भाषा

ENहिગુ
ग्रंथ पाठ

भृगुसंहिता · अध्याय 4

4.1

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे तृतीयो ऽध्यायः
अथ चतुर्थो ऽध्यायः.
अथचतुर्थो ऽध्यायः.
अद्येष्टका स्थापनम्.
अथातस्संप्रवक्ष्यामि वास्तुनःप्रथमेष्टकाम् ।
साधयित्वापूर्वरात्रौ चतस्रःप्रथमेष्टकाः

4.2

शिलायांमृण्मयेवाथ कुर्याल्लक्षणसंयुताः ।
शैलादोषविनिर्मुक्तास् सुपक्वा अथमृण्मयाः

4.3

विस्तारेणेष्टकाःप्रोक्ता षट्पञ्चचतुरङ्गुलाः ।
उत्तमादिक्रियादेव विस्तारद्विगुणायताः

4.4

विस्तारार्थङ्घनंप्रोक्त मिष्टकानांप्रमाणतः ।
आलयाभिमुखेचैव प्रपाङ्कृत्वाविचक्षणः

4.5

तन्मध्येवेदिकाङ्कृत्वा हस्तमात्रप्रमाणतः ।
विस्तारन्तत्समञ्चौन मुत्सेथन्तुतदर्धकम्

4.6

सभ्याग्निं विधिवत्कृत्वातु विधिनाघोरमाचरेत् ।
भूमियज्ञञ्चकृत्वातु कलशैस्सप्तभिःक्रमात्

4.7

संस्नाप्यनववस्त्रेण चाच्छाद्यशयनोपरि ।
कौतुकंबन्धयित्वातु शयनेशाययेत्ततः

4.8

हुत्वातुपौरुषंसूक्तं विष्णुसूक्तमतःपरम् ।
चतुर्वेदादिमन्त्रांश्च श्रीभूसूक्तेयजेत्क्रमात्

4.9

इष्टकावाशिलावाथ तन्नामाद्यक्षरंस्मरेत् ।
नृत्तैगेन्यैश्चवाद्यैश्चरात्रिशेषंनयेत्क्रमात्

4.10

प्रभातेपूजयेत्पूर्वमाचार्यंशिल्पिभिस्सह ।
आचार्योमन्त्रयोग्यस्तु शिल्पिभिःकर्मयोग्यकैः

4.11

द्वारस्यदक्षिणेपाशेन्व्स्थानमस्यप्रशस्यते ।
सुमुहूर्तेन्यसेद्विद्वानिष्टकांश्चतुरःक्रमात्

4.12

विन्यासेतुचतुर्दिक्षु चतुर्वेदादिमस्त्रतः ।
तेषांमध्येतदागर्ते पूरयेदुदकेनतु

4.13

तत्रैवनवरत्नानि विल्यसेदनुपूर्वशः ।
गभन्न्यासविधिः
अथवक्ष्येविशेषेण गभन्न्यासविधिक्रमम्

4.14

प्रासादोगभन्संयुक्तः कुरुतेसर्वसंपदम् ।
तस्मादादौप्रकर्तव्यः गभन्न्यासस्समृद्धिदः

4.15

त्रयःप्रासादमूलेस्यात् पूर्वन्तुप्रथमेष्टके ।
उपानोपरिमध्यंस्यात् प्रतेरुपरिचान्ततः

4.16

भूगतंशूद्रजातीना मुपानेनृपवैश्ययोः ।
प्रतेरुपरिविप्राणा मानुलोम्येनकारयेत्

4.17

सर्वेषांभूगतङ्कार्यं सर्वसिद्धिकरंशुभम् ।
ऐन्द्रपावकयोर्मध्ये प्राग्द्वारेषुप्रकल्पयेत्

4.18

द्वारस्यदक्षिणेकुर्यात्पश्चिमैपितधैवहि ।
कवाटार्गलयोगेवान्य स्तव्यङ्गभन्भायनम्

4.19

फेला
तथाताम्रमयीफेला स्फाटिकावाप्रशस्यते ।
पादविष्कंभविस्तारां फेलान्तत्त्वपदाञ्चितां

4.20

खण्डस्फुटितवजान्य्सा ........ ।
घनंविंशतिभागैकं तदर्धार्धांशमेववा

4.21

विस्तारस्यचतुभान्गं कोष्ठभित्त्युच्छ्रयंभवेत् ।
उत्तमन्तुसमोत्सेधं त्रिपादंमध्यमंस्मृतं

4.22

अथमञ्चार्धमुत्सेधं त्रिविधन्तत्प्रचक्षते ।
त्रिभागैकविधानंस्याद् द्विभागंभागिकंभवेत्

4.23

अन्तरेचांगुलायामं तदर्धंभिन्नत्तिकम् ।
संयोगार्धविहीनंस्याद् विधाने ऽभ्यन्तरेतथा

4.24

प्रक्षाल्यपञ्चगव्येन विशुद्धङ्गभन्भाजनम् ।
आलयात्प्रमुखेचैव मण्टपेसमलङ्कृते

4.25

गोमयेनोपलिप्यैव पुण्याहंवाचयेत्ततः ।
रक्तबीजानिधातूंश्च सन्न्यसेन्मस्त्रवित्तमः

4.26

वैष्णवंविष्णुसूक्तञ्च पौरुषंसूक्तमुच्चरन् ।
"विष्णुर्योनिऽमित्युक्त्वातु गभंन्त्रनिधापयेत्

मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc