भाषा

ENहिગુ
ग्रंथ पाठ

भृगुसंहिता · अध्याय 16

16.1

इति श्रीवैखानसे
भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
प्रकीर्णऽधिकारे पञ्चदशो ऽध्यायः
अथ षोडशो ऽध्यायः.
अथ षोडशो ऽध्यायः.
दशावतारकल्पः(कृष्णः)
अथातस्संप्रवक्ष्यामि कृष्णस्य स्थापनं बुधाः ।
कृष्णस्यालयमुद्दिष्टं कुंभाकारविमानके

16.2

कूटे वा गोपुरे वापि पर्वताकृतिके ऽपिवा ।
कृष्णस्य बालरूपस्य वयसा तालमानकम्

16.3

एकवर्षं समारभ्य यावत्बञ्चाब्दमादरात् ।
तालत्रयक्रमेणैव यथायोगं प्रकल्पयेत्

16.4

वेदवर्षं समारभ्यषट्तालत्रयमेव वा ।
सप्तवर्षं समारभ्य सप्ततालत्रयं तथा

16.5

दशवर्षं समारभ्य अष्टतालत्रयं तथा ।
त्रयोदश समारभ्य नवतालत्रयं तथा

16.6

एवं वयःक्रमेणैव तालमानं तथोच्यते ।
तिष्ठन्तमेकपीठस्थं रुक्मिण्या सत्यभामया

16.7

कृष्णं च बालवपुषं श्यामलं पीतवाससम् ।
रुक्मिणीं कनकाभां तां सत्यभामां च श्यामलाम्

16.8

वासुदेवं गुडाकेशं सर्वाभरणभूषितम् ।
क्रीडयष्टिधरं देवं त्रिभङ्गध्यानसंयुतम्

16.9

स्वस्तिकं दक्षिणं पादं वामपादं तु कुञ्चितम् ।
तिष्ठन्तमङ्गुलिस्थाने चांगुष्ठस्थितिमाचरेत्

16.10

किञ्चित्कुञ्चितजान्वन्तवामपादस्थितिर्भवेत् ।
वक्त्रं चैव तथा गात्रं कटिभागं तथैव च.

16.11

त्रिषुमार्गेषु भङ्गित्वात्त्रिभङ्गित्वं विधीयते ।
वक्त्रं दक्षिणतो भागे मध्यभागं तु वामतः

16.12

कटीर्दक्षिणतो भागे भङ्गत्रयमुदाहृतम् ।
दक्षिणं कटिकं हस्तं क्रीडायष्टिसमन्वितम्

16.13

दक्षिणे यष्टिहस्तन्तु नाभिसूत्रादधोन्नतम् ।
भूतवेदगुणाङ्गुल्या विधिना सहितालतः?

16.14

वामं देव्योर्भुजासक्तं वामहस्तमधोमुखम् ।
हिक्कासूत्रादधो वामं कूर्परं स्याद्दशाङ्गुलम्

16.15

षट्सप्ताष्टांगुलाधिक्योन्नतं वा कालयेत्क्रमात् ।
वामहस्ततलाग्रन्तु नाभिमात्रन्तु योजयेत्

16.16

वेणुं च तरवेगं तु हस्ताभ्यां पीडयेत्क्रमात् ।
ऊर्ध्वकायसमं वेणुं क्रीडायष्टिं तु तत्समम्

16.17

त्रिणतं श्यामलाङ्गं च द्विभुजं रक्तवाससम् ।
चतुर्भुजं वा कुर्वीत शङ्खचक्रधरं परम्

16.18

सुस्थितं वामपादेन दक्षिणेनैव बन्धयेत् ।
सर्वाभरणसंयुक्तं सुन्दरं सौम्यलोचनम्

16.19

देवीभ्यां सहितं कुर्या द्रहितं वात्र केचन ।
देवस्य वामे गरुडं प्राञ्जलीकृत्य नुस्थितम्

16.20

पक्षद्वययुतं कुर्यात्तालपत्रस्य मूलवत् ।
नवनीतनटं कुर्यात्तथा कालीयमर्दनम्

16.21

पार्थसारथिरूपं तु देव्योश्च रहितं क्रमात् ।
पीठं च प्रतिमोत्सेथं पञ्चभागं त्रिभागिकं

16.22

नवांशात्सप्तभागं चत्रिभागद्वयमुच्यते ।
लौकिकप्रतिमोत्सेधं मानांगुलमिति क्रमात्

16.23

प्रथमं तु नवाङ्गुल्यं द्वद्व्यङ्गुलविवर्धनम् ।
नवसंख्यमिति प्रोक्तं मानमेवं विधीयते

16.24

एतेन तु त्रिभेदं स्यादुत्तमाधममध्यमम् ।
मानंप्रमाणमुन्मानं लंबमानोपमानकम्

16.25

पञ्चतालमिति प्रोक्तं लंबमानं विधीयते ।
सात्त्विकं राजसं चैव तामसं तु विवर्जयेत्

16.26

दक्षिणं मानमुद्धृत्य नाभिसूत्रप्रमाणकम् ।
कटियोनिसमं वाथ दक्षिणं पादमेव हि

16.27

दण्डहस्तन्तु मानेन मूर्ध्नि केशाक्षमेव वा ।
अभयं दक्षिणं हस्तं भ्रूमात्रं कूर्परादयः

16.28

दक्षिणेन मुखं चैव किञ्चित्प्रहसिताननम् ।
केशकंबलमित्युक्तं सूत्रं वामाश्रयं भवेत्

16.29

उष्णीषस्थपदे मध्ये नासाग्रे पुटवामके ।
नाभिमध्यगते वापि मुष्कमालोरुदक्षिणे

16.30

पादे दक्षिणपाण्यन्ते अग्रान्मकुटवामके ।
लंबयेन्मध्यसूत्रं चेदन्यत्सूत्रं न कारयेत्

16.31

उष्णीषमङ्गुलार्धं च मुखमष्टांगुलं भवेत् ।
गलमर्थांगुलं तस्य ग्रीवान्तं द्व्यङ्गुलं भवेत्

16.32

हिक्कान्तं हृदयान्तं च नाभ्यन्तं मेढ्रमूलकम् ।
अष्टादशांगुलं चैव मूर्ध्वकायं विधीयते

16.33

त्रयोदशांगुलं चैव मूरुदीर्ङं विधीयते ।
जानुस्स्याद्द्व्यङ्गुलं चैव जङ्घा चोरुश्च तत्समा

16.34

चरणं द्व्यङ्गुलं चैव मानमेव न संशयः ।
हीक्कासूत्रान्ततो बाहुर्दशाङ्गुलमिति स्मृतम्

16.35

प्रकोष्ठमष्टाङ्गुलायामं सप्ताङ्गुलतलायतम् ।
मुखं मुखविशालं स्यात्कर्णविस्तारमङ्गुलम्

16.36

ग्रीवाविस्तारमेवं स्याच्चतुरङ्गुल चतुर्यवम् ।
अभयं बाहुमानं चतुर्विंशतिरङ्गुलम्

16.37

कक्षयोरन्तरं चैव चतुर्दशांगुल विस्तरम् ।
ऊरुर्दशांगुलं चैव श्रोणिरेकादशांगुलम्

16.38

कटिविस्तारमेवं स्यात्त्रयोदशांगुलमिष्यते ।
ऊरुमूलसुविस्तारमष्टांगुलमिति क्रमात्

16.39

षडङ्गुलं जानुतारं जङ्घातारं च सप्तकम् ।
त्षङ्गुलार्धं च विज्ञेयं नालिकाविस्तरं भवेत्

16.40

पादविस्तारमेवोक्तं सर्वलक्षणसंयुतम् ।
कलापकुसुमश्यामं शङ्खचक्रगदाम्बुजम्

16.41

अनेकरत्नं स छन्नं कौस्तुभोद्भासि वक्षसम् ।
तारहारावलीरम्यं गरुडोपरि संस्थितम्

16.42

देवीभ्यां सहितं कुर्यात्कृष्णं बृन्दावने रतम् ।
आलोल कुन्तलोद्भासि मुखचन्द्र विराजितम्

16.43

अतिरक्ताधरोष्ठं च रक्तपाणिद्वयांचितम् ।
वामपादं समाकुञ्च्य चोत्तानीकृत्य दक्षिणम्

16.44

दक्षिणं चाभयं हस्तं नवनीतयुतं तथा ।
वामं प्रसार्य चोत्तानं सर्वाभरणभूषितम्

16.45

सांबरं तु प्रकुर्वीत विगतांबरमेव वा ।
एवं तु विधिना कुर्यान्नवनितनटं बुधः

16.46

एवमेव प्रकुर्वीत कालीयाहिफणोपरि ।
नृत्यन्तं परमात्मानमुत्तानाकुञ्चिताङ्घ्रिकम्

16.47

दक्षिणे तु करे कुर्यान्नवनीतस्य खण्डकम् ।
अहिपुच्छं करे वापि कुर्यात्कालीयमर्दनम्

16.48

नीलोत्पलदलश्यामं पीतांबरसुशोभितम् ।
चतुर्भुजं शङ्खचक्रमूर्ध्वपाणिद्वये धृतम्

16.49

अधःपाणिद्वये वेणुं वादयन्तं मुदान्वितम् ।
सर्वालङ्कारसंयुक्तं गरुडोपरि संस्थितम्

16.50

देवीभ्यां सहितं देवं मुनिभिः परिवेष्टितम् ।
कृष्णमेवं प्रकुर्वीत सन्तानार्थी विशेषतः

16.51

कलापकुसुम श्यामं पूर्णचन्द्रनिभानसम् ।
बर्हिबर्हकृतोत्तंसं सर्वालङ्कारसंयुतम्

16.52

युवतीवेषलावण्यं श्रीवत्सांकितवक्षसम् ।
स्मेरारुणाधरन्यस्तवेणुं त्रैलोक्यमोहनम्

16.53

अक्षमालां च विद्यां च कुर्यादूर्ध्वकरद्वये ।
वेणुं करद्वये कुर्याच्चतुर्भुजयुतं हरिम्

16.54

तपनीयलसत्कान्त्याभ्राजत्कमलहन्तया ।
निरीक्ष्यमाणचरणं वामपार्श्वस्थया श्रिया

16.55

हेमसिंहासने रम्ये राज्ञीभिस्तु निषेवितम् ।
चन्द्रमण्डलसंकाशश्वेतछत्रेणशोभितम्

16.56

नारदाद्यैर्मुनिगणैज्ञान्नार्थिभिरुपासितम् ।
इन्द्रादिदेवताबृन्धैः प्रणतं परमेश्वरम्

16.57

एवं कृष्णं प्रकुर्वीत जगन्मोहनविग्रहम् ।
गोपीभिरावृतं गोभिः परमानन्दविग्रहम्

16.58

व्यत्यस्य दक्षिणं पादं वामे न्यस्य च सुस्थितम् ।
चतुर्भुजं शङ्खचक्रधरमूर्ध्वकरद्वये

16.59

धृत्वा वेदमयं वेणुमन्यहस्तद्वयेन च ।
अङ्गुलीभिर्मुदा वेणुसुषिराणि च पूरयन्

16.60

दिव्यगान्धर्वगीतार्तं त्रिभङ्गेन च संस्थितम् ।
एवं कृष्णं प्रकुर्वीत वेणुनादनटं बुधः

16.61

सर्वभूषणसंयुक्तं ब्रह्मसूत्रसमन्वितम् ।
रक्तांबरधरं चैव श्यामलं कमलेक्षणम्

16.62

रुक्मिणीसत्यभामाभ्यां पार्श्वयोरुपशोभितम् ।
रुक्मिणीं रुक्मवर्णाभां सत्यां श्यामनिभां तथा

16.63

वसुदेवं देवकीं च पुरतो दक्षिणे तथा ।
यशोदां नन्दगोपं च देवेशं वीक्ष्य सुस्थितम्

16.64

प्रद्युम्नं च तथा सांबं वामे कुर्यात्सलक्षणम् ।
दामं सुमनसं चैव कुर्यादन्यां च गोपिकाम्

16.65

कर्णाग्रान्तन्तु कृष्णस्य सुमन्तुं वाममाश्रितम् ।
कक्षबाहुसमं वापि कारयेद्युक्तितः क्रमात्

16.66

नवतालेन मानेन कुर्यात्तान् समलङ्कृतान् ।
देवकीं वसुदेवं च कृष्णवर्णौ प्रकल्पयेत्

16.67

यशोदां गौरवर्णाञ्च कर्बुरं नन्दमाचरेत् ।
प्रद्युम्नं श्यामवर्णं च सांबं कालाञ्जनप्रभम्

16.68

दामं रक्तनिभं चैव गौरं सुमनसं तथा ।
सुमन्तुं श्वेतवर्णं च कल्बयेद्विधिना बुधः

16.69

एवं कृष्णं प्रकुर्वीत लीलामानुषविग्रहम् ।
चतुर्मूर्तिक्रमश्चैषां वासाधिकरणोक्तवत्

16.70

धृत्वा पुष्पमयीं यष्टिं दक्षिणेवतु पाणिना ।
न्यस्यान्यं चैव भूमिस्थराजदण्डस्य मूर्धवि

16.71

राजार्हाभरणैर्युक्तं रुक्मीण्या सहितं प्रभुम् ।
एवे कृष्णं प्रकुर्वीत राजगोपालविग्रहम्

16.72

पीतांबरधरं देवं ज्ञानमुद्रालसत्करम् ।
वेणुमन्यकरे धृत्वा सुखासीनं शुचिस्मितम्

16.73

उपास्यमानं मुनिभिर्देवीभ्यां रहितं हरिम् ।
कृष्णमेवं प्रकुर्वीद ज्ञानगोपालविग्रहम्

16.74

स्वर्णप्रभमुदाराङ्गमष्टबाहुं जगत्प्रभुम् ।
इक्षुचापांकुशान्वेणुं शङ्खारिसुमसायकान्

16.75

बिभ्रन्तं रमया श्लिष्टदिव्यमङ्गलविग्रहम् ।
सर्वाभरणसंयुक्तं योगिनाममृतप्रदम्

16.76

एवं सम्मोहनं कुर्यात्कृष्णं गोपालविग्रहम् ।
गवां गोपकुमाराणां गोपीनां रक्षणायवै

16.77

नगं गोवर्धनं नाम दधार भगवान् हरिः ।
वामेनोद्धृतहस्तेन बिभ्रन्तं नगमुत्तमम्

16.78

कटिन्यस्तान्य हस्तं च पद्महस्तमधापि वा ।
शङ्खचक्रधरं देवङ्कुर्याच्चैव चतुर्भुजम्

16.79

एवं कृष्णं प्रकुर्वीत गोवर्धनधरं हरिम् ।
पुरा महति संग्रामे पार्थं रक्षितवान् हरिः

16.80

पार्थं रथस्थितं कुर्याच्छरतूणीरसंयुतम् ।
समीक्षमाणं देवेशं स्यन्दनस्थं स्वपार्श्वगम्

16.81

श्यामवर्णं महाबाहु कृष्णमुद्बद्धकुन्तलम् ।
बिभ्रन्तं दक्षिणे पाशं शङ्खं वामकरे तधा

16.82

अर्जुनस्य मुखं वीक्ष्य स्मयमानं महारथम् ।
एवं कृष्णं प्रकुर्वीत पार्थसारथिविग्रहम्

16.83

वामजानुसमाकुञ्च्य दीर्घमन्यं प्रसार्य च ।
तथै वाविथ्य सन्न्यस्य भूम्यां वामकरं पुरः

16.84

आकुञ्चितान्यपादेव चासनस्थितिशोभिना ।
अन्यहस्तेन संधार्य नवनीतं नवं नवम्

16.85

मुहुरालोकयन्तं तद्दर्शनीयं विशेषतः ।
एवं कृष्णं प्रकुर्वीत बालगौपालविग्रहम्

16.86

पुरा संदर्तसमये संहृतेषु जगत्सु च ।
वटपत्रे विनिद्राणो बभूव भगवान् हरिः

16.87

वटपत्रे शयानं तु बालरूपं परात्परम् ।
आकृष्य दक्षिणं पादं वामहस्तेन लीलया

16.88

पादाङ्गुष्ठं मुखे न्यस्य धास्यन्तं हसिताननम् ।
दक्षिणेन तु हस्तेन वहन्तं दक्षिणोरुकम्

16.89

प्रसारितेतरपदं दिव्यालङ्कारशोभितम् ।
वटपत्रं प्रकुर्वीत विशालं चाधराग्रकम्

16.90

वटपत्रशयानं तु कृष्णमेवं प्रकल्पयेत् ।
शङ्खचक्रगदापद्म पाशांकुशलसत्करम्

16.91

कराभ्यां वेणुमादाय धमन्तं सर्वमोहनम् ।
सूर्यायुतशताभासं पीतांबरसुशोभितम्

16.92

नानालङ्कारसुभगं सूर्यमण्डलसंस्थितम् ।
एवं प्रकल्पयेत्कृष्णं महान्तं सर्वमोहनम्

16.93

कृष्णरूपमसंख्यातंस्वेच्छारूपं तु कारयेत् ।
कालीयमर्दनादौ तु नागकन्यादिकल्पनम्

16.94

कल्पनं भोगभेदस्य चैवमादीन् प्रकल्पयेत् ।
युक्त्या बुद्ध्या च भक्त्या च यथा स्यान्मनसः प्रियम्

16.95

एवं रूपं च कृत्वा तु तद्रूवं कौतुकं चरेत् ।
अथवाकौतुकं बिंबं चतुर्भुजसमन्वितम्

16.96

अभयं वरदं पूर्वं शङ्खचक्रधरं परम् ।
एवं चतुर्भुजं कृत्वा स्थापनारंभमाचरेत्

16.97

पूर्वोक्तयागशालायां पञ्चाग्नीन् परिकल्प्य च ।
पैण्डरीके प्रधानाग्नौ हौत्रशंसनमाचरेत्

16.98

"कृष्णं नारायणं पुण्यं त्रिदशाधिपऽमत्यपि ।
"रुक्मिणीं सुंदरीं देवीं रमाऽमिति च रुक्मिणीम्

16.99

"सत्यरूपां सतीं चैव सन्नतीं च क्षमाऽमिति ।
इत्येवमुक्त्वा चावाह्य गरुडं पूर्ववत्तधा

16.100

आवाहनक्रमेणैव निरुप्याज्याहुतीर्यजेत् ।
"सत्यस्सत्यस्थऽ इत्युक्त्वा शतमष्टाधिकं यजेत्

16.101

श्रीभूम्योरिव कुर्याच्च रुक्मिणीसत्यभामयोः ।
पूर्वोक्तेन विधानेन स्थापनादीनि कारयेत्

16.102

कर्की
युगान्तसमये विष्णुः कर्की नाम भविष्यति ।
खड्गखेटकहस्तस्तु म्लेच्छादीन् स हनिष्यति

16.103

कूटे वा गोपुरे वापि पर्वताकृतिके ऽपि वा ।
कल्किरूपं प्रतिष्ठाप्य विमाने तु समर्चयेत्

16.104

मध्यमं दशतालेन भिन्नांजनचयप्रभम् ।
अश्वाननं मुखं कुर्यादन्यच्चैव नराकृति

16.105

चतुर्भुजं च हस्तेषु क्रमाच्चैवायुधान्यपि ।
चक्रं शङ्खं च खड्गं च दधानं खेटकं तथा

16.106

अथवा कल्पयेद्देवमश्वारूढं द्विबाहुकम् ।
शुद्धस्फचिकसंकाशं खड्गखेटक धारिणम्

16.107

अत्रैव कौतुकं कुर्याद्विष्णुरूपं चतुर्भुजम् ।
पूर्वोक्तयागशालायां पञ्चाग्नीन् परिकल्प्य च

16.108

पैण्डरीके प्रधानाग्नौ हौत्रशंसनमाचरेत् ।
"कर्किणं कामरूपं च विष्णुं संहारकारणम्ऽ

16.109

एवमावाह्य विधिना निरुप्याज्याहुतीर्यजेत् ।
"धूर्नो वहन्ताऽ मित्युक्त्वा शतमष्टाधिकं यजेत्

16.110

उत्सवस्नपनादीनि विष्णोरिव समाचरेत् ।
विष्णोर्दशावताराणामेवं प्रोक्तं तु लक्षणम्

16.111

अनादिर्भगवान् कालो नास्य चान्तो ऽपि दृश्यते ।
चक्रवत्परिवर्तन्ते सृष्टिस्थित्यन्तसंयमाः

16.112

अवताराश्च कीर्त्यन्ते भूयांसः परमात्मनः ।
धर्मसंरक्षणार्थाय दुष्टसंशिक्षणाय च

16.113

सद्य आविर्भवेद्विष्णुर्यत्र भक्तानुकंपया ।
आविर्भावं तु तं विन्द्यात्प्रादुर्भावमथेतरत्

16.114

आविर्भावन्तु मत्स्याद्याः पञ्च पञ्चेतरास्स्मृताः ।
गजेन्द्रमोक्षणादीनप्याविर्भावान् प्रचक्षते

16.115

अन्तराले तथा विष्णोर्दक्षिणोत्तरपार्श्वयोः ।
कल्पयेद्रामकृष्णौ तु मुखमण्डप एव वा

16.116

अथान्तर्मण्डपे वापि तथावरण मण्डपे ।
संस्थाप्य कौतुकं बेरं द्वयमेवेति के च न

16.117

नारसिंहं वराहं च वामनं च त्रिविक्रमम् ।
ध्रुवबेरं विना कृत्वा कौतुकं लक्षणान्वितम्

16.118

स्थापयित्वा तथा विष्णोः पूजयेदग्रमण्डपे ।
मत्स्यकूर्मवराहाणां वामनस्य विशेषतः

16.119

कौतुकं विष्णुरूपं तु कुर्याच्चैव चतुर्भुजम् ।
ध्रुवरूपं न कुर्वीत यथेष्टमितरत्रतु

मूल पाठ: Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc