसंप्रोक्ष्य पुण्याहमपिवाचयेत्
वास्तुपद देवतापूजनम्
एकाशीतिपदान्कृत्वावास्तु देवान्प्रपूजयेत् ।
ईशानादि समभ्यर्च्य द्वात्रिंशत्बदभागिनः
ईशानञ्चैवपर्जन्यं जयस्तञ्चमहेन्द्रकम् ।
आदित्यंसत्यकंभृशमन्त रिक्षञ्चपूर्वगान्
अग्निःपूषाचवितथ ग्रहाक्षतयमास्तथा ।
गन्थर्वोभृङ्गराजर्षी दक्षिणेपददेवताः
पश्चिमेनिर् ऋतिश्चैव दौवारिकस्तथैवच ।
सुग्रीवःपुष्पदन्तश्च वरुणश्चासुरस्तथा
शोषणश्चैवरागश्चते चाष्टौकधितास्सुराः ।
उत्तरेजवनोनाग मुख्यौभल्लाट एवच
सोमोर्ऽगलो ऽदितिश्चैव सूरिदेवस्तथैवच ।
ब्रह्मानवपदंभुङ्कै वास्तुमध्येविशेषतः
अर्यमादण्ड भृच्चैवपाशभृद्धनदस्तथा ।
ब्रह्मणश्चचतुर्दिक्षु स्थिताष्षट्पदभागिनः
अपश्चैवापवत्सश्च सवितासावित्र एवच ।
इन्द्रश्चैवतथेन्द्राजो रुद्रोरुद्राज एवच
एतेद्विपदभोक्तारो विदिक्षष्टौस्थितास्सुराः ।
चरकीदेवतारिश्च पूतनापापराक्षसी
ईशानादिषुकोणेषु बाह्यस्थाःपदवर्जिताः ।
एवं विन्यस्यदेवांन्तु वास्तु देवं प्रकल्पयेत्
वास्तुपुरुषलक्षणम्-पूजा
वास्तुनश्शिर ईशानेपादौ नैरृतिकेचरेत् ।
हस्तौसरित्पतौज्ञेयावग्नौ बाहुरुदाहृतः
अपिकण्ठैतिप्रोक्तं हृदयञ्चापवत्सके ।
नाभिर्ब्रह्मणिसंख्याता कुक्षस्सवितृसंज्ञके
इन्द्रैन्द्राजके गुह्यमूरुमूलेविधानतः ।
पार्श्वन्तुदक्षिणं प्रोक्तंवाममेवं प्रकल्पयेत्
शेतेवास्तुभुवं प्राप्यवास्तुदेवस्त्वधोमुखः ।
पुण्याहंवाचयित्वातु प्रोक्षणैःप्रोक्षणञ्चरेत्
पुष्पैर्गन्धैस्तथाधूपैर्दी पैश्चापिप्रपूजयेत् ।
नमस्कारैश्चसंयुक्तैः प्रणवाद्यैस्स्वनामभिः
शल्यपरीक्षा पूजनान्तेस्पृशेत्कर्ता यमङ्गन्तन्निरीक्षयेत् ।
वास्तुदेहे ऽपितत्रैवशल्यं ब्रूयाद्यथार्थतः
अस्तिशल्यंशिरस्स्पर्शे तद्धस्तद्वयमानतः ।
कण्ठस्पर्शेगलेचैव हस्तमात्रेसमादिशेत्
उपस्पर्शात्त्रिभिर्हास्तै श्श्रुङ्खलाशल्यमादिशेत् ।
हस्तमात्रैकरस्पर्शात् खट्यापादंसमादिशेत्
बहुसंस्पर्शनात्कर्तु रङ्गारस्तुत्रिहस्ततः ।
गुल्भैसर्पादिभिर्दुष्टं वितस्तिद्वयमानतः
पादेकण्टकमित्युक्तं षड्वितस्तिप्रमाणतः ।
कनिष्ठाङ्गुष्ठयोस्स्पृर्शाद्धस्तन्तत्रसमाचरेत्
व्ययाधिकेचतुर्हास्ते जानुस्पर्शात्ततःपरम् ।
शल्यंविशोध्यभूमिन्तां तलङ्कृत्वासमानतः
पञ्चगव्येनसंप्रोक्ष्य वास्तुदेवान्प्रपूजयेत् ।
वास्तुदेवताबलिः
द्रोणन्द्रोणार्थकंवापितण्डुलान्पाचयेत्ततः
दधिगुडाज्यसंयुक्तं सर्वेषाञ्चबलिन्ददेत् ।
ब्रह्मदीनांनमोस्तंवा स्वाहास्तंवाबलिर्भवेत्
कृत्वातु बलिदानञ्च पुण्याहमपिवाचयेत्
मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0