भाषा

ENहिગુ
ग्रंथ पाठ

भृगुसंहिता · अध्याय 1

1.1

अथ प्रथमो ऽध्यायः
श्रीयैनमः
श्रीरामचन्द्रायनमः
श्रीमद्विखनसमहागुरवेनमः
श्रीमद्भ्योभृगुमरीच्यत्रिकश्यपेभ्योनमः
प्रकीर्णाधिकारः.
अथप्रथमो ऽध्यायः.
श्रौतस्मार्तादिकङ्कर्म निखिलंयेनसूत्रितम् ।
तस्मैसमस्तवेदार्थविदे विखनसेनमः ॥ भ्स्_1.मन्ग्1 ॥
श्रुतिस्मृतिनदीपूर्णं शास्त्रकल्लोलसंकुलम् ।
विष्णुभक्त्युदकंशुद्धं वन्देवैखानसार्णवम् ॥ भ्स्_1.मन्ग्2 ॥
ऋषिप्रश्योत्तरम्.
ऋषय ऊचुः-
ब्रह्मपुत्रमुनिश्रेष्ठ नमस्तेदेहिनांवर ।
त्वमेवसर्ववेत्तासित्वमेववदतांवरः

1.2

ततोज्ञातुंहिविष्णोर्वै भूपरीक्षादिषुक्रमम् ।
इच्छामस्त्वत्प्रसादेन दीनाश्शिष्यजनाःप्रभो

1.3

विस्तारज्ञोहिसर्वेषां विस्तराद्वक्तुमर्हसि ।
केनमार्गेणकैर्मन्त्रैःकं देवंपूजयन्नरः

1.4

कान्लोकान्समवाप्नोति तत्त्वमेतद्वदस्वनः ।
भृगुरुवाच-
प्रणम्यदेवदेवेशं चक्रपाणिंखड्गध्वजम्

1.5

विस्तारेणप्रवक्ष्यामि श्रुणुध्वंसुसमाहिताः ।
मुहूर्तविचारः
सर्वारंभेप्रशस्तंस्याद् आदित्येचोत्तरस्थते

1.6

अप्रशस्तमितिख्यात मयनेदक्षिणेतथा ।
पुष्यमासादिषण्मासा देवानान्तुदिवास्मृताः

1.7

यस्मिन्मासेकृतंसर्वं विवृद्ध्यर्थमितिस्मृतम् ।
रात्रिराषाडमासादि रयुक्तस्सर्वकर्मसु

1.8

प्रथमाचद्वितीयाच तृतीयापञ्चमीतथा ।
षष्ठीचसप्तमीचापि दशम्येकादशीतथा

1.9

त्रयोदशीचतिथयः पौर्णमासीशुभास्स्मताः ।
प्राजापत्याश्वयुक्चौम्य तिष्यपौष्णत्रिरुत्तराः

1.10

मैत्रादित्यमघास्वाती हस्ताश्चश्रवणंशुभाः ।
राशयश्चरवर्ज्यास् स्युरुभीतच्छोभनंस्थिरम्

1.11

गुरुभार्गवसौम्येन्दु वाराश्श्रेष्ठतमास्मृता ।
एषामंशश्चद्रेक्काणहोरादर्शनमिष्यते

1.12

एषामेवोदयंशस्तं तत्रसोमोदयंविना ।
क्रूरेचतुष्यनक्षत्रे व्याधिपीडांकरोतिहि

1.13

सूर्यसौरिश्चसौम्यश्चत्रिषडायस्थिताश्शुभाः ।
तधैवलग्नगाःकुर्युर् व्याधिशोकभयानितु.

1.14

अष्टमस्थाग्रहास्सर्वे कर्तुःकुर्वन्तिदुस्थितिम् ।
एकादशगतास्सर्वे क्षेमारोग्यकरास्मृताः

1.15

भयकृद्भार्गवःप्रोक्तोद्विसप्तदशमस्थितः ।
द्विसप्तपञ्चनवम स्थितोजीवस्सुशोभनः

1.16

राष्ट्रस्ययजमानस्य महत्सौख्यङ्करोतिहि ।
सूर्यवारेशुभोविष्णु हस्तपौष्णत्रिरुत्तराः

1.17

मन्दवारेशुभौप्रोक्ता ब्राह्मस्वात्यौचतत्तथा ।
वर्जयेद्बुधवारेण हस्तमाश्वयुजन्तथा

1.18

गुरुवारेण वर्ज्यौतु तथासौम्योत्तरा उभौ ।
श्रवणञ्चैवपुष्यञ्च शुक्रवारेणवर्जयेत्

1.19

उत्तराषाढानक्षत्रं सोमवारेतु शोभनम् ।
द्वितीयाबुधयुक्ताच षष्ठीजीवसमायुता

1.20

सोम एकावशीयुक्तः करोतिप्राणसंशयम् ।
पौष्णस्तुसप्तमीयुक्तो दहत्यग्निरिवप्रजाः

1.21

काणस्तूणान्धनक्षत्र गुरुविषीर्विवर्जयेत् ।
भूमिकंपेदिशान्दाहे दुर्दिनेचण्डमारुते

1.22

अशनिध्वनियोगेच निन्दितन्दिवसंस्मृतं ।
अयनेविषुवेचैव संत्याजङ्ग्रहणीतथा

1.23

षडशीतिमुघेवापि कृतंवास्तुविनश्यति ।
एवंपरीक्ष्यकर्तव्य मिच्छेच्चेच्छ्रेय आत्मनः ॥ भ्स्_1.22:1 ॥
कर्णादिप्रतिष्ठान्तं कर्मकुर्याद्विचक्षणः ।
अथभूमिंपरीक्ष्यैव पूर्वङ्कर्षणमारभेत्

1.24

भूपरीक्षा
श्वेतातुब्राह्मणीभूमी दक्तातु क्षत्रियातथा ।
पीतातुवैश्याकृष्णातु शूद्राभूमिरुदाहृता

1.25

मोक्षदाब्राह्मणीप्रोक्ता क्षत्रियाविजयप्रदा ।
वैश्यातुधनदाभूमि श्शूद्रापुत्रसमृद्धिदा

1.26

प्रतिलोमादिभिर्जुष्टां वल्मीकाढ्यञ्चवर्जयेत् ।
हस्तमात्रङ्खनित्वातु पूरयेत् तत्तुपांसुना

1.27

अधिकेपुष्कलाभूमिर् न्यूनेवर्ज्यासमेसमा ।
गुप्तन्त्रिरात्रेंऽकुरति ग्राह्यभूमिस्तुनान्यथा

1.28

पद्मङ्कुंभस्थतोयेन पूरितेतत्कृतावले ।
मुख्यंप्रदक्षिणावर्त मुदकंशास्तबुद्बुदः

1.29

सव्यावर्तन्तथानेष्ट मुदकंबहुबुद्बुदः ।
उत्तानपद्मकङ्ग्राह्यं नत्वधोमुखपद्मकम्

1.30

एवंपरीक्ष्यगृह्णीयात्पुण्याहमपिवाचयेत् ।
एवंपरीक्ष्यबहुधा कुर्यात्कर्षणमुत्तमम्

1.31

कर्षणम्
श्वेतौ वाकपिलौ वाथ नाङ्गङईनौवृषौतथा ।
अथवानान्यवर्णौ वा अरोगौबलशालिनौ

1.32

क्षीरवृक्षयुगंबद्ध्वा शमीवृक्षयुतन्तथा ।
असनङ्खदिरंवाथ हलङ्कृत्वासनेहकं

1.33

यन्त्रयित्वायुगेनाथ गोवालकृतरज्जुना ।
तस्यपश्चिमदेशेतु प्रपाङ्कृत्वाविधानतः

1.34

धान्यपीठानिकृत्वैव त्रिवेदिसहितङ्क्रमात् ।
पुर्वन्देवेशमभ्यर्च्य चक्रंपश्चात्समर्चयेत्

1.35

विष्वक्चेनञ्चगरुडं समभ्यर्च्यनिवेदयेत् ।
वास्तुयज्ञञ्चहुत्वातु पुण्याहमपिवाचयेत्

1.36

तोयधारांपुरस्कृत्य प्रादक्षिण्यवशेनतु ।
अचार्यो ऽहतवस्त्रेण चोत्तरीयाङ्गुलीयकै

1.37

अलङ्कृत्यविधानेन श्वेतमाल्यानुलेपनैः ।
समादायवृषन्तत्र "त्वंवृषभऽऽ इतिब्रुवन्.

1.38

वृषभन्दक्षिणेयोज्य"सौरभेयऽऽ इतिब्रुवन् ।
ततस्संयोजयेत्पश्चाद् बलीवर्दैबलान्विता

1.39

"युगंयुगश्रुङ्गम्ऽऽ इतियोजयेच्चहलंपुनः ।
"ऋषिङ्गृह्णाऽऽ मितिमन्त्रेण ऋषिंसम्यक् प्रगृह्यच

1.40

"विष्णुर्मांरक्षऽऽत्वितिच स्वात्मरक्षांसमाचरेत् ।
"ये ऽस्मिन्देशेजीवन्तऽऽ इत्याश्रितांश्चविसर्जयेत्

1.41

"हलकृष्टेऽऽतिमन्त्रेण दारयेत्तामिलांशुभाम् ।
कर्षयेद्वैष्णवैर्मन्त्रैः प्रागुदक्पृवणांमहीम्

1.42

ततःकर्षकमाहूय सर्वत्रैवतुकर्षयेत् ।
अयार्यंपूजयित्वातु तथैवसहलौवृषौ

1.43

प्रथमङ्कर्षणं कृत्वा द्वितीयं कर्षणञ्चरेत् ।
बीजंसर्वंसमादाय प्रोक्षणैःप्राक्षणञ्चरेत्

1.44

"इमेबीजाःप्ररोऽऽहेति सप्तग्राम्याण्यतःपरम् ।
वापयित्वातुबीजानि "देवित्वयिऽऽ समुच्चरन्

1.45

"दुहतांउहदिवऽऽ मित्युक्त्वातो यन्तत्रसमर्पयेत् ।
रक्षांसम्यग्विधायात्र चाचार्यमभिपूजयेत्

1.46

"सस्याऽऽ इमेतिमन्त्रेण सस्यंपक्वंप्रणम्यच ।
विष्वक्चेनादिभिर्मन्त्रैश्शान्तञ्चापिसमर्चयेत्

1.47

"शुद्धाऽऽ इमेतिमन्त्रेण गोभ्यस्सम्यङ्निवेदयेत्

मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc