भाषा

ENहिગુ
ग्रंथ पाठ

भृगुसंहिता · अध्याय 18

18.1

इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे सप्तदशो ऽध्यायः
अथाष्टादशो ऽध्यायः.
भगवदर्चनम्
अथ वक्ष्ये विशेषेण विष्णोरर्चनमुत्तमम् ।
"प्रवः पान्तमऽन्धेत्यादि श्रुतिभिर्विहितं तथा

18.2

यच्चोक्तं गुरुणा सूत्रे समासेन महर्षिणा ।
तेनैव विवृतं शास्त्रे सार्धकोटी प्रमाणतः

18.3

अस्माभिस्तु सुसंक्षिप्तं चातुर्लक्षप्रमाणतः ।
तदर्चनक्रमं वक्ष्ये श्रुणुध्वमृषिसत्तमाः

18.4

वैखानसेन सूत्रेण निषेकादि क्रियान्वितः ।
ऋत्विगुक्तगुणोपेतस्सुपुष्टाङ्गस्समाहितः

18.5

गृहस्थो ब्रह्मचारी वा भक्त्यैवार्ऽचनमाचरेत् ।
द्रव्यैरनेकैस्संपाद्यं तथानन्तोपचारकैः

18.6

आशक्यं विधिवत्कर्तुं ब्रह्माद्यैरपि पूजनम् ।
मनुष्यैःकिमुवक्तव्यं दरिद्रैरदृढात्मभिः

18.7

यथाशक्ति ततः कुर्यात्तस्माद्बहुभिरर्चकैः ।
बहुभिः परिचारैश्च तथै वान्यपदार्थिभिः

18.8

निर्वर्त्यं पूजनं विष्णोश्श्रद्धाभक्तिसमन्वितैः ।
तस्मान्नवविधा ग्राह्या अर्चकाः परिचारकाः

18.9

उत्तमे तूत्तमं प्रोक्तमर्चकानान्तु विंशतिः ।
अशीतिः परिचाराणामुत्तमे मध्यमं ततः

18.10

परिचाराणां चतुष्षष्टिदर्चकाष्षोडश स्मृताः ।
उत्तमे त्वधमं प्रोक्तमर्चका द्वादश स्मृताः

18.11

पञ्चाशत्परिचाराश्च मध्यमे चोत्तमं पुनः ।
चत्वारिंशत्परिचराः पूजकाश्चाष्टकीर्तिताः

18.12

मध्यमे मध्यमं प्रोक्तमचन्काष्षडुदीरिताः ।
पञ्चविंशत्परिचरा मध्यमे त्वधमं पुनः

18.13

चत्वारः पूजकास्तत्र परिचारास्तु षोडश ।
त्रयोर्ऽचकाः परिचरा नव स्युरधमोत्तमे

18.14

पूजकौ द्वौपरिचराश्चत्वारो ऽधममध्यमे ।
एकोर्ऽचकः परिचरौ द्वौप्रोक्तावधमाधमे

18.15

आचार्यस्स्यादुपद्रष्टा देवस्सान्निध्यकारकः ।
अर्चनाद्यखिलं कार्यं तन्नियोगेन कारयेत्

18.16

स हि कार्यस्य निर्णेता गोप्ताधर्मस्यदेशिकः ।
अर्चको देवदेवस्य कुर्यान्मन्त्रासनादिषु

18.17

उपचाराननन्तांश्च विधिना शास्त्रचोदितान् ।
अर्चकस्य सहायन्तु किङ्करः परिचारकः

18.18

बहुकार्यकराश्चैते ग्राह्यास्तु परिचारकाः ।
सम्माजन्नकरश्चैव तथा स्यादुपलेपकः

18.19

दीपोद्दीपयिता चौव पोत्रशोधनकारकः ।
पानीय वाहकश्चैव पुष्पापचयकारकः

18.20

धूपदीपादिकर्ता च गन्धपेषणतत्परः ।
तत्तत्परिच्छदाहर्ता तथैव बलिवाहकः

18.21

एवमादीनि कार्याणि कुर्वन्ति परिचारकाः ।
पाचकः परिचारस्स्यात्पचनालयसंगतः

18.22

हविष्पाकविधानज्ञश्शौचाचारपरायणः ।
एतान्वैखानसानेव वृणेत्सर्वान् पदार्थिनः

18.23

अलाभे तत्र सर्वेषामाचार्यं चार्चकान्पुसः ।
वैखानसानेव वृणन्नक्युदर्यादन्यसूत्रिणः

18.24

अवैखानस विप्रस्तु पूजयेदालये हरिम् ।
स वै देवलको नाम सर्व कर्मबहिष्कृतः

18.25

परिचारांन्तु वृणुयादलाभे त्वन्यसूत्रिणः ।
दीक्षितानेवसद्वृत्तानागमोक्तविधानतः

18.26

यजमानस्सदाध्यात्मरतो मोक्षार्थचिन्तकः ।
धनी सर्वसमस्त्यागी भक्तियुक्तः प्रसन्नधीः

18.27

शास्त्रोक्तेन विधानेन विष्णुलाञ्छनलाञ्छितः ।
देवस्य नित्यपूजार्थमुत्सवार्थं विशेषतः

18.28

तथान्यविभवार्थं च दापयेद्धनसंचयम् ।
आचार्याज्ञाप्रतीक्षस्स्यातॄजके हितचिन्तकः

18.29

परिचारे प्रसन्नश्च किङ्करेषु दयापरः ।
तीर्थप्रसादसेवी च निर्माल्येषु कृतादरः

18.30

इति लक्षणसंपन्नाः प्रभवन्त्यालयार्चने ।
अथार्चकः प्रमन्नात्मा पञ्चकालपरायणः

18.31

ब्राह्मेमुहूर्ते चोद्थाय नारायणमनुस्मरेत् ।
कृत्वा सूत्रोक्तविधिना शौचादीनि यथाविधि

18.32

स्नात्वा स्नानविधानेन धृत्वा धौतांबरे पुनः ।
ऊर्ध्वपुण्ड्राणि संधार्य विधिना केशवादिभिः

18.33

धृत्वा पवित्रपद्माक्षतुलसीमणिमालिकाः ।
धृत्वोभयपवित्रे च तथा सन्ध्यामुपास्य च

18.34

उष्णीषेण च पञ्चागभूषणैन्सुविभूषितः ।
समाप्य नित्यकर्माणि महामन्त्रादिकं जपन्

18.35

अरुणं तु जपित्वैव नारायणमतः परम् ।
प्रणम्य यन्त्रिकाञ्चैव कराभ्यां परिगृह्य च

18.36

बाह्वोश्शिरसि वा न्यस्य भक्त्या परमया युतः ।
संगतः परिचारैश्च यजमानेन सादरम्

18.37

सर्ववाद्य समायुक्तः सर्वमङ्गलशोभितः ।
क्रममाणश्शनैर्विद्वान् देवागारं प्रति व्रजेत्

18.38

"प्रतद्विष्णुऽरिति प्रोच्य चालयं परितःक्रमात् ।
युग्मप्रदक्षिणं कुर्याद्देव देवमनुस्मरन्

18.39

युग्मप्रदक्षिणं कुर्यादयुग्मं त्वाभिचारिकम् ।
आयुग्मं तु परीत्यापि तथायुग्मं प्रणम्य च

18.40

प्रेक्षेतोद्यन्तमादित्यं जपेद्द्वादशसूक्तकम् ।
छायालङ्घनदोषन्तु न तत्र स्यात्प्रदक्षिणे

18.41

देवागारं प्रविश्यैव तत्तन्मन्त्रमनुस्मरन् ।
द्वारदेवान् प्रणम्याथ निरस्तं रक्षमस्त्रतः

18.42

गृहीत्वा यन्त्रिकां चैव "हिरण्यपाणिऽ मुच्चरन् ।
कवाटे तु सुसंयोज्य "दिवंऽ वीति समुच्चरन्

18.43

कवाटोद्घायनं कृत्वा प्रविशेदन्तरं बुधः ।
"अतो देवाऽ इतिप्रोच्य देवं वीक्ष्यप्रणम्य च

18.44

परिचारकमाहूय दीपानुद्दीपयेत्क्रमात् ।
प्रणवं मन्त्रमुच्चार्य तत्र कार्यं समाचरेत्

18.45

त्रिस्संप्रहार्य पाणिभ्यां "शाम्यन्त्विऽत्यादि चोच्चरन् ।
आदर्शं गाश्च कन्याश्च हस्त्यश्वादीन् शुभोदयान्

18.46

ब्राह्मणान्वेदविदुषो नर्तकांश्चैव गायकान् ।
देवस्य पुरतस्थ्साप्य मुखमण्डप एवचा

18.47

प्रच्छन्न पटमुद्वास्य कृत्वा नीराजनं तथा ।
सर्ववाद्यसमायुक्तं दर्शयेद्धरये मुदा

18.48

धारोष्णं चैव गोक्षीरं नवनीतं सशर्करम् ।
देवेशाय निवेद्याथ कुर्याद्यवनिकां पुनः

18.49

"भूः प्रपद्येऽ समुच्चार्य देवेशं प्रणमेन्मुहुः ।
"परं रंऽहीति मन्त्रेण शयनस्थं श्रियःपतिम्

18.50

"भूरसी भूऽरिति प्रोच्य जीवस्थाने निवेशयेत् ।
तस्मिन् कालेतु ये भक्त्या सेवन्ते पुरुषोत्तमम्

18.51

तेषां पुण्यफलं वक्तुं न शक्यं त्रिदशैरपि ।
ततश्शिष्यं समाहूय विनयान्वितमादरात्

18.52

सम्मार्जनादिकर्माणि गुरुस्तस्मै समादिशेत् ।
"अव धूतिऽमिति प्रोच्य गर्भगेहादि सर्वतः

18.53

मार्जन्या मार्जयेच्छिष्यः प्रादक्षिण्यक्रमेण वै ।
पांस्वादीन् परिहृत्यापि प्राकारान्तं च सर्वशः

18.54

"आशाऽस्विति समुच्चार्य गोमयेनोपलेपयेत् ।
पञ्चगव्यैस्तु संप्रोक्ष्य रङ्गवल्लीस्समाचरेत्

18.55

"आ मा वाजस्यऽ मन्त्रेण यथोक्तेन विधानतः ।
सर्वण्यपि च पात्राणि शोधयेत्सुमनोरमे

18.56

तो यसंग्रहणार्थं तु नियुक्तः पूजकेन तु ।
घटमादाय शिष्यस्तु "दुहतां दिवऽमुच्चरन्

18.57

नदीतटाककूपानां पूर्वालाभे परं व्रजेत् ।
उपस्थाय जलं स्मृत्वा जाह्नवीं लोकपावनीम्

18.58

"आज्यमभिगृह्णाऽमीति चाप्पवित्रेण वाससा ।
गृहीत्वोत्पूतमाधावं गायत्रीमुच्चरन् पुनः

18.59

अलङ्कृत्यघटं सम्यक् क्षौमेनाच्छाद्य तन्मुखम् ।
गजे शिरसि वा क्षिप्त्वा सर्ववाद्यसमायुतम्

18.60

पुनरालयमाविश्य कृत्वा चैव प्रदक्षिणम् ।
सोमं राजानमुच्चार्य गर्भगेहे तु दक्षिणे

18.61

विन्यसेच्च ततः कुंभं त्रिपादोपरि शोभिते ।
एलोशीरादिचाहृत्य गन्धद्रव्यं यथाविधि

18.62

दद्यादर्चकहस्ते तु गृहीत्वा तत्तु पूजकः ।
पूर्णकुंभे तु निक्षिप्यतोयं तदधिवासयेत्

18.63

अलाभे कुशदूर्वैर्वा तुलसीदलमिश्रितैः ।
अभिमृश्य ततः कुंभ "मिदमापश्शिवाऽइति

18.64

सूत्रोक्तविधिना कृत्वा पुण्याहं विधिवत्तदा ।
"शुचि वो हव्यऽमन्त्रेण संभारान् प्रोक्षयेत्क्रमात्

18.65

शोधयित्वातु निर्माल्यं "नश्यस्तु जगताऽमिति ।
"अहमेवेदऽमुक्त्वा तु पीठपुष्पं च शोधयेत्

18.66

"पूतस्तस्यऽ समुच्चार्य वेदिमद्भिस्सुशोधयेत् ।
ध्रुवस्य पादपुष्पस्तु विष्णुगायत्रिया तथा

18.67

पञ्चभिर्मूर्ति मन्त्रैश्च दत्वा देवं प्रणम्य च ।
देवनिर्माल्यशेषेण विष्वक्सेनं विभूष्य च

18.68

अन्यन्निर्माल्यमादाय शुचिस्थाने ऽप्सु वा क्षिवेत् ।
पूजनार्थांश्च संभारान् यथाशक्ति सुसंभरेत्

18.69

ततस्समाहितो भूत्वासंभारार्चनमारभेत् ।
तत्तत्थ्सानेषु पात्राणि यथार्हं स्थापयेद्बुधः

18.70

स्नानार्थमग्निकोणे स्यादर्घ्यर्थं नैरृते ऽपि च ।
पाद्यार्थं वायुदेशे स्यादाचमार्थमथेशके

18.71

शुद्ध्यर्थमेकं मध्ये तु पञ्चपात्रमिदं क्रमात् ।
त्रिपादोपरे निक्षिप्ते विशाले ताम्रभाजने

18.72

"अग्निश्शुऽचीति मन्त्रेण स्थापयेच्च हरिं स्मरन् ।
कुर्याच्च पात्रसंस्कारं शोषणादि यथाविधि

18.73

उद्धरिण्यां गृहीत्वातु प्रणवेन जलं तदा ।
निक्षिप्य तुलसीं तस्यां पुष्पं वा धारणं चरेत्

18.74

वारिकुंभमुखे ब्रह्मा तदधो रुद्र ईरितः ।
वरुणस्तु जले ध्येयस्तथै वावाहनं चरेत्

18.75

त्रिपादे चन्द्रमावाह्य चादित्यं चोर्ध्वभाजने ।
वसिष्ठसोमयज्ञाङ्गानिन्दुं मन्द्रं क्रमेणवै

18.76

आग्नेयादिक्रमेणैव पञ्चपात्रेषु चाह्वयेत् ।
कर्पूरोशीरकं चैव गन्धानेलालवङ्गकम्

18.77

स्नानद्रव्यमिदं प्रोक्तं स्नानपात्रे तुनिक्षिपेत् ।
विष्णुपर्णं पद्मदलं दूर्वां श्यामाकमेव च

18.78

प्राद्यद्रव्याणिसंपाद्य पाद्यपात्रे तु निक्षिपेत् ।
कुशाक्षततिलव्रीहियवमाषांस्तथैव च

18.79

प्रियङ्गूंश्चैव सिद्धार्थानर्घ्यपात्रे तु निक्षिपेत् ।
एलोशीरलवङ्गादिं स्तक्कोलानीति च क्रमात्,

18.80

क्षिपेदाचामपात्रे तु शुद्धतोये ततःक्रमात् ।
पुष्पाणि गन्धान्विन्यस्येद्यथालाभमथापिवा

18.81

अलाभेतत्तदुच्चार्य तुलसीं वा विनिक्षिपेत् ।
"धाराऽस्विति च मन्त्रेण पात्राण्यद्भिः प्रपूरयेत्

18.82

"इदमापश्शिवाःऽ प्रोच्य सुरभिमुद्रां प्रदर्श्य च ।
पात्राभिमन्त्रणं कुर्याद्दसदिग्बन्धनं चरेत्

18.83

विष्णुगायत्रीमुच्चार्य तत्रकार्यं समाचरेत् ।
घण्टायां चैव ब्रह्माणं नादे वेदान्समर्चयेत्

18.84

तज्जिह्वायां षडास्यस्तुसूत्रेनागान्त्समर्चयेत्
ऊर्ध्वेवीशं च शङ्खारी पार्श्वयोस्तस्यचार्चयेत्

18.85

नाले चैव महादेवमिति घण्टाधिदेवताः ।
त्रिपादस्योत्तरेस्थाप्य विमलन्तु पतद्ग्रहे

18.86

वरुणं शङ्खकुक्षौ तु मूले तु पृथिवीं तथा ।
धारायां सर्वतीर्थांश्च शङ्खे चन्द्रं समर्चयेत्

18.87

उद्धरिण्यां च पानीयपात्रे सोममथार्चयेत् ।
आसने धर्ममावाह्यप्लोते त्वष्टारमेव च

18.88

अंबरे सूर्यमावाह्य चोत्तरीये निशाकरम् ।
भूषणे षण्मुखं चैव यज्ञसूत्रे निशाकरम्

18.89

पुष्पे पुल्लं तथा गन्धे मुखवासे च मेदिनीम् ।
अक्षते काश्यपं धूपे बृहस्पतिमधाह्वायेत्

18.90

दीपे श्रियं घृते सामतैले पितॄन्त्समर्चयेत् ।
उपधाने तथाछत्रे पादुके शेषमर्चयेत्

18.91

यन्त्रिकायां च मार्ताण्डं सिद्धार्थे सोममर्चयेत् ।
कुशाग्रे जाह्नवीं चैव तिलेषु पितृदेवताः

18.92

तण्डुले रविमावाह्य दध्नि चावाहयेद्यजुः ।
क्षीरे ऽथर्वाणमावाह्य मधुपर्के ऋचं तथा

18.93

मात्रायां शर्वमावाह्य हविःपात्रे दिवाकरम् ।
हविष्णु पद्मगर्भं च पानपात्रे निशाकरम्

18.94

उपहारादिपात्रेषु दिवाकरमथार्चयेत् ।
ज्येष्ठामावाह्य मार्जन्यां नर्तकेशर्वमर्चयेत्

18.95

गायके सामवेदं च नन्दीशं वादकेर्ऽचयेत् ।
पाञ्चजन्यं च शङ्खे तु गणिकास्वप्चरस्त्स्रियः

18.96

गरुडं परिचारेषु समावाह्य ततः क्रमात् ।
अनुक्तेषु तु द्रव्येषु विष्णुमावाह्य कारयेत्

18.97

तत्तद्द्रव्याधिपे स्मृत्वातत्तद्द्रव्यसमीपतः ।
तत्तद्द्रव्यधरत्वेन चतुर्भिर्विग्रहैर्यजेत्

18.98

तत्तत्कर्मसु काले वै यथार्हमुपयोजयेत् ।
तत्काले प्यथ वावाह्यतस्मिन् कर्मणि योजयेत्

18.99

ततोर्ऽचकः प्रसन्नात्माध्यात्वात्मानं जनार्दनम् ।
देवस्य दक्षिणेभागे कूर्मपीठे समाहितः

18.100

बिंबार्हं संस्थितो वापि समासीनो ऽथ वा पुनः ।
ध्यात्वा ध्यानविधानेन जप्त्वाचार्यपलंपराम्

18.101

योगशास्त्रोक्तमागेन्ण प्राणायामादिकं चरेत् ।
भूतशुद्धिं विधायादौ न्यासानन्यान्त्समाचरेत्

18.102

अकारादिक्षकारान्तमक्षराणि यथाविधि ।
सर्वत्र सन्धिषु न्यस्य ब्रह्मन्यासं समाचरेत्

18.103

"ब्रह्म ब्रह्मन्तरात्मेऽति हृदयं चाभिमर्शयेत् ।
"द्यौर्द्यैरऽसीति चोच्चार्य मूर्धानं चाभिमर्शयेत्

18.104

"शिखे उद्वर्तयाऽमीति स्पृशेच्चैव शिखां तथा ।
"देवानामायुधैऽरुक्त्वा कवचं बन्धयेत्ततः

18.105

"नारायणाय विद्महऽ इति दशदिग्भन्धनं चरेत् ।
"सुदर्शनमऽभीत्युक्त्वा दक्षिणे तु सुदर्शनम्

18.106

"रविपाऽमिति वामे च शङ्खं च बिभृयात्करे ।
"सूर्योसि च द्रो ऽसीऽत्युक्त्वा नेत्रयोर्दक्षवामयोः

18.107

सूर्याचन्द्रमसोश्चैव मण्डले सन्न्यसेद्बुधः ।
"अहुरण्यं विधिं यज्ञं ब्रह्माणं देवेन्द्रऽमित्यपि

18.108

अङ्गुष्ठादिकनिष्ठान्तं करन्यासं समाचरेत् ।
"अन्तरस्मिन्निमऽइति ब्रह्माणं च हृदि न्यसेत्

18.109

प्राणानायम्य संकल्प्य तिथिवारादिकीर्तयेत् ।
ततो मन्त्रासनं विद्वान् संकल्प्य च यथाविधि

18.110

"प्रतद्विष्मुस्सवतऽइति इति त"थास्त्वासनऽमित्यपि ।
पुष्पदभन्कुशेष्वेकं पीठान्ते चासनं ददेत्

18.111

"विश्वाधिकानाऽमित्युक्त्वा स्वागतं तु समाचरेत् ।
"मनो ऽभिमन्ताऽमन्त्रेण देवेशमनुमान्य च

18.112

"त्रीणि पऽदेति मन्त्रेण दद्यात्पाद्यं पदद्वये ।
"आमावाजस्यऽमन्त्रेण स्पृश्यमघंन्य् प्रदाय च

18.113

देवस्य दक्षिणे हस्ते स्पृश्यं स्सृश्याघन्य्मुच्यते ।
"शन्नोदेवीऽरिति प्रोच्य दद्यादाचमनीयकम्

18.114

"देवस्यऽत्वेति मन्त्रेण चादर्शं दर्शयेत्ततः ।
अन्नाद्याय समुच्चार्य दन्तधावनमाचरेत्

18.115

हिरण्मयं वा रौप्यं वा दन्तकाष्ठं षडङ्गुलम् ।
जौदुंबरं वा संपाद्य यथालाभं समाचरेत्

18.116

"इदं ब्रऽह्मेति मन्त्रेण जिह्माशोधनमाचरेत् ।
"यन्मे गर्भेऽसमुच्चार्य गण्डूषं क्षालनं तथा

18.117

"शन्नोदेवीऽरिति प्रोच्य दद्यादाचमनं ततः ।
"विचक्रमेऽ नमुच्चार्य मुखवासं प्रदापयेत्

18.118

पूर्ववस्त्रं विसृज्यैव परिधाप्यान्यवाससा ।
ग्रीवायाः पृष्ठतः कुर्यादवकुण्ठनमादरात्

18.119

केशान्विकीर्य मन्त्रज्ञो वामभागे च सुस्थितः ।
"उवानहाऽविति प्रोच्य पुरस्तात्पादुकेन्यसेत्

18.120

"भूःप्रपद्येऽ समुच्चार्य प्रणम्य जगतां पतिम् ।
"पर ब्रऽह्मेति मन्त्रेण समादाय तु कौतुकम्

18.121

स्वस्तिसूक्तं ततो जप्त्वा "प्रतद्विष्णुऽरिति ब्रुवन् ।
स्नानपीठे सुसंस्थाप्य पाद्यमाचमनं ददेत्

18.122

अतो देवादिमन्त्रैस्तु तैलमालिप्य मूर्धनि ।
तथैव विष्णुगायत्षा सर्वांगाण्यनुलेपयेत्

18.123

"परिलिखितऽमिति मन्त्रेण सर्वाङ्गमपि शोधयेत् ।
आम्लेन खण्डशीकेन शर्कराभिर्यथोचितम्

18.124

अलाशोधनं कुर्याच्छ्रीपत्रामलकांबुना ।
शालिपिष्टेन गन्धाद्यैरङ्गशोधनमाचरेत्

18.125

विशदं शोधयित्वातु संस्नाप्योष्णेन वारिणा ।
"वारीश्चतस्रऽइत्युक्त्वा शुद्धोदैरभिषेचयेत्

18.126

"नमो वरुणऽइत्युक्त्वा गोक्षीरैरभिषेचयेत् ।
"भूरानिलयऽमन्त्रेण स्नापयेद्गन्धवारिणा

18.127

"अग्निमीलेऽसमुच्चार्य मधुना स्नानमाचरेत् ।
"सीनीवाऽलीति मन्त्रेण हारिद्रोदकसेचनम्

18.128

तत्तद्द्रव्यान्तरे चैव भवेच्छुद्धोदकाप्लपः ।
पुनर्गन्धोदकेनैव "गन्धद्वाराऽ मुदीर्य च

18.129

स्नापयेद्देवदेवेशं तूर्यघोषपुरस्सरम् ।
चतुर्वेदादिमन्त्रैश्च शुद्धोदैस्स्नापयेत्पुनः

18.130

"मित्रस्सुपर्णऽइत्युक्त्वा विमृज्य प्लोतवासना ।
पूर्ववस्त्रं विसृज्यैप परीधाप्य तथेतरत्

18.131

पाद्यमाचमनं दद्यात्पूर्वोक्तेन विधानतः ।
प्रणम्य देवदेवेशं दत्वापुष्बाञ्जलिं ततः

18.132

"भूरसि भूऽरित्युच्चार्य जीवस्थाने निवेशयेत् ।
"त्रिर्देवऽमन्त्रमुच्चार्य दृश्याघन्य्न्तु समर्पयेत्

18.133

ततःप्रोक्ष्य ध्रुवस्थानं गायत्रीमन्त्रमुच्चरन् ।
"संयुक्तमेतऽदुच्चार्य ध्रुवकौतुकयोन्ततः

18.134

संबन्धार्थं न्यसेत्कूर्चं कौतुकाग्रं विधानतः ।
गायत्षा ध्रुवपीठन्तु प्रोक्ष्य शुद्धेन वारिणा

18.135

"विष्णवे नमऽइत्युक्त्वा देवदेवमनुस्मरन् ।
ध्रुवस्य पादयोर्मध्ये पुष्पन्यासं समाचरेत्

18.136

प्रागादि च न्यसेत्तत्र पादक्षिण्यक्रमेण वै ।
चतुर्थ्यन्तेन पुष्पाणिपुरुषं सत्यमच्युतम्

18.137

अनिरुद्धमिति रोच्य महादिक्षु चतुर्षु च ।
आग्नेयादि तथा न्यन्येद्विदिक्षु च क्रमेण वै

18.138

कपिलं चैव यज्ञं च नारायणं पुण्यमेव च ।
प्रथमावरणं चैतद्द्वितीयावरणे ततः

18.139

पूर्वोक्तेन क्रमेणैव वाराहं नारसिंहकम् ।
वामनं त्रिविक्रमं चैव सुभद्रं च ततः परम्

18.140

ईशितात्मानमित्युक्त्वा सर्वोद्वहमतः परम् ।
सर्वविद्वेश्वरं चेति समभ्यर्च्येद्बहिर्मुखान्

18.141

तृतीयावरणे तत्तद्दिगीशांश्च समर्चयेत् ।
श्रीफूम्योर्मूर्तिमन्त्रैश्च देव्योरपि समाचरेत्

18.142

एवं ध्रुवस्य पीठे तु पुष्पन्यास उदाहृतः ।
अथ कौतुकपीठे तु पूर्वोक्तेन क्रमेण वै

18.143

प्राच्यां सुभद्रमावाह्य हयात्मकमतः परम् ।
रामदेवं पुण्यदेवं सर्वं चैव सुखावहम्

18.144

संवहं सुवहं चेति प्रथमावरणेर्ऽचयेत् ।
द्वितीयावरणे तद्वन्मित्र मत्रिं शिवं ततः

18.145

विश्वं सनातनं चैव सनर्थनमतः परम् ।
सनत्कुमारं सनकमर्चयेच्च बहिर्मुखान्

18.146

तृतीयावरणे तद्वल्लोकपालान्त्समर्चयेत् ।
प्रणवादि नमो ऽन्तं स्यादर्चनं न्यास उच्यते

18.147

एकादशभिरष्टाभिरुपचारैस् तथार्चयेत् ।
तत्र देव्योश्च विधिना ध्रुवतेव्योरिवाचरेत्

18.148

मार्कण्डेयं भृगुं चैव देवदक्षिणवामयोः ।
ब्रह्माणं शङ्करं तद्वद्भित्तिपार्श्वे समर्चयेत्

18.149

देवेशाभिमुखानेतान्यथाविधि समर्चयेत् ।
द्वारार्चनं समारभ्य शिष्यः कुर्याद्गुरूदितः

18.150

द्वारे द्वारे द्वारदेवान् द्वारपालान्त्समर्चयेत् ।
विमानपालान् लोकेशांस् तथा चैवऽनपायिनः

18.151

परिवारांस् तथान्यांश्च विष्णुभूतान्तमेव च ।
तत्तन्नाम्ना समभ्यर्च्य "भूरानिलयऽ मन्त्रतः

18.152

द्वारप्रक्षालनं कृत्वा दक्षिणे मध्यवामयोः ।
धर्मं ज्ञानमथैश्वर्य मावाह्य सुसमर्चयेत्

18.153

सर्वत्र द्वारवामे तु रक्षार्थं शान्तमर्चयेत् ।
ततो यवनिकां कुर्याद्द्वारे क्षौमादिनिर्मिताम्

18.154

स्त्रियश्शूद्रान्तु पतिताः पाषण्डा वेदनिन्दकाः ।
देवतान्तर भक्ताश्च पापरोगादिपीडिताः

18.155

अभिशस्ताश्च ये पापाश्शास्त्रेषु तु विनिन्दिताः ।
पूजाकाले तु नार्हन्ति सेवितुं हरिमव्ययम्

18.156

ध्यानमाविश्य तत्काले पूजकस्सुसमाहितः ।
आत्मसूक्तं जपित्वैव साक्षान्नारायणो भवेत्

18.157

विष्णुं व्यापिनमात्मान मखण्डानन्दचिन्मयम् ।
रुक्माभं रक्तनेत्रास्यपाणिपादं सुखोद्वहम्

18.158

किरीटहारकेयूरकुण्डलाङ्गदभूषितम् ।
शङ्खचक्रधरं देवं वरदाभयचिह्नितम्

18.159

श्रीवत्सांकं महाबाहुं कौस्तुभोद्भासितोरसम् ।
शुकपिञ्छांबरधरं प्रलंबब्रह्मसूत्रिणम्

18.160

दिव्यायुधपरीवारं दिव्यभूषाविभूषितम् ।
देवीभ्यां परिवारैश्च सेव्यमानं जगत्पतिम्

18.161

ध्यायेत्सन्निहितं बिंबे नारायणमनामयम् ।
यथाबेरं तथा थात्वा न्यासकर्म ततश्चरेत्

18.162

सुवर्भुवर्भूर् इत्युक्त्वा मूर्ध्नि नाभौ च सादयोः ।
बिंबस्य व्याहृतीर्न्यस्येद्व्याहृतिन्यास उच्यते

18.163

पादयोरन्तरे पीठे यकारं च ततोन्यसेत् ।
अकारं हृदयेन्यस्य चादिबीजं ततःपुनः

18.164

आवेष्ट्य प्रणवेनैतान् प्रणामं पुनराचरेत् ।
पुष्पगन्धाक्षतैर्युक्तं शुद्धोदैरभिपूरितं

18.165

प्रणिधिं चौर्ध्वमुद्धृत्य दीपाद्दीपमिवक्रमात् ।
"इदं विष्णुरितिऽप्रोच्य "चायातु भगवाऽनिति

18.166

प्रणवात्मकमव्यक्तं दिव्यमङ्गलविग्रहम् ।
ध्रुवात्प्रणिधितोये तु कूर्चेवावाहयेद्धरिम्

18.167

तद्व्याप्तं तो यमादाय कौतुकस्य तु मूर्ध नि ।
प्रणवेन समास्राव्य कूर्चेवावाहयेद्गुरुः

18.168

मूर्तिमन्त्रान्त्समुच्चार्य तत्र कार्यं समाचरेत् ।
देव्यौ चैव तथावाह्य सम्यगभ्यर्चयेद्बुधः

18.169

तथैवावाहयेद्विद्वान् विधिना चोत्सवादिषु ।
कैतुकाद्बलिबेरस्य केचिदावाहनं विदुः

18.170

अलङ्कारासनं पश्चात्संकल्स्य च यथाविधि ।
असनं मन्त्रवद्दद्याद्देवेशमनुमानयेत्

18.171

पाद्यमाचमनं चापि दद्यात्पूर्वोक्तमन्त्रतः ।
"तेजोवत्क्यावऽवमन्त्रेण वस्त्रं क्षौमादिचार्पयेत्

18.172

"भूतो भूतेषुऽ मन्त्रेण भूषणैश्च विभूष्य च ।
"सोमस्य तनूरऽसीत्युक्त्वाधारयेदुत्तरीयकम्

18.173

अष्टाक्षरेण मन्त्रेण चोर्ध्वपुण्ड्रं च धारयेत् ।
"अग्निं दूतमिऽति प्रोच्य यज्ञसूत्रं समर्पयेत्

18.174

"तद्विष्णोरिति मन्त्रेण पुष्पाद्यैः पूजयेत्ततः ।
मूर्तिमन्त्रान्त्समुच्चार्य केशवादिभिरेव वा

18.175

अष्टोत्तरशतैस्तद्वदष्टोत्तरसहस्रकैः ।
अनन्तैनान्मभिः पूज्यो ऽनन्तनामा भवान् हरिः

18.176

"तद्विप्रासऽ इति प्रोच्य चन्दनेनानुलेपयेत् ।
"परोमात्रऽयेत्युच्चार्य धूपमाघ्रापयेत्ततः

18.177

"विष्णोः कर्माणिऽ मन्त्रेण दीपं तस्मै प्रदर्शयेत् ।
"त्रिर्देवऽइति मन्त्रेण दद्यादघं च पूर्ववत्

18.178

उपचारेषु सर्वेषु प्रियमघंन्य् हरेस्स्मृतम् ।
तस्मान्निवेदयेद्धीमान् मधुपकोन्पमं शुभम्

18.179

अचमनन्तु तस्यान्ते पूर्वमन्त्रेण कारयेत् ।
द्रोणतण्डुलमादाय तदर्धं पादमेववा

18.180

तण्डुलार्थतिलैर्युक्तं मुखवासफलान्वितम् ।
गृहीत्वा कांस्यपात्रेतु देवस्याग्रे निधाय च

18.181

दशन्येद्देवदेवस्य "सोमं राजानऽमुच्चरन् ।
देवार्पितैस्तु निर्माल्यैः पूजयित्वार्ऽचकं ततः

18.182

"घृतात्पऽरीति मन्त्रेण दशन्यित्वाकरं हरेः ।
अर्चकाय प्रदेयं स्यान्मात्रादानमिति स्मृतम्

18.183

बहुशो दक्षिणां दद्याद्दानसाद्गुण्यसिद्धये ।
"देवस्यऽत्वेति मन्त्रेण परिगृह्य तदर्चकः

18.184

उपयुञ्ज्यात्कुटुंबार्थे स हि दायहरो हरेः ।
देवद्रव्योवभोगे तु यश्शास्त्रैदोन्ष ईरितः

18.185

वैखानसानां तद्दोषा नास्ति देवप्रसादतः ।
प्रणम्य देवदेवेशं मन्त्रैर्वेदादिसंभवैः

18.186

स्त्रोत्रैश्च विविधैन्त्सुत्वा पादे पुष्पाञ्जलिं क्षिपेत् ।
दशन्येद्विविधाकारान् दीपान्मन्त्रेण तत्र तु

18.187

कुंभदीपं समादाय देवाग्रे तु विनिक्षिपेत् ।
वाराहं नारसिंहं च चामनं च त्रिविक्रमम्

18.188

दलेष्वभ्यर्च्य विधिना दीपे लक्ष्मीं समर्चयेत् ।
वर्तिकायां श्रियं चैव धूमे ऽभ्यर्च्यभवं तथा

18.189

प्रोक्ष्योपचारैरभ्यर्छ्य पुष्पगन्धादिभिः क्रमात् ।
"शुभ्रा ज्योतिऽरिति प्रोच्य कराभ्यां परिगृह्य च,

18.190

प्रदक्षिणं त्रिवारं तु दर्शयन् भ्रामयेद्धरिम् ।
सर्ववाद्यसमायुक्तं तं दीपं परिगृह्य च

18.191

शिष्यो वा गणिका वापि देवागारं परीत्य च ।
विसृजेच्चैव तं दीपं पृष्ठे यूथाधिपस्य च

18.192

तद्दीपदर्शनान्नॄणामायुश्श्रीपुत्रसंवदः ।
संभवन्ति न सन्देहो विष्णोर्नी राजनं ही तत्

18.193

चित्रैश्चवालव्यजनैस् तत्काले वीजयेद्गुरुः ।
दर्बणं चामरं छत्रं व्यजनं चतुरङ्गकम्

18.194

नृत्तं गीतं च वाद्यं च वैष्णवं मन्त्रमुच्चरन् ।
देवस्य दर्शयित्वातु स्तोत्रं वेदैःक्रमाच्चरेत्

18.195

तथा नानाविधैस्तोत्रैश्श्रावयेदच्युतं हरिम् ।
अनुक्तं चैव यत्सर्वमूहयित्वा समाचरेत्

18.196

श्रीभूम्योहृन्दये न्यस्य तत्तद्बीजाक्षरं पृथक् ।
तत्सूक्ताभ्यां षोडशोपचारैरभ्यर्चयेत्क्रमात्

18.197

उत्चवादेश्च पूर्वोक्तं सर्वमर्चनमाचरेत् ।
ततोभोज्याननं चैव संकल्प्य च यथाविधि

18.198

घृतं मधु गुडं चैव पयो दधि समन्वितम् ।
प्रस्थमात्रं तु संग्राव्यां मधुपकन्मिहोच्यते

18.199

"यन्मधुनेति मन्त्रेण मधुपाकं निवेदयेत् ।
पश्चादाचमनं दत्वाशिष्यं कार्ये नियोजयेत्

18.200

"अथावनीदऽमन्त्रेण शोधयित्वा स्थलं ततः ।
मण्डलं चतुरश्रं च कारयेत्बरिचारकः

18.201

हविः पात्राणि संशोध्य रविमभ्यर्छ्य तेषु वै ।
अभिघार्य घृतेनैव हविस्तत्र तु निक्षिपेत्

18.202

"अमृतोपस्तरणमऽसीत्यत्र कार्यं समाचरेत् ।
उपदंशादिकं तत्र गुडं दधि फलानि च

18.203

निक्षिप्य विष्णुगायत्षा पृथक्पात्रेष्वसंकरम् ।
"यत्ते सुसीमऽ मन्त्रेण गोघृतेनाभिघार्य च

18.204

देवस्याग्रे तु निक्षिप्य त्रिपादेषु यथाविधि ।
हविरर्पणकाले तु न सेव्यो हरिरुच्यते

18.205

तस्माद्वैखानसान् हित्वा ब्राह्मणा अन्यसूत्रिणः ।
न विशेयुस्तथान्ये च तत्काले विष्णुमन्दिरम्

18.206

कवाटं बन्धयेत्पश्चात् घण्टानादं च कारयेत् ।
तूर्यघोषादिकं कुर्यान्मृडुवाद्यप्रियो हरिः

18.207

ततोर्ऽचकः प्रसन्नात्मा देवदेवमनुस्मरन् ।
हविःपात्रेषु तुलसीं निक्षिप्याष्टाक्षरेण तु

18.208

पुष्पैरभ्यर्च्य संप्रोक्ष्य प्रणवैः परिषिच्य च ।
अभिमृश्यान्नसूक्तेन सुरभिमुद्रां प्रदर्श्य च

18.209

"तदस्य प्रियऽमित्युक्त्वा हविरुष्णं निवेदयेत् ।
"सुभूस्स्वयंभूंऽत्युक्त्वा अपूपं च निवेदयेत्

18.210

पृथुकादीनि चान्यानि "विश्वभेषजऽमन्त्रतः ।
अपक्वानि च वस्तूनि सर्वमष्टाक्षरेण तु

18.211

"इदं विष्णुऽस्समुच्चार्य पानीयं स्वादु शीतलम् ।
निवेदयित्वा गण्डूषं पाद्यमाचमनं ददेत्,

18.212

"घृतात्बऽरीति मन्त्रेण मुखवासं प्रदापयेत् ।
विष्णुगायत्रीमुच्चार्य दद्यात्पुष्पाञ्जलिं ततः

18.213

नित्याग्निकुण्डे छुल्ल्यां वा परिषिच्य च पावकम् ।
चरुणाज्येन जुहुयास्मूर्तिमन्त्रैःक्रमाद्बुधः

18.214

देव्यादिभ्यस्तथा हुत्वा वैष्णवं च यजेत्क्रमात् ।
पुष्पन्यासोक्तदेवेभ्यः पाषन्दानां तथैव च

18.215

त्रिकालेषूत्तमं प्रोक्तमधमं प्रातरेवहि ।
प्रातर्मध्याह्नयोश्चैव मध्यमं होमलक्षणम्

18.216

रक्षेदग्निमविच्छिन्नमशक्तो यश्च रक्षितम् ।
समिध्यात्मनि वारोप्य प्रणीयाहरहर्यजेत्

18.217

ततोयात्रासनं विद्वान् संकल्प्य विधिना बुधः ।
प्रोक्ष्यालङ्कृत्य चादाय रथं वा चतुरन्तरम्

18.218

बलिबेरं समारोप्य सर्वालङ्कारसंयुतम् ।
"रथन्तरंऽ समुच्चार्य तत्र कार्यं समाचरेत्

18.219

"योगेशं परंब्रह्माणं परमात्मानमित्यपि ।
भक्तवत्सलऽमित्युक्त्वा मूर्तिमन्त्रैस्तथा हरिम्

18.220

नाराचरज्ज्वा नुदृढं बन्धयेद्रहसिक्रमात् ।
"विष्णुस्त्वाऽमिति मन्त्रेण पादौ सृष्ट्वा नमेन्मुहुः

18.221

"सोमं राजानऽमुच्चार्य छत्रं मूर्धनि धारयेत् ।
"मरुतः परमाऽत्मेति पार्श्वयोश्चामरे ददेत्

18.222

"वायुपऽरीति मन्त्रेण व्यजनैर्वीजयेद्धरिम् ।
तथान्यैस्सुमहाहैन्श्च युक्तोदिव्यपरिच्छदैः

18.223

घण्टारवेण संयुक्तं शङ्खभेरीनिनादितैः ।
भेरीमृदङ्गपणवनिस्सालैः काहलैरपि

18.224

मर्दलैर्दिव्यवाद्यैश्च लयश्रुतिसमन्वितैः ।
उपतिष्ठेज्जगद्योनिं नारायणमनामयम्

18.225

शिष्यमाहूय तत्काले सोष्णिषं सोत्तरीयकर्म् ।
ऊर्ध्वेपुष्पं च सन्न्यस्य प्रोक्षयित्वा च मन्त्रतः

18.226

तस्योष्णीषोपरिस्थाप्य बलिपात्रं विचक्षणः ।
अलङ्कृत्य च माल्याद्यैःपूजयेत्ताक्षन्य्वत्स्मरेत्

18.227

वाहयित्वा बलिं तेन बलिपात्रेण चैव हि ।
सर्वद्वारेषु सर्वत्र पुष्पन्यासोक्तमागन्तः

18.228

पूर्वान्तमुत्तरान्तं च निक्षिपेत्तु बलिं क्रमात् ।
तोयं पुष्पं बलिं तोयं चत्वारस्तत्र विग्रहाः

18.229

ततो देवं समानीय क्रममाणाश्शनैश्सनैः ।
वाहका वाहयेयुस्तं रथं सर्वङ्गसुन्दरम्

18.230

क्रमेण नम्रकायस्तु क्षिपेच्छिष्यो बलिं क्रमात् ।
बलिं दत्पाग्रतो गच्छेद्देवेन सह वा पृथक्

18.231

ततो देवं क्रमान्नीत्वा प्रादक्षिण्यक्रमेण वै ।
तत्काले तु बलिर्देय स्तत्क्रमस्तुप्रवक्ष्यते

18.232

मणिकं च ततस्सन्ध्यां प्रधमद्वारपालकौ ।
तापसं सिद्धिदं चैव द्वितीय द्वारपालकौ

18.233

न्यक्षेन्द्रावन्तराले च यथाविधि समर्चयेत् ।
प्रथमावरणद्वारे किष्किन्धं तीर्धमेव च

18.234

द्दितीयावरणद्वारे गणेशं शेषमर्चयेत् ।
तृतीयावरणद्वारे शङ्खपद्मनिधी तथा

18.235

तुहिणं च बलिन्दं च चतुर्थावरणे तथा ।
पञ्चमावरणे चैव खड्गं शाङ्खं समर्चयेत्

18.236

षष्ठे चावरण शङ्खचक्रचूडौ समर्चयेत् ।
चण्डं तथा प्रचण्डं च सप्तमावरणेर्ऽचयेत्

18.237

सोपानमध्ये श्रीभूतं गरुडं च समर्चयेत् ।
हवीरक्षकमग्निं च आग्नेय्यां सम्यगर्चयेत्

18.238

विमानदक्षिणे पार्श्वे विवस्वन्तं यमं तथा ।
नैरृत्यां वाद्यऽरक्षं च निरृतिं च समर्चयेत्

18.239

पश्चिमे मित्रमभ्यर्च्येत्तथा वरुणमेव च ।
वायव्यामर्चयेच्चैव पुष्पेशमरुतौ तथा

18.240

उत्तरस्यां तु क्षत्तारं कुबेरं च समर्चयेत् ।
ईशानं भास्करं चैव तथैशान्ये समर्चयेत्

18.241

भूतपीठे समभ्यर्च्य चक्रं चैव ध्वजं तथा ।
शङ्खं यूथाधिपं चैव अक्षहन्तं तथार्चयेत्

18.242

पीठस्य दक्षिणे भागे "ये भूताऽ इति मन्त्रतः ।
भूतयक्षपिशाचेभ्यो बलिशेषं तु निर्वपेत्

18.243

पादौ प्रक्षाल्य चाचम्य तत्र कार्यं समाचरेत् ।
नृत्तगेयादियुक्तं तु दिव्यस्तोत्रैस्समन्वितम्

18.244

प्रदक्षिणत्रयं कृत्वा भ्रामयित्वा जगद्गुरुम् ।
सोपानमध्ये संस्थाप्य रज्जुबन्धं विसृज्य च

18.245

जयशब्दैस्तथामन्त्रैर्दद्यान्नी राजनं ततः ।
ततो देवं समादाय स्वस्थाने तु निवेशयेत्

18.246

विष्णुसूक्तं समुच्चार्य प्रणामं मुहुराचरेत् ।
दद्यात्पुष्पाञ्जलिं चैव द्वादशाष्टषडक्षरैः

18.247

पौरुषं सूक्तमुच्चार्य प्रणवं च समुच्चरन् ।
मुखवासं समर्प्यैव शक्तितो दक्षिणां ददेत्

18.248

ततःपतद्ग्रहात्तीर्थमादायैव तु पूजकः ।
त्रिःपिबेन्नियतो भूत्वा तुलसीमपि भक्षयेत्

18.249

प्रत्यूषश्च प्रभातश्च मध्याह्नश्चापराह्मकः ।
सायङ्कालो निशीथश्च पूजाकालान्तु षट् स्मृताः

18.250

प्रातःकालेर्चनं कुर्याज्जपहोमाभिवृद्धये ।
राजराष्ट्राभिवृद्ध्यर्थं मध्याह्नार्चनमिष्यते

18.251

सायङ्कालेर्ऽचनं चैव सर्वसस्याभिवृद्धये ।
उषःकालार्ऽचनं प्रोक्तं प्रजापशुविवृद्धये

18.252

अपराह्णार्चनं चैव दैत्यनाशनहेतवे ।
अर्धरात्रार्ऽचनं प्रोक्तं चतुष्पादभिवृद्धये

18.253

एवं षट्कालपूजायां फलमुक्तं विशेषतः ।
षट्कालं वा त्रिकालं वा द्विकालं कालमेव वा

18.254

पूजनं देवदेवस्य त्वैहिकामुष्मिकप्रदम् ।
षट्काल पूजने कुर्यादादावाहनंबुधः

18.255

तथान्त्य वेलार्चनायां कुर्यादुद्वासनं परम् ।
उपसन्ध्यासु देवेशमासनाद्यष्टविग्रहैः

18.256

समभ्यर्च्य हविर्दद्याद्विना होमं बलिं तथा ।
पुष्पन्यासं च होमं च परिवारार्चनं बलिम्

18.257

नित्ययात्रोत्सवं चैवेत्युपसन्ध्यासु वर्जयेत् ।
त्रिकालमर्चने ऽन्यत्र म्नपनं प्रातरेव ही

18.258

प्रोक्षणं चान्यकाले तु मन्त्रेणेत्याह पूजनम् ।
शिष्याणामप्यभावे तु वर्षाद्युपहतौ तथा

18.259

तथा वाद्याद्यभावे वा बलिकाले समागते ।
तदा देवान्त्समावाह्य द्वाराग्रे निक्षिपेद्बलिम्

18.260

सूर्यस्त्वामन्त्रमुच्चार्य कवाटं बन्धयेत्ततः ।
मध्याह्ने चैव सायाह्ने काले काले तथाचरेत्

18.261

तथैवोद्घटयेत्काले सर्वं पूर्ववदर्चनम् ।
पुष्पं द्वारार्चितं शोध्य पुनर्द्वारे समर्चयेत्

18.262

ध्रुवपीठेतु पुष्पाणि न शोध्यानि पुनःपुनः ।
तानि पुष्पाण्यनुद्धृत्य तदूर्ध्वे न्यासमाचरेत्,

18.263

सायार्चने तु तानि स्युनिन्र्माल्यानि न चान्यतः ।
कौतुकाद्यर्चितं पुष्पमादाय विधिना बुधः

18.264

पीठे पार्श्वे निधायान्यैरर्चयेत्तु नवैर्नवैः ।
अन्त्यवेलार्चनान्ते तु संकल्ब्य शयनासनम्

18.265

विमुच्य वस्त्रमाल्यादीन् सूक्ष्मवस्त्रं समर्प्य च ।
अभ्यर्च्य पुष्बगन्धाद्यैर्देवदेवं श्रियःपतिम्

18.266

सर्वौषधिविमिश्रं च कषायं तोयमेव च ।
निवेद्य देवदेवस्य मुखवासंप्रदापयेत्

18.267

"यद्वैष्णवऽमिति प्रोच्य मृदुवाद्यैर्मनोरमैः ।
दिव्योपधानसहिते दिव्यालङ्कारशोभिते

18.268

परिष्कृते वितानाद्वैर्दिव्यधूपैः सुधूपिते ।
महाहान्स्तरणोपेते शयने शाययेद्धरिम्

18.269

श्रीभूम्यौ च समादाय तन्मन्त्राभ्यां क्रमाद्गुरुः ।
शाययेद्देवपाशेन्व् तु "ध्रुवन्तऽइति चोच्चरेत्

18.270

"अरिचितस्सुष्टुतश्चासि सुपर्णगरुडध्वज ।
चक्रपाणे महाबाहो यथेष्टं वस ओं नमःऽ

18.271

इति मन्त्रं समुच्चार्य भक्त्या परमाया युतः ।
प्रातरावाहितां शक्तिं ध्रुवबेरे ऽवरोपयेत्

18.272

प्रदक्षिणं प्रणामं च कृत्वा मन्त्रेण देशिकः ।
स्तुत्वा पुरुषसूक्तेन विष्णुगायत्रिया तथा

18.273

व्यापकत्रयमन्त्रैश्च तथा "विष्णोर्नुकाऽदिभिः ।
"अतो देवाऽदिभिर्मन्त्रैर्मन्त्रैरन्यैश्च वैष्णवैः

18.274

एकाक्षरादिसूक्तैश्च द्वादशाष्टषडक्षरैः ।
मुहुःपुष्पाजलिं दत्वाक्षामयेद्दोषसंचयम्

18.275

अथ वक्ष्ये विशेषेण पूजनं चौत्सवादिषु ।
ब्रह्मस्थानं कौतुकस्य पूर्वमेव समीरितम्

18.276

पाशन्व्योःकौतुकस्याथ स्थापयेत्स्नापनौत्सवौ ।
उत्तरे कौतुकस्यैव बलिबेरस्य संस्थितिः

18.277

गर्भालयस्य संकोचे त्वथ वा मुखमण्डपे ।
अन्तराले ऽथ वा स्थाप्य पूजयेत्स्नापनौत्सवौ

18.278

स्नापनौत्सवयोःकुर्यात्पूर्वोक्तार्चनमुत्तमम् ।
आसनाद्युपचारांश्च कल्पयेत् षोडशाथ वा

18.279

त्रयोदशोपचारैश्च शान्तं सम्यक्समर्चयेत् ।
नवोपचारैरभ्यर्च्येदनपायिगणांस् तथा

18.280

द्वारदेवान् द्वारपालान् लोकपालांस्तथैव च ।
अष्टोपचारैरभ्यर्च्येन्मूर्तिमन्त्रैः समाचरेत्

18.281

इतरान् परीवारांश्च यजेत् षोडशविग्रहैः ।
तथैव पाकलक्ष्म्याश्च द्वारलक्ष्म्याश्च कारयेत्

18.282

श्रीवत्सलक्ष्म्याश्च तथा देवेन सह चाचरेत् ।
अवतारप्रतिष्ठायां ध्रुवर्चां वाथ कारयेत्

18.283

त्रिविक्रमप्रतिष्ठायां ध्रुवार्चामर्चयेत्ततः

मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc