भाषा

ENहिગુ
ग्रंथ पाठ

भृगुसंहिता · अध्याय 17

17.1

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे षोडशो ऽध्यायः
अथ सप्तदशो ऽध्यायः.
अथ सप्तदशो ऽध्यायः.अदिमूर्तिकल्पः
अथ वक्ष्ये विशेषेण केशवादिविनिर्णयम् ।
केशवं तु प्रकुर्वीत सौम्यरूपं चतुर्भुजम्

17.2

शङ्खचक्रगदापद्मधरं स्वर्णाभवे व च ।
सर्वालङ्कारसंयुक्तं मुक्ताहारविभूषितम्

17.3

स्थितमेवं प्रकुर्वीत देवीभ्यां सहितं प्रभुम् ।
नारायणं प्रकुर्वीत घनश्यामं चतुर्भुजम्

17.4

शङ्खपद्मधकं देवं बिभ्रन्तं च गदामसिम् ।
भूषितं मणिभूषाभिः वीतवाससमच्युतम्

17.5

प्रकुर्याच्च विशेषेण लक्ष्मीनारायणं शुभम् ।
उत्तमं दशतालेन मानोन्मानप्रमाणतः

17.6

सिंहासने समासीनं दक्षिणांघ्रिं प्रसार्य च ।
आसने निहितं वामं लक्षणं पूर्ववत्तथा

17.7

लक्ष्मीं सन्न्यस्य वामोरौ मुखे हर्षसमन्विताम् ।
प्रसारितकरां देवीं पञ्चतालप्रमाणतः

17.8

प्राञ्जलीकृतहस्तां तां सर्वाभरणभूषिताम् ।
वामेन तां परिष्वज्य दक्षिणेनाभयप्रदम्

17.9

अन्याभ्यां च कराभ्यां च शङ्खचक्रधरं परम् ।
तार्क्ष्यंस्कन्धासनस्थं वा अन्यत्सर्वं च पूर्ववत्

17.10

तार्क्ष्यं नवार्धतालेन अर्धेषद्भृकुटिं? मुखम् ।
दक्षिणोरौ स्थितां लक्ष्मीं केचिदिच्छन्तिसूरयः

17.11

नागभोगे समासीनमेवं कुर्यात्तु वा हरिम् ।
सप्तभिः पञ्चभिर्वापि फणैर्विस्तारितैर्युतम्

17.12

शेषं सम्यक्प्रकुर्वीत समुत्तुङ्गशरीरिणम् ।
माधवं चोत्पलनिभं चक्रचावगदासिभिः

17.13

चतुर्भुजधरं कुर्याच्चित्रमाल्यांबरं हरिम् ।
गोविन्दं पाण्डुराभं च चतुर्भुजधरं हरिम्

17.14

गदाशङ्खारिपद्मानि बिभ्रन्तं कारयेद्बुधः ।
विष्णुं नीलोत्पलाभन्तु शङ्खार्यब्जगदाभृतम्

17.15

सर्वाभरण संयुक्तं पीतवाससमच्युतम् ।
रक्तोत्पलाभं कुर्वीत देवं तु मधुसूदनम्

17.16

शङ्खार्यब्जगदापाणिं चतुर्भुजमनामयम् ।
त्रिविक्रमं नीलवर्णं शङ्खार्यब्जगदाभृतम्

17.17

चतुर्भुजधरं देवं सर्वाभरणभूषितम् ।
वामनं मेघवर्णं तु चतुर्बाहुं महाबलम्

17.18

गदाशङ्खारिपद्मानि बिभ्रन्तं छलरूपिणम् ।
अथ वा कारयेत्कुंभं दध्यन्नं च करद्वये

17.19

दधिवामनमाहुस्तं श्वेताभं द्विभुजं हरिम् ।
अथ वा वटुरूपं तु धृत्वा दण्डकमण्डलू

17.20

स्वर्णच्छमि बालरूपं द्विभुजं कारयेद्धरिम् ।
सितासिताभं कुर्वीत श्रीधरं तु चतुर्भुजम्

17.21

कौमोदकीशङ्खचक्रपद्मधारिणमीश्वरम् ।
हृषीकेशं प्रकुर्वीत श्यामाभं च चतुर्भुजम्

17.22

गदाशङ्खारिपद्मानि बिभ्रन्तं हरिमव्ययम् ।
सितमेचकवर्णन्तु पद्मनाभं प्रकल्पयेत्

17.23

कौमोदकीचक्रपद्मशङ्खपाणिं रमाधवम् ।
दामोदरं प्रकुर्वीत सितगौराभमीश्वरम्

17.24

पद्मशङ्खगदाचक्रधरं देवं चतुर्भुजम् ।
संकर्षणं तु कुर्वीत श्वेतवर्णं चतुर्भुजम्

17.25

शङ्खार्यब्जगदापाणिं सर्वाधारं सनातनम् ।
वासुदेवं प्रकुर्वीत तरुणादित्यसन्निभम्

17.26

शङ्खचक्रगदापद्मधरं सर्वधरं विभुम् ।
चन्द्राभं नवकुन्दाभमथ वा कालयेद्धरिम्

17.27

प्रद्युम्नं तु सुवर्णाभं कुर्याद्देवं चतुर्भुजम् ।
चक्रशङ्खगदापद्मधरं देवं महाबलम्

17.28

अनिरुद्धं हिरण्याभं सर्वालङ्कारसंयुतम् ।
शङ्खचक्रधनुःखड्गधरं देवेश्वरेश्वरम्

17.29

सितासिताभं कुर्वीत देवेशं पुरुषोत्तमम् ।
शङ्खचक्रगदापद्मधरं देवं चतुर्भुजम्

17.30

अथोक्षजं प्रकुर्वीत शङ्खाभं च चतुर्भुजम् ।
चक्रशङ्खगदापद्मधरं भूषणभूषितम्

17.31

नारसिंहं तु मेघाभं सर्वालङ्कारसंयुतम् ।
शङ्खपद्मगदाचक्रधरं भक्ताभयप्रदम्

17.32

सितमेचकवर्णं तु कुर्वीत विभुमच्युतम् ।
गदाब्जचक्रशङ्खाङ्कं चतुर्भुजविराजितम्

17.33

जनार्दनमुदाराङ्गं नीलवर्णं समाचरेत् ।
चक्रशङ्खगदापद्मधरं देवं सनातनम्

17.34

अथ वा कटिविन्यस्तवामहस्तं प्रकल्पयेत् ।
उपेन्द्रं घनकृष्णाभं सर्वाभरणभूषितम्

17.35

शङ्खचक्रगदापद्मधरं देवं जगत्प्रभुम् ।
हरिं पाण्डुरकृष्णाभं सर्वालङ्कारशोभितम्

17.36

शङ्खपद्मगदाचक्रधरं कुर्यान्मनोहरम् ।
कृष्णं तु नीरदश्यामं पुण्डरीकनिभेक्षणम्

17.37

शङ्खचक्रगदापद्मधरं कुर्याद्विचक्षणः ।
सर्वेषां तु विमानानि विष्णोरुक्तवदाचरेत्

17.38

सभ्यकुण्डे प्रधानाग्नौ हौत्रं तत्र प्रशंस्य च ।
"केशवं क्लेशसंहारं विष्णुं चैव परात्परम्ऽ

17.39

"नारायणं नरं विष्णुं नरकान्तकऽ मित्यपि ।
"माधवं पुण्डरीकाक्षं विष्णुं सर्वात्मकंऽ त्विति,

17.40

"गोविन्दं परमानन्दं विष्णुं चैव सनातनम्ऽ ।
.विष्णुं व्यापिनमीशानं सर्वलोकाधिपं तथा

17.41

"मधुसूदनमुद्योगं महान्तं विष्णुऽमित्यपि ।
"त्रिविक्रमं त्रिलोकेशं लोकाधारं सनातनम्ऽ

17.42

"वामनं वरदं चैव काश्यपिं चादितिप्रियम्ऽ ।
"श्रीधरं पुरुषं चेति विष्णुं श्रीवत्सवक्षसम्ऽ

17.43

"हृषीकेशं जगन्नाथं विष्णुं विश्वमयंऽ तथा ।
"पद्मनाभं सुरेशं च विष्णुं चैव जगत्पतिम्.ऽ

17.44

"दामोदरं सदाधारं विष्णुं प्रणवरूपिणम्ऽ ।
"संकर्षणं यदुवरं विष्णुं हलधरऽन्तथा

17.45

"वासुदेवं पुण्यमूर्तिं भद्रेशं पुण्यरूपिणम्ऽ ।
"प्रद्युम्नं जगदीशानं विष्णु पुण्यात्मकंऽ तथा

17.46

"अनिरुद्धं महान्तं च वैराग्यं सर्वतेजसम्ऽ ।
"पुरुषोत्तममानन्दं विष्णुं पञ्चात्मकंऽ तथा

17.47

"अधोक्षजमनादिं च विष्णुं व्यापकऽ मित्यपि ।
"नारसिंहं तपोनाथं महाविष्णुं महाबलम्ऽ

17.48

"अच्युतं चापरिमितमैश्वर्यं श्रीपतिंऽ तथा ।
.जनार्दनमनाद्यन्तं विष्णुं तेजोमयंऽ तथा

17.49

"उपेन्द्रमिन्द्रावरजं विष्णुं वैकुण्ठऽमित्यपि ।
"हरिं पापहरं चेति विष्णुं मङ्गलविग्रहम्

17.50

"कृष्णं नारायणं पुण्यं त्रिदशाधिपऽमित्यपि ।
आवाह्य तु क्रमेणैव निरुप्याज्याहुतीर्यजेत्

17.51

"विष्णोर्नुकाऽदभिष्षड्भि"रतोदेवाऽदभिस्तथा ।
केशवादिद्वादशानां मन्त्रैर्द्वादशभिर्हुनेत्

17.52

नारसिंहस्य कृष्णस्य मन्त्रः पूर्वमुदीरितः ।
इतरेषां दशानां तु दशमन्त्राः प्रकीर्तिताः

17.53

"विष्णुस्सर्वेषाऽमित्यादि "यं यज्ञैऽरन्तमीरिताः ।
तं तं देवं समुद्दिश्य तत्तन्मन्त्रेण चात्वरः

17.54

शतमष्टाधिकं हुत्वा शेषं पूर्ववदाचरेत् ।
एवं सर्वत्र कुर्वीत देवीभ्यां सहितं विभुम्

17.55

तद्रूपं कौतुकं कुर्यात्सर्वलक्षणलक्षितम् ।
कर्षणादिक्रियास्सर्वा विष्णोरिन समाचरेत्

17.56

लक्ष्मीकल्पः
अथ वक्ष्ये विशेषेण लक्ष्मीस्थापनमुत्तमम् ।
अष्टधा प्रोच्यते लक्ष्मीः प्रथमा त्वनपायिनी

17.57

विष्णोर्वक्षस्थ्सलेकार्या सर्वालङ्कारसंयुता ।
दक्षस्तनस्योर्ध्वभागे वह्न्यश्रेदिव्यमण्डले

17.58

पद्ममध्ये समासीनां पद्मद्वयकराञ्चिताम् ।
वरदाभयहस्तां च मन्दस्मित मुखांबुजाम्

17.59

एवं रूपां प्रकुर्वीत योगलक्ष्मीस्तुसा मता ।
योगलक्ष्मीं प्रतिष्ठाप्य श्रीकामस्सम्यगर्चयेत्

17.60

देवेशेन समं कुर्यादस्यास्थ्चापनमुत्तमम् ।
कालान्तरे प्रकुर्याच्छेद्धेमरूप्यादिना पुनः

17.61

कृत्वा श्रीवत्सरूपं तु धारयेद्विष्णुमव्ययम् ।
तत्तद्बिंबानुरूपं च कुर्याच्छ्रीवत्सलक्षणम्

17.62

भोगलक्ष्म्यस्समाख्याता श्श्रीभूनीलाः क्रमादिमाः ।
ध्रुवादिषु तु बेरेषु श्रीभूम्यौ देवपाशन्व्गे

17.63

वैकुण्ठमार्गसंचारा नीला नित्यसमाश्रिता ।
श्रीभूम्योस्थ्सापनं पूर्वं देवेशेन सहोदितम्

17.64

देवीभ्यां रहिते देवे कुर्यात्कालान्तरे पुनः ।
पृधक्प्रतिष्ठां श्रीभूम्योः कुर्यादाङ्गिरसोक्तिवत्

17.65

वीरलक्ष्मीरिति प्रोक्ता पृथगालयसंगता ।
अलयाद्दक्षिणे पार्श्वेकुर्यात्तु पृथगालयम्

17.66

दशतालेन मानेन कुर्याद्देवीन सलक्षणाम् ।
पद्मद्वयकरां चैव वन्दा भयधारिणीम्

17.67

किरीटमुकुचोपेतां सर्वालङ्कारशोभितम् ।
पद्मासने समासीनां हेमाभां सर्वमङ्गलाम्

17.68

गोदामन्यां प्रकुर्वीत लक्ष्मीं तु विजयाभिधाम् ।
नवतालें मानेन कुर्यादन्यालयाश्रिताम्

17.69

दक्षिणेन तु हस्तेन कल्हारं दधतीं तथा ।
प्रसारितेतरकरां बद्धधम्मिल्लशोभिनीम्

17.70

सर्वालङ्कारसंयुक्तां तिष्ठन्तीमेव कारयेत् ।
गोदा भूम्यंशजा प्रोक्ता तन्मन्त्रेणाचरेत्क्रियाः

17.71

पाकलक्ष्मीस्समाख्याता पचनालयसंगता ।
अष्टतालेन मानेन कुर्यात्तां पचनालये

17.72

पद्मद्वयाञ्चितकरां वरदाभयधारिणीम् ।
आसीनां वाथ तिष्ठन्तीं कुर्याद्भूषणभूषिताम्

17.73

द्वितीय मण्डपद्वारे द्वारलक्ष्मीं समाचरेत् ।
पतङ्गपट्टिकामध्ये सर्वालङ्कारशोभिताम्

17.74

पद्मद्वयाञ्चितकरां वरदाभयधारिणीम् ।
पद्मासने समासीनां किरीटादिविभूषिताम्

17.75

गजै तु पाशन्व्योःकुर्याद्धेमकुंभकरौ पुनः ।
सिंचन्तौ तौ महालक्ष्मीं कुर्यात्कुंभजलैस्तथा

17.76

श्रीभूम्योर्वीरविजयलक्ष्म्योरेव विधीयते ।
ध्रवबेरानुरूपेण बेरान्तरसमर्चनम्

17.77

तद्रूपं कौतुकं कुर्यादुत्सवादि यथेच्छया ।
अन्यासांनैव कुर्वीत ध्रुवार्चामेव कारयेत्

17.78

पैण्डरीके प्रधानाग्नौ हौत्रं तत्र प्रशंस्य च ।
श्रीभूम्योर्मूर्तिमन्त्रैश्च क्रमेणावाहनादिकम्

17.79

"गोदां कृष्णप्रियां लक्ष्मीं रुक्मिणीऽमिति चाह्वयेत् ।
आवाहनक्रमेणैव तन्मन्त्रैर्जुहुयात्क्ररूत्

17.80

प्रतिष्ठोक्तक्रमेणैव सर्वं पूर्ववदाचरेत् ।
नवषट्पञ्चमूर्तीनां विमानस्यालयस्य च

17.81

द्विमूर्तिस्थापनं तद्वत्रिमूर्तस्थापनं तथा ।
अन्येषां परिवाराणां स्थापनं विधिवच्चरेत्

17.82

यद्यत्समर्प्यते वस्तु देवेशस्य तु मन्दिरे ।
तत्तत्सर्वं विधानेन प्रतिष्ठाप्य समर्पयेत्

17.83

असंस्कृतं तु न ग्राह्यं न तद्देवप्रियं भवेत् ।
भूषणानि च वा सांसि पात्राण्यन्यत्परिच्छदम्

17.84

बेरालङ्कारयोग्यानि धामालङ्करणानि च ।
यथाहंन् संस्कृतान्येव गृह्णीयात्सफलं भवेत्

17.85

तत्तद्द्रव्याधिदैवत्यं देवतामूर्तिमन्त्रकम् ।
जुहुयात्सर्वमन्यच्च प्रतिष्ठोक्तवदाचरेत्

17.86

द्रव्याधिदेवताकल्बस्सम्यगुक्तो मयाखिले

मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc