भाषा

ENहिગુ
ग्रंथ पाठ

भृगुसंहिता · अध्याय 20

20.1

इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे एकानविंशो ऽध्यायः.
अथ विंशो ऽध्यायः.
अथ विंशो ऽध्यायः.
रक्षादीपविधिः
अतः परं प्रवक्ष्यामि रक्षादीपविधिक्रमम् ।
सौवर्णं राजतंवापि ताम्रंवापि स्वशक्तितः

20.2

द्वात्रिंशदङ्गुलं श्रेष्ठं मध्यमं पादहीनतः ।
अधमं विंशदङ्गुल्यं समवृत्तन्तु कारयेत्

20.3

अष्टदिक्षु च मध्येच चतुर्दिक्षु च वा तथा ।
केवलं कर्णिकां वाथ कर्णिकायान्तु विस्तृतम्

20.4

तदर्धमुन्नतं विन्द्याद्गण्डायामं षडङ्गुलम् ।
द्व्यङ्गुलं तु परीणाहं तदूर्थ्वे भागविस्तृतम्

20.5

तदर्धं विस्तृतोत्सेधं दीपबात्रं प्रकल्प्य च ।
अलभेशालिपिष्टं वा गोमये वा समाहरेत्

20.6

तत्तत्थ्साने तु विन्यस्य पात्रेसंयोजयेत्ततः ।
आढकं वा तदर्धं वा पिण्डार्धं च चरुंपचेत्

20.7

हारिद्रचूर्ण संयुक्तं पात्रे प्रक्षिप्य मन्त्रवित् ।
आज्येन स्राव्य संमृज्य मुष्टिमात्रं दृढीकृतम्

20.8

दशपिण्डां स्तदर्धं वा साक्षते च समाहरेत् ।
जलेन कुंभमापूर्य सर्वगन्धसमायुतम्

20.9

कुशकूर्चान्विनिक्षिप्यपल्लवैरपि भूषयेत् ।
अष्टमङ्गलसंयुक्तं पाद्याचमनसंयुतम्

20.10

पुष्पगन्धसमायुक्तं धूपदीपार्घ्य संयुतम् ।
पृधक्पात्रे समाहृत्य देवदेवं च पूजयेत्

20.11

शङ्खध्वनिसमायुक्तं वंशध्वनिसमायुतम् ।
भेरीमृदङ्गसुषिरवाद्यघोषसमायुतम्

20.12

स्तोत्रध्वनिसमायुक्तं स्वक्तिसूक्तसमन्वितम् ।
दासीभिश्चाथ वा भक्तैस्स्वहस्तोपरि धारयेत्

20.13

प्रदक्षिणं शनैर्गत्वा देवालयमुपाव्रजेत् ।
आचार्यं पूजयित्वातु देवदेवं प्रणम्यच

20.14

रक्षादीपं समादाय "श्रिये जातऽ इति ब्रुवन् ।
बिंबमूर्ध्नि तु संयोज्यत्रिः प्रदक्षिणमाचरेत्

20.15

दिक्पिण्डं तु विसृज्यैव प्रोक्षयित्वा च मन्त्रवित् ।
प्रदक्षिणं प्रणामं च कारयेदष्टमङ्गलैः,

20.16

पाद्यमाचमनं दत्वागन्धपुष्पादिभिर्यजेत् ।
मुखवासं च दत्वातु स्तुतिमन्त्रैश्च वैष्णवैः

20.17

समालभ्यैव हस्ताभ्यां पुष्पदूर्वाङ्कुराक्षतैः ।
पादेपुष्पाञ्जलिङ्कुर्यात्कुर्याद्देवस्य मन्त्रतः

20.18

आलयात्तु बहिर्गत्वा पीठपार्श्वेतु निक्षिपेत् ।
कौतुके बलिबेरेपि स्नापने प्यौत्सवे ऽपि च,

20.19

प्रादुर्भावे च सर्वेषामाविर्भावे तथैव च ।
एवमेव तु कृत्वा तु भ्रामयित्वा विचक्षणः,

20.20

चक्रवीशामितादीनामिन्द्रादीनां तथैव च ।
दर्शनं भ्रामणं चैवमाचरेच्छास्त्रवित्तमः

20.21

मोहादज्ञानतः कुर्यात्सर्वहानिर्भविष्यति ।
सायाह्ने चत्रिपूजान्ते चोत्सवान्ते च नित्यशः

20.22

एवमेव विधानेन कारयेदुत्तमं विदुः ।
सर्वशान्तिकरं चापि सर्वकंपत्समृद्धिदम्

20.23

दारिद्षादिविनाशेन सर्वान् कामनवाप्नुयात् ।
अतःपरं प्रवक्ष्यामि शिबिकानां तु लक्षणम्

20.24

मात्राङ्गुलेन वाकुर्याच्छिभिकादीन्विधानतः ।
आवृतं तदर्धविस्तारमुत्तमं तुविधीयते

20.25

तत् षडङ्गुलहीनन्तु मध्यमन्तुप्रकीर्तितम् ।
विस्ताराध्यर्धपादेन ?अयामद्विगुणं भवेत्

20.26

उत्तमाधममध्यानां शिबिकाविस्तरो भवेत् ।
त्रिभागैकस्य भागं स्याच्चतुर्भागैकभागिकम्

20.27

पञ्चभागैकभागं स्याद्विस्तारस्य घनं भवेत् ।
तच्चतुर्भागमेवं स्यादेकैकं वमनं भवेत्

20.28

शेषभागं तु पद्मोक्तं तलायुक्ति विशेषतः ।
शिबिकाविस्तृतं चैवं भागैकं भागमेव च

20.29

तच्चतुर्भागमेवोक्तं भित्त्युत्सेधं विधीयते ।
द्वितलं त्रितलं चैव गुलिकाफलकाभवेत्

20.30

गुलिकापादतलोत्सेधं मध्योर्ध्वतलवत्समम् ।
चतुर्भागैकमेवन्तु नवभागैकमेव वा

20.31

अङ्गुलं चाङ्गुलार्थं च ऊर्थ्वपट्ट्या च संयुतम् ।
अतःपरं प्रवक्ष्यामि रथादीनां विधिक्रमम्

20.32

पञ्चषट्सप्ततालं वा चाष्टतालमथापि वा ।
विस्तारायममेवं स्यादुत्सेधं द्विगुणं भवेत्

20.33

मण्डपद्वारयुक्तं वा कूटाकारमथापि वा ।
अधराधरमायामं रथायामत्रयं भवेत्

20.34

छत्रस्यायामविस्तारादुत्सेदार्धप्रमाणतः ।
एवं तु परिकल्प्यैव शिबिकायाममुच्यते

20.35

रथायामसमं वापि पादहीनमथार्थकम् ।
विस्तारं तत्त्रिभागै कमायामं चोच्छ्रयं भवेत्

20.36

विस्तारार्धसमुत्सेधं विस्तारार्थाधिकायतम् ।
शयनं संप्रकल्प्यैव पूर्वोक्तेनैव दारुणा

20.37

सर्वालङ्कारसंयुक्तं सर्वसैन्दर्यसंयुतम् ।
शिल्पशास्त्रोक्तमार्गेण शिल्पिभिः कालयेद्बुधः

20.38

पञ्चगव्यैस्सुसंशोध्य वास्तुहोमश्च हूयताम् ।
पर्यग्नि चैव कृत्वातु कलशैस्स्नापयेत् ततः

20.39

मण्डपे वा प्रपायां वा स्थण्डिले वात्र विन्यसेत् ।
नवैर्वस्त्रैस्समावेष्ट्य पुण्याहमपि वाचयेत्

20.40

जौपासनाग्निकुण्डं च कारयित्वा विधानतः ।
आघारं पूर्ववत्कृत्वा कुंभपूजां समाचरेत्

20.41

वैष्णवं विष्णुसूक्तं च तत्तद्देवांश्च मूर्तिभिः ।
व्याहृत्यन्तं च हुत्वा तु अन्तहोमश्च हूयते

20.42

यानादिषु च तन्मध्ये तत्तद्देवां स्तथैव च ।
आवाह्यैव समभ्यर्च्य देवदेवं प्रणम्य च

20.43

पाद्याद्यर्घ्यान्तमभ्यर्च्य हविस्सम्यङ्निवेदयेत् ।
सर्वालङ्कारसंयुक्तं सर्ववाद्यसमन्वितम्

20.44

यानादिषु समारोप्य "प्रतद्विष्णुऽरिति ब्रुवन् ।
ग्रामं वा प्यालयं वापि प्रदक्षिणमधाचरेत्

20.45

मन्दिरं संप्रविश्यैव स्वेस्वेस्थाने निवेशयेत् ।
एवं यःकुरुते भक्त्या वैष्णवं पदमाप्नुयात्

20.46

अतःपरं प्रवक्ष्यामि प्रपामण्डपलक्षणम् ।
मण्डपं त्रिविधं ज्ञेये विमानसमविस्तृतम्

20.47

अर्धं पादं तु पादं वा हीनन्तु त्रिविधं भवेत् ।
प्रमुखे तस्यसोपानमालयार्धमिति स्मृतम्

20.48

पूर्वेतु स्नपनार्थाय मण्डपं संप्रकल्पयेत् ।
षोडशस्तंभयुक्तं वा द्वादशस्तंभसंयुतम्

20.49

ऐशान्ये वा प्रकुर्वीत स्नपनार्थं प्रकल्पयेत् ।
प्रथमावरणे वाथ द्वितीयावरणे ऽथ वा

20.50

एकादशेन हस्तेन समं सम्यक् प्रकल्पयेत् ।
नवहस्तं सप्तहस्तं पञ्चहस्तमिति त्रिधा

20.51

प्रथमावरणे बाह्ये मण्डपन्तु विधीयते ।
आस्थानवृत्तगेयादिदर्शनार्थं प्रकल्पयेत्

20.52

पूर्ववत्प्रमुखे कुर्याद्यथाविभवविस्तरम् ।
यजमानस्य हस्तेन द्विहस्तन्तु विवर्धयेत्

20.53

पूर्ववत् स्तंभसंयुक्तं यथायोग्यं प्रकल्पयेत् ।
तत्बूर्वदिशि शालायां नृत्तार्थन्तु विधीयते

20.54

विष्कंभं नवहस्तं वा आयामं द्विगुणीकृतम् ।
यजमानेच्छया तत्र द्विहस्तन्तुविवर्धयेत्

20.55

अयादिलक्षणं वक्ष्ये यजमानानुकूलतः ।
हस्तं पादं तदर्धं वा विस्तारायादिसंयुतम्

20.56

तथैव नूनं कृत्वा तु अयादीन् लक्षयेद्बुधः ।
शिलाभिरिष्टकाभिर्वा हस्तोच्छ्रयसमं तलम्

20.57

द्वितलं वा प्रकुर्वीत तालं सम्यक् प्रकल्पयेत् ।
शैलजं दारुसारं वा स्तंभमाहृत्य यत्नतः

20.58

वृत्तं वा चतुरश्रं वा ऋजुं वक्रविवर्जितम् ।
स्तंभानां विंशतिं गृह्य बाह्यस्तंभं प्रगृह्य च

20.59

तन्मध्ये द्वादशस्तंभं पूर्ववत्कारयेद्बुधः ।
स्तंभायामं यथायोगं कृत्वा तत्र विचक्षणः

20.60

द्वितालघन संयुक्तं स्तंभमानेन स्वस्तिकम् ।
स्तलत्योर्ध्वे विभज्यैव समं वन्दत्यप्रकल्पयेत्

20.61

तस्यामेव तु स्तंभार्थं पादं संस्थाप्य स्वस्तिकम् ।
दृढं कृत्वा तदूर्ध्वेत स्तंभं संस्थाप्य वै बुधः

20.62

द्व्यङ्गुलं च भवैर्वाथ वेदिकां कारयेद्बुधः ।
नानालङ्कारसंयुक्तं नानाचित्रसमन्वितम्

20.63

उत्तरं तत्समं कृत्वा बोधिकेतु सुयोजयेत् ।
स्तंभादूर्ध्वन्तु संस्थाप्य तदूर्ध्वे प्रस्तरं न्यसेत्

20.64

अभ्लन्तरोत्तरादूर्ध्वे ऽबिष्टकाधानपादयोः ।
बालोत्तरं यथायोग्यं स्थापयेत्सुदृढं क्रमात्

20.65

तद्बिल्वको यथामार्गं योग्यं तत्पद्ममुच्छ्रयम् ।
एवं लक्षणसंयुक्तं दर्शनीयं च कारयेत्

20.66

यजमानेच्छयातत्तन्मण्डपेन सहैव तु ।
षोडशस्तंभसंयुक्तं द्वादशस्तंभमेववा

20.67

भक्तियुक्तं प्रकल्प्यैव प्रपां युक्त्यैव कारयेत् ।
अपरे द्वारसंयुक्तं पूर्ववत् स्तंभमेव वा

20.68

कवाटं तत्र वा कुर्याच्छेषं यक्त्यैव कारयेत् ।
शिल्पशास्त्रोक्तमार्गेण शिल्पिभिः कारयेद्बुधः

20.69

मण्डपस्य समाप्तौतु अङ्कुरानर्पयेत्क्रमात् ।
शुद्ध्यर्थं वास्तुहोमं च पुण्याहं चैव कारयेत्

20.70

ब्राह्मणान् भोजयेत्पश्चात्तद्देशमुपलक्षयेत् ।
चरोदये च नक्षत्रे स्थिरराशिं प्रगृह्य च

20.71

मण्डपस्य तु मध्ये वै धान्यपीठानि कल्पयेत् ।
प्रतिष्ठोक्तक्रमेणैव कुंभन्यासाति कारयेत्

20.72

पश्चिमे गार्हपत्याग्नावाघारं जुहुयात्क्रमात् ।
होता हौत्रक्रमेणैव हौत्रं तत्र प्रशंसयेत्

20.73

तत्तद्देवस्य चावाह्य जुष्टाकारं हुतं चरेत् ।
श्रीसूक्तं वैष्णपं चैव वैष्णवं चैकविंशतिः

20.74

इन्द्रादिलोकपालानां प्रत्येकं जुहुयात्क्रमात् ।
तत्तत्स्थानेतु कूर्चे वा स्थण्डिले वा समर्चयेत्

20.75

प्रभूतं तु निवेद्यैव द्रोणन्द्रोणार्छमेव वा ।
आचार्यस्यार्चकादीनां दक्षिणां च ददेत्क्रमात्

20.76

सौवर्णैरुत्पलैः पुष्पैरलङ्कुर्यात्प्रपां ततः ।
पद्मैर्वाकुमुदैर्वाथ पुष्पैरन्यैस्स्वशक्तितः

20.77

देवदेवमलङ्कृत्य वस्त्रमाल्यादिभिः पुनः ।
प्रपां संयोज्य देवेशं ध्यानेनैव तु सन्नयेत्

20.78

देवेशं स्थापयेत्तत्र पाद्याद्यैरर्चयेत्क्रमात् ।
महाहविः प्रभूतं वा यथाशक्ति निवेदयेत्

मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc