भृगुसंहिता · अध्याय 19
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे ऽष्टादशो ऽध्यायः
zäह्लुन्ग् बेइ 39???
अथैकोनविंशो ऽध्यायः.
अथैकोनविंशो ऽध्यायः.
भगवदर्चनम्
अत ऊर्ध्वं ध्रुवार्चायाम् अर्चनं संप्रवक्ष्यते ।
मूर्धादि पीठात्सन्न्यस्तपुष्पादीन्यपि शोधयेत्
योगवीरार्चनं स्याच्चेत्त्रिकालं स्नानमाचरेत् ।
प्रातर्मध्याह्नयोर्वाथ योगपीठेध्रुवार्ऽचनम्
भोगमेव ध्रुवार्चायां प्रातर्मध्याह्न योरपि ।
त्रिकालं वाथ संस्नाप्य ध्रुवार्चायां विशेषतः
वस्त्रादीन्यपि संशोध्य पुष्पन्यासं च पूर्ववत् ।
शिवादीनर्चयित्वातु पादपीठे समन्ततः
तथासनाद्यैस्सर्वैश्च त्रिसंध्यं चार्चयेद्बुधः ।
अर्धयामे तु पूर्वान्तमर्चयित्वा च पूर्ववत्
हविर्नि वेदयेच्चैवानुक्तमस्यच्च पूर्ववत् ।
आवाहनविसर्गौ तुन कुर्यादिति शासनम्
अथ वक्ष्येर्ऽचनान्तेतु विधानं प्रति कर्मणाम् ।
सौवर्णमुत्तमं पात्रं राजतं मध्यमे भवेत्
अधमं ताम्रपात्रं तु त्रिविधं पात्र मुच्यते ।
त्रितालमुत्तमं प्रोक्तं द्वितालं मध्यमं भवेत्
अधमं त्वेकतालं स्यात्त्रिविधं पात्रविस्तरम् ।
विस्तारेण समाख्यातं तयोर्मध्यममध्यमम्
तस्य मध्ये त्रिभागैकं कर्णिकांगुलमुच्छ्रयम् ।
परेतो ऽष्टदलं कुर्यात्कर्णिकोच्छ्रयमानतः
द्व्यङ्गुलं मूलनाहं स्यात्तदग्रं त्वर्धनाहकम् ।
किञ्चित्फलांबुजाकारमग्रं कुर्याद्विचक्षणः
द्विप्रस्थतण्डुलैः पक्वमन्नं तत्रैव निक्षिपेत् ।
अभिघार्य घृतेनैव अष्टांगुलसमुन्नतम्
दशाङ्गुलं वा उत्सेधं द्वादशांगुलमेववा ।
तत्पात्रञ्च समादाय कौतुकाग्रे निधाय च
कौतुकाच्छक्तिमादाय चार्चयेदष्टविग्रहैः ।
"परब्रह्माण मित्युक्त्वा परमात्मानमित्यपि
भक्तवत्सलं योगेशंऽ चतुर्मूर्तिभिरर्चयेत् ।
प्रातःपुष्पबलिं कुर्यान्मध्याह्नेन्नबलिं तथा
साये त्वर्घ्यबलिं कुर्यात्पूर्वमेव प्रचोदितम् ।
तण्डुलैः कुडुबैश्चापि यथालाभमथापि वा
श्रुतं चार्घ्यबलिं कुर्यात्पुष्बं तु चतुरङ्गुलम् ।
शिष्यमाहूय तत्काले सोष्णीषं सोत्तरीयकम्
शिष्यं गरुड वत्स्मृत्वा पात्रमुद्धृत्यतत्र वै ।
"उदुत्यऽमिति मन्त्रेण शिष्यस्तच्छिरसि न्यसेत्
प्रदक्षिणं ततः कुर्यात्कुर् याच्छब्दरवैर्युतम् ।
वितानछत्रसंयुक्तं पिञ्छचामरसंयुतम्
धूपदीपसमायुक्तं शनैःकुर्यात्प्रदक्षिणम् ।
प्रदक्षिणत्रयं कृत्वा प्रविशेदालयं भुधः
भूतपीठान्तरे तिष्ठेद्गृह्णीयात्तु तदर्चकः ।
कौतुकाग्रेतु सन्न्यस्य ओङ्कारेण निवेशयेत्
बल्यग्रं खण्डयित्वातु सेनेशाय निवेदयेत् ।
तच्छेषं सोदकं चैव भूतपीठे तु निक्षिपेत्
उत्सवं कर्तुकामश्चेत्त्रिसंधिष्वेवमुत्तमम् ।
सायं प्रातर्मध्यमं स्यात्सायं चैवाधमं भवेत्
बलिं च बलिबेरं वा कारयेदिति के च न ।
बल्यर्थं क्लप्तदेवस्य चोर्ध्वमानमुदाहृतम्
महाबेरस्य हस्तेन चैकविंशतिकांगुलम् ।
सप्तदशाङ्गुलं विद्याद्द्वादशांगुलमेव वा
श्रेष्ठमध्यकनिष्ठानि त्रिविधं मानमाचरेत् ।
अर्चाबेरत्रिभागै कमुत्तमप्रतिमाभवेत्
तन्मानस्य दशांशेन त्वेकोनं मध्यमं भवेत् ।
मध्यमस्य दशांशेन त्वेकोनमधमं भवेत्
महतो मूलबेरस्य मुखायामं प्रशस्यते ।
बल्यर्थं प्रतिमां कुर्यात्सर्वेषां स्थापनं भवेत्
सौवर्णं राजतं ताम्रं श्रेष्ठमध्यमगौणतः ।
रत्नजप्रतिमां कुर्यान्मानोन्मानं न विद्यते
उष्णीषं गोलकं ज्ञेयं शिरोमानं त्रिमात्रकम् ।
केशान्तार्चा समं भागं संगमात्पुटसूत्रकम्
पुटसूत्राद्धनुपर्यन्तमेकमेकन्तु भागशः ।
गलमर्धाङ्गुलं विन्द्यान्मात्रार्धं ग्रीवमुच्यते
हिक्काहृदयपर्यन्तं मुखं मात्राधिकं भवेत् ।
हृदयं नाभि तथैवोक्तं तदधस्तात्तु तत्समम्
ऊरू च द्विमुखायामं गोलकोत्सेधमिष्यते ।
चरणं जानुमानं च कालायपुरतो परम्?
हिक्कासूत्रादधस्तात्तु बाहुद्विमुखनेत्रकम् ।
प्रकोष्ठं मुखबन्धं च मुखमर्धाधिकं भवेत्
मणिबन्धाङ्गुलस्याग्रे मुखयामं प्रशस्यते ।
चतुर्भुजं च कृत्वा तु मानमेवमुदाहृतम्
.........वकुर्यात्पद्माकारं तु गोलकम् ।
अथ वक्ष्ये विशेषेण हविष्पाकं विधानतः
पक्त्वा वित्तानुसारेण हवींष्यपि च कल्पयेत् ।
अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः
निवेदयित्वा देवेशं कल्याणं कारयेद्बुधः ।
अवदत्वा? घृतं यत्तु कल्याणमशुभायवै
अलाभे चैव सर्वेषां व्रीहीणां तण्डुलां ःस् तथा ।
शतद्वयं पञ्चविंशद्व्रीहिभिः पूरितं तु यत् ।
शुक्तिमात्रमिति ख्यातं मानं तेनैव कारयेत्
तद्द्वयं तिलमित्युक्तं प्रकुञ्चं स्यात्तिलद्वयम् ।
प्रसृतिस्तद्द्वयं प्रोक्तं कुडुबं प्रसृतिद्वयम्
अञ्जलि स्तद्द्वयं प्रोक्तं प्रस्थं स्यादञ्जलिद्वयम् ।
पात्रं प्रस्थद्वयं प्रोक्तमाढकं तद्द्वयं भवेत्
चतुराढकसंयुक्तं द्रोणमित्यभिधीयते ।
द्रोणद्वयं भवेत्खारी भारङ्खारीद्वयं भवेत्
द्रोणतण्डुलसंयुक्तमुत्तमं हविरुच्यते ।
तदर्धं मध्यमं प्रोक्तन्तदर्धमधमं भवेत्
उत्तमोत्तममित्युक्तमष्टद्रोणैन्तु तण्डुलैः ।
अधिकं यद्भवेत्तस्मात्प्रोक्तं सर्वं महाहविः
तदर्धैस्तण्डुलैः सिद्धं मध्यमं हविरुच्यते ।
षड्द्रोणैस्तण्डुलैः सिद्धं हविरुत्तममध्यमम्
द्रोणहीनं भवेत्तस्मादुत्तमाधममुच्यते ।
मध्यमोत्तममित्युक्तं चतुर्द्रेणैस्तु तण्डुलैः
द्रोणत्रयं भवेद्यत्र कृतं मध्यममध्यमम् ।
मध्यमाधममित्युक्तं द्रोणद्वयकृतं हविः
द्रोणेन तण्डुलेनैव निवेद्यऽमधमोत्तमम् ।
तस्य मध्यममित्युक्तमाढकद्वय सम्मितम्
आढकेन तु संयुक्त मधसूधममुच्यते ।
तण्डुलानाढकार्धं तु देवीनां तु प्रकल्पयेत्
चरुप्रस्थद्वयं प्रोक्तं हविराढकमुच्यते ।
प्रस्थं कुडुबसंयुक्तं पिशाचानां बलिर्भवेत्
गन्धवर्णरसैर्जुष्टाः प्रग्राह्यास्तण्डुलास्तथा ।
प्रक्षाल्य तण्डुलान् सम्यक् निष्बीड्य च पुनःपुनः
चतुः प्रक्षालनं कृत्वा "प्रजास्थाऽलीति मन्त्रतः ।
"ऊर्जस्वऽतीति मन्त्रेण पात्रे प्रक्षिप्य तण्डुलान्
छुल्ल्यामारोपयेत्पश्चा "द्विष्णवे जुष्टऽमित्यपि ।
"वाचस्पऽतीति मन्त्रेण हविस्स्विन्नन्तु पाचयेत्
धूमगन्धरसं स्विन्नमतिपक्वं च शीतलम् ।
केशकीटापविद्धन्तु त्यजेत्पर्युषितं तथा
मुद्गं चैव महामुद्गं कूटस्थं राजमाषकम् ।
कदली पनसं चैव कूश्माण्डं बृहती तथा
कन्दमूलफलान्यन्ये साराढ्या उपदंशकाः ।
गुडं दधि समायुक्तमाज्ययुक्तं.........
हविःकृत्वा चतुर्भागमूर्ध्वभागे निवेदयेत् ।
अधस्तादेकभागेन होमार्थं बलये तथा
यदंशं पात्रसंशिष्टं पूजायैव च निर्मितम् ।
सौवर्णे राजते पात्रे काञ्च्ये ताम्रे निवेदयेत्
अग्नि कार्यावशिष्टं च बलिशिष्टं च यद्धविः ।
तत्सर्वं पूजकायैव प्रोक्तमेवं मनीषिभिः
द्वितीयावरणे प्रोक्तमाग्नेय्यां पचनालयम् ।
अर्चकस्य गृहे वापि पाचयित्वा निवेदयेत्
प्रणिधिं चाज्यस्थालीं च प्रोक्षणीपात्रमेव च ।
अर्घ्यप्रदानपात्रं च कुडुबेन प्रपूरितम्
हविःपात्रप्रमाणन्तं बलिपात्रप्रमाणतः ।
पानीयदानपात्रं च कांस्यं शुक्तिजमेव वा
हिरण्मयं वा रौप्यं वा यधाशोभमलङ्कृतम् ।
तांबूलदाने प्येवं स्यात्सौवर्णं कांस्यमेव हि
दपन्णं च प्रदातव्यं ध्रुवानससमं भवेत् ।
आवाहनार्थप्रणिथिं प्रस्थमात्र प्रपूरितम्
कलुषं कृमिशैवालयुक्तं सूत्रविवर्जितम् ।
गन्धवर्णरसैर्जुष्टमशुचिस्थानमाश्रितम्
पङ्काश्मदूषितं चैव सामुद्रं पल्वलोदकम् ।
अग्राह्यमुदकं ग्राह्यमेभिर्देषैर्विवर्जितम्
उत्तमं त्रिगुणैर् अद्भिस्सानं चाथममुच्यते ।
अभिषेको नदीभ्नन्तु मध्यमे मध्यमं बवेत्
उशीरचन्दनोपेतं यज्जलं पाद्यमुच्यते ।
एलालवङ्गतक्कोलजातीफलसमन्वितम्
आप आचमनीयार्थमुशीरामयचन्दनैः ।
आपःक्षीरकुशाग्रादि यवसिद्धार्थतण्डुलैः
तिलव्रीहि समायुक्तैरर्घ्य मष्टाङ्ग मुच्यते ।
चन्दनं चागुरुश्चैव कुङ्कुमं गन्ध उच्यते,
एकं द्वयं त्रयं वापि कर्बूरेण चतुष्टयम् ।
उशीरचन्टनोपेतं घृतयुक्तं घृताप्लुतम्
किञ्चित्कर्बूरसंयुक्तं धूपमित्युच्यते बुधैः ।
गोघृतेन कृतं यत्तु दीपमुत्तममुच्यते
चतुरङ्गुलमायामं राजसं दीपमेव हि ।
दीपं तत्त्षङ्गुलायामं मध्यमं दीपमुच्यते
अधमं तु भवेद्दीपमङ्गुलद्वयसम्मितम् ।
कापिलेन गृतेनापि कृतं कर्बूरवर्तिकम्
दीपं विष्णुप्रियं प्रोक्तं सर्वसिद्धिप्रदायकम् ।
तामसं तु भवेद्दीपं माहिषेण तु सर्पिषा
वृक्षबीजोद्भवस्नेहदीपं पैशाचमुच्यते ।
तामसं वापि पैशाचमयोग्यं दीपमुच्यते
क्षौमं कार्पासजं वस्त्रं वक्षभेदाङ्गसंभवम् ।
दशहस्तायतं चैव विस्तारं तु द्विहस्तकम्
मनोहरं तु सुश्लक्ष्णं विशेषं वस्त्रमुच्यते ।
बेरायामार्धमानेन वस्त्रविस्तार मुच्यते
विस्ताराष्टगुणायामं सदशं तु सलक्षणम् ।
मयूरपिञ्छैःकुर्यात्तु चतुस्तालं तु विस्तृतम्
अधोमुखं तु कर्तव्यमत ऊर्ध्वमुखं तथा ।
पञ्चारत्निप्रमाणेव दण्डस्स्यादधमं तथा
अधिकं द्वादशाङ्गुल्यं मध्यमेचोत्तमेपि वा ।
एवं पिञ्छं समाख्यातं छत्रलक्षणमुच्यते
षट्तानं छत्रविस्तारमुत्तमं समुदाहृतम् ।
मध्यमं पञ्चतालंस्याच्च तुस्तालमथाधमम्
मौक्तिकं तु भवेच्छत्रं वस्त्रेशापि हितं तथा ।
वस्त्रेण वा तथा कुर्यात्तालपत्रमथापि वा
छत्रं त्वधोमुखं प्रोक्तं दण्डं पिञ्छस्य दण्डवत् ।
सुवर्णरत्नसंयुक्तं कुर्यादाभरणादिकम्
मुकुटं कुण्डलं चैव हारं कैयूरकं तथा ।
कटकं कटिसूत्रं च पुष्पं वै हारनूपुरे
कुर्यादुदरबन्धं च रत्नहारं च मेखलाम् ।
हारं च कर्णपुष्पं च प्रतिमाया यथार्हकम्
चामरै श्चामरं कुर्यात्पिञ्छैर्वापि मयूरजैः ।
दण्डं हक्तप्रमाणं स्याद्बालदण्डप्रमाणकम्
हेमरत्नमयं दण्डं तारताम्रमयं तथा ।
अथ वा दारुदण्डं स्यान्मयूरपिञ्छं च योजयेत्
एवं तु चामरं प्रोक्तं प्रच्छन्नपटमुच्यते ।
क्षौमकार्पाससंयुक्तं द्वारमानन्तु कारयेत्
अथ वक्ष्ये विशेषेण सहस्रधाराविधिक्रमम् ।
सौवर्णं राजतं वापि ताम्रं वापि स्वशक्तितः
उत्तमं षोडशाङ्गुल्यं मध्यमं द्वादशांगुलम् ।
अष्टांगुलं तदधमं यथाशक्ति च कारयेत्
एतैरङ्गुलिभिस्सम्यक् भ्रमीकृत्य च चन्द्रवत् ।
भागं भित्त्युन्नतं प्रोक्तं गोलकं वा विशेषतः
सीमावृत्तं तु विस्तारमष्टाङ्गुलमिति स्मृतम् ।
कर्णि कायामविस्तारं गोलकं तु यवोन्नतम्
मध्ये रत्नं सुवर्णं वा यथा शक्ति समर्पयेत् ।
कर्णिकामभितः कुर्याद्दलान्यष्ट सुसंगतम्
परितष्षोडशदलं द्वात्रिंशत्कर्णिकं बहिः ।
चतुष्षष्टिसमायुक्तं दलं बाह्ये प्रकल्पयेत्
दले यवद्वयघनं रेखामपि च कारयेत् ।
सहस्रसुषिरैर्युक्तं समानोक्तं च कारयेत्
षोडशद्वादशाष्टाभिरङ्गुल्यायामविस्तृतम् ।
मालं तद्धस्तविस्तारं शङ्खान्तरसमीकृतम्
पद्माकृतिं च कृत्वा तु तौ च नालसमायुतौ ।
शेषं युक्त्या प्रकुर्वीत जलनिर्गमनं बुधः,,
सर्वसैन्दर्यसंयुक्तं तथाकारं च कारयेत् ।
प्रक्षाल्य पञ्चगव्येन शोधनीयेन शोधयेत्
देवालयस्य पुरितो गोमयेनोपलिप्य च ।
थान्यराशिं समास्तीर्य वस्त्रं चोपरि विन्यसेत्
उत्तरे वास्तुहोमं च पर्यक्निं चैव पूर्ववत् ।
आचार्यं पूजयेत्तत्र नववस्त्राङ्गुलीयकाः,
तन्त्रेन्दुमण्डलं ध्यात्वा पद्मे पद्मनिधिं तथा ।
शङ्खे शङ्खनिधिं तद्वदावाह्यैव समर्चयेत्
पुण्याहं वाचयित्वा तु दक्षिणां च ददेत्पुनः ।
बिंबशुद्धिं च कृत्वातु मन्त्रेणैवाभिषिच्य च
देवदेवं समभ्यर्च्य हविस्तत्र निवेदयेत् ।
एवं वै कृतपात्राणि देवार्थं च प्रदापयेत्
तस्य कायकृतं पापं तत् क्षणादेव नश्यति ।
सर्वदोषोपशमनं विष्णुभक्तिविवर्धनम्
मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0