भिक्षुणीविनय · अध्याय 8
पाचत्तिकधर्म 135
वर्षावुस्ता
246. भगवान् श्रावस्तीयम् विहरति । भिक्षुणीयो दानि श्रावस्तीयं वर्षोषिताः वैशालीम् आगताः । तायो भद्राये कापिलेयीये ज्ञातिकुलं प्रविष्टाः । ता स्त्रियो आहंसुः । कहिं आर्यमिश्रिका वर्षोषिताः । ता दान् आहंसुः । श्रावस्तीयं । आहंसुः । कीदृशी श्रावस्ती । आहंसुः । इदृशी च इदृशी च एवम् आरामरमणीया । एवं । जेतवनं । एवं गन्धकुटी । एवम् भगवान् विहरति । एवम् आर्यमिश्रिका शारिपुत्रमौद्गल्यायनाः । यदि प्रव्रज्या एषा प्रव्रज्या इयं पुनर् अस्माकम् आर्यधीता इहैव जाता । इहैव सम्वृद्धा । नैव कहिञ्चि गच्छति कूपमण्डूक इव तिष्ठति अनिःक्रमा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । तेन हि वर्षावुस्ताया भिक्षुणीय चारिका प्रक्रमितव्या । यावद् भगवान् आह ।
या पुन भिक्षुणी वर्षावुस्ता चारिकां न प्रक्रमेय पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । वर्षोषितेति वार्षिकां त्रयो मासान् चारिकां न प्रक्रमेया ति अन्तमसतो ग्रामान्तरं पि वा पाचत्तिकं यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी एवं रात्रं पि प्रक्रमति पाचत्तिकं । अथ दानि जरादुर्बला वा व्याधिदुर्बला वा भोति न प्रतिबला गन्तुं किञ्चापि गच्छति अनापत्तिः । भिक्षुर् अपि वर्षावुस्तो चारिकां न प्रक्रमति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी वर्षावुस्ता चारिकां न प्रक्रमेय पाचत्तिकं ॥ ण्क ॥
पाचत्तिकधर्म 136
उद्वहेय
247. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दाय भिक्षुणीय जेता भिक्षुणी राजगृहं गच्छमानी निवारिता । इहार्याय वर्षा वसितव्या ताय सा कुलेहि सम्वर्णिता । आर्या जेता भद्रिका गुणवती अनुबद्धा ता संवृता च । एताय अधिकारं करोथ सा दानि कुलानि उपसंक्रमति प्रासादिकेन अतिक्रान्तेन प्रतिक्रान्तेन अवलोकितेन व्यवलोकितेन सम्मिञ्जितप्रसारितेन संघाटीपात्रचीवरधारणेन अनुबद्धा अनुन्नडा अचपला अमुखरा अप्रकीर्णवाचा । सा प्रासादिका ति प्रसन्ना देवमनुष्याः । ते तंहि कारां कुर्वन्ति । प्रत्यालपन्ति प्रत्युत्थिहेन्ति निमन्त्रयन्ति पात्रेण चीवरेण ग्लानप्रत्ययभैषज्य परिष्कारेहि । स्थूलनन्दा भिक्षुणि अनाकल्पसंपन्ना अनीर्यापथसम्पन्ना ओमलिनमलिनेहि चीवरेहि पाटितविपाटितेहि वड्डडिङ्गरपुष्टालंबेहि स्तनेहि वड्ढेहि स्फिचकेहि उद्धता उन्नडा चपला मुखरा प्रकीर्णवाचा । ते तस्या न गौरवं कुर्वन्ति न निमन्त्रयन्ति । सा दानि तां उद्वहति कायेन वाचा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । शब्दापयथ नन्दां सा दानि शब्दापिता तद् एव सर्वं पृच्छीयतीति यावद् आम भगवन् । भगवान् आह दुष्कृतं ते नन्दे यावत् ।
या पुन भिक्षुणी भिक्षुणीम् एवम् उक्त्वा इहार्ये वर्षं वसितव्यं इत्य् उक्त्वा पश्चाद् उद्वहेय वा उद्वहापेय वा पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । भिक्षुणीम् एवम् वदे इहार्ये वर्षां वसितव्यम् इति त्रयो मासां उक्त्वेति निवारयित्वा पश्चाद् उद्वहेय वा ति कायेन वा वाचा वा स्वयं उद्वहति । उद्वाहापेय वा ति परेण कायेन वा वाचाय पाचत्तिकं । यावत् प्रज्ञप्तिः । न क्षमति निवारयित्वा पश्चाद् उद्वहितुं अथ भवति शिथिलिका वा बाहुलिका वा अशिक्षाकामा वा कलहकारिका वा पश्यति यदीह वशिष्यति आश्रयम् उत्पादयिष्यतीति । किञ्चापि उद्वहति अनापत्तिः । सा एषा भिक्षुणी भिक्षुणीम् उद्वहति पाचत्तिकं । श्रामणेरीम् वा शिक्षमाणां वा उद्वहति विनयातिक्रमः । अन्तमसतो गृहिणी पि उद्वहति सम्वरगामीविनयातिक्रमम् आसादयति ।
या पुन भिक्षुणी येवम् वदित्वा इहार्ये वर्षम् वसितव्यन् ति उक्त्वा पश्चाद् उद्वहेय वा उद्वहापेय वा पाचत्तिकं ॥ तृ ॥
पाचत्तिकधर्म 137
पूर्वोपगतं
248. भगवान् श्रावस्तीयम् विहरति । अथ काली नाम भिक्षुणी । सा उपगच्छति । ता कालं ग्रामान्तरं गता । सा भिक्षुणीहि उपगताहि आगता । तत्र च भिक्षुणीहि विहारोद्देशः शयनासनोद्देशः कृतः । सा दान् आह । आर्ये मह्यं विहारं देथ । सा विहारं न लभति । आहंसुः । कहिं आर्या वर्षोपनायिका कालङ् गता । सा कलहं करोति । अपरा दानि भिक्षुणी योगाचारा । सा दान् आह । आर्ये अयं मम विहारो । अत्र मञ्चकं प्रवेशेहि सहितिका वसिष्यामः । तया तहिं मञ्चको प्रवेशितो । सा काष्ठखण्डा ति यत्र शाखानि प्रवेशयति । सा दान् आह । आर्ये मा विहारे ओविलयं करेहि । सा दान् आह । भद्रायणि किन् त्वया विहारो कृतो किम् विक्रीतो । सांघिको विहारो किम् अर्थं न प्रवेशयिष्यम् । सा उद्वहति कायेनापि वाचाये पि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावत् शब्दापयथ कालिं सा दानि शब्दापिता । एतद् एव सर्वं पृच्छीयति । यावद् आम भगवन् । भगवान् आह । दुष्कृतं ते कालि ।
या पुन भिक्षुणी जानन्ती भिक्षुणीं पूर्वोपगतां पश्चाद् आगत्वा उद्वहेय वा उद्वहापेय वा कायेन वा वाचाय वा पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयं वा जानेय परतो वा श्रुणेय । भिक्षुणीम् पूर्वोपगताम् इति पुरिमिकायां वर्षोपनायिकायां । पश्चाद् आगत्वेति पश्चिमिकायां । उद्वहेय वा ति स्वयं । उद्वहापेय । वा ति परेण कायेण वा वाचा वा पाचत्तिकं यावत् प्रज्ञप्तिः । सा एषा भिक्षुणीम् उद्वहति पाचत्तिकं । श्रामणेरीम् वा शिक्षमाणाम् वा उद्वहति देशनागामिविनयातिक्रमम् आसादयति । अन्तमसतो गृहिणीं पि उद्वहति सम्वरगामिविनयातिक्रमः । तेन भगवान् आह ।
या पुन भिक्षुणी जानन्ती भिक्षुणीं पूर्वोपगतां पश्चाद् आगत्वा उद्वहेय वा उद्वहापेय वा कायेन वा वाचा वा पाचत्तिकं ॥ फु ॥
पाचत्तिकधर्म 138
विघसं
249. भगवान् काशिषु विहरति । अपराय दानि भिक्षुणीय उच्चारमल्लकं अप्रत्यवेक्षित्वा रथ्यायां छोरितं । तहिं दानि अपरो ब्राह्मणो शीर्षस्नातो आहतवस्त्रनिवस्त्रो ताय रथ्याय अतिक्रमति । उच्चारमल्लकं तस्य शीर्षे पतितं । तस्य शीर्षं वस्त्राणि च विनाशितानि । जनेन चोपहासितं ब्राह्मण सुस्नातः सुविलिप्तस् त्वम् इति । सो दानि ताम् आक्रोशति । आह । इतिकितिकाय धीते श्रमणिके न पश्यसि मम शीर्षं वस्त्राणि च विष्ठेन विनाशितानि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावद् आम भगवन् । भगवान् आह । दुस्कृतन् ते एवन् नाम त्वम् अप्रत्यवेक्षिय छोरेसि । तेन हि न क्षमति अप्रत्यवेक्षिय छोरयितुं । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी तिरोकुड्यं उच्चारम् वा प्रास्रावम् वा खेटकम् वा सिंघाणकम् वा विघसम् वा संकारम् वा अप्रत्यवेक्षित्वा छोरयेत् पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । तिरोकुड्यन् ति तिरःप्रकारम् उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा विघसम् वा संकारम् वा वस्त्रधोवनम् वा भाण्डधोवनम् वा केशान् वा नखान् वा । अप्रत्यवेक्षित्वेति अनिरीक्ष्य । छोरेया ति उज्झेय । पाचत्तिकं यावत् प्रज्ञप्तिः । यदि किञ्चित् उज्झितुकामो भवति प्रत्यवेक्षितव्यं । यदि तावद् आकीर्णबहुजनमनुष्या रथ्या भवन्ति आरामयितव्यं । अथ दानि अनाकीर्णा भवन्ति किञ्चापि छोरयत्य् अनापत्तिः । तं पि दानि न क्षमति अशब्दकर्णिकाये छोरयितुं अपि तु अच्छटिका दातव्या उक्कासितव्यम् वा । सा एषा भिक्षुणी नैव प्रत्यवेक्षति नापि अच्छटिकां दत्त्वा छोरयति पाचत्तिकम् आसादयति । भिक्षुर् अपि अप्रत्यवेक्ष्य अच्छटिकाम् अकृत्वा छोरयति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी तिरोकुड्यं उच्चारम् वा प्रस्रावम् वा खेटं वा सिंघाणकम् वा विघसम् वा संकारम् वा अप्रत्यवेक्ष्य छोरेय पाचत्तिकं ॥ ग्रा ॥
पाचत्तिकधर्म 139, 140
हरित तृणे
उदक
250. भगवान् श्रावस्तीयं विहरति । राज्ञो दानि प्रसेनजितस्य कोशलस्य पूर्वकोष्ठकं नाम उद्यानम् पुष्किरिणीसम्पन्नं । अनावृतं भिक्षूनां भिक्षुणीनां आवृतं इतराये जनताये । राजा दानि आरामिकस्याह । हो भणे आरामिक पूर्वकोष्ठकम् उद्यानं सिक्तसंसृष्टं करेहि । श्वो हं सान्तःपुरो निर्यास्यं । तं दानि षड्वर्गिणीहि श्रुतं । श्वो राजा सान्तःपुरो उद्यानभूमिन् निर्यास्यतीति । तायो दानि प्रतिकृत्य् एव गत्वा तहिं हरितशाद्वलोपस्तराणायां पक्वखेटेन च पक्वसिंघाणकेन च विनाशयित्वा पदुमपत्रेहि उच्चारस्य पुटकानि बन्धित्वा पुष्किरिणीयं प्रवाहयेंसुः । तायो दानि दिवसं तहिं काकावाहां भञ्जिय सायाह्नसमये नगरं प्रविष्टाः राजा दानि प्रसेनजित कोशलो अपरेज्जुकातो निरगतो सान्तःपुरो । तायो दानि अन्तःपुरिकायो कथञ्चिद् एव सम्रोधाद् अवमुक्ता रन्धनमोक्षम् इव मन्यमानाः चञ्चूर्यन्ते । काश्चिन् निषण्णाः काश्चिन् निपन्नाः । काश्चिद् इतो च इतो च धावन्ति अवकाशं गृह्णन्ति शाद्वलोपस्तरणे परिभ्रामन्ति । तासां दानि पक्वखेटेन पक्वसिंघाणकेन वस्त्राणि विनाशितानि । पुष्किरिणीं ओतीर्णाः स्नानाय । तायो पश्यन्ति पुटकान् प्लवमानान् । तासां भवति कुलपुत्रकेहि श्रुतं श्वो राजा सान्तःपुरो उद्यानं प्रवेक्ष्यतीति तेहि एते गन्धपुटकाः प्रवाहिता इति कृत्वा तायो गृह्णन्ति । ते उदकेन क्लिन्ना उच्चारेण चा खादिताः प्रकृतिसुकुमारं च पद्मपत्रं । गृहीतमात्रम् एव विलीनं । ही ही विष्ठं ता दानि राज्ञो उपसंक्रान्ता आहंसु । महाराज एष तावद् ईदृशी अवस्था राजा आह शब्दापयथ आरामिकं । सो दानि शब्दापितो । राजा आह । हो भणे आरामिक केन उद्यानं विट्टालितं । आह षड्वर्गिणीयो श्रमणीयो एव दिवसं काकवाहा भञ्जित्वा गताः । राजा हसित्वा आह । तासाम् अविनीतानां कर्म भविष्यति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवतो आरोचयेत् । यावद्
या पुन भिक्षुणी हरिते तृणे उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा कुर्यात् पाचत्तिकं ॥
या पुन भिक्षुणी उदके उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा कुर्यात् पाचत्तिकं ॥
या पुन भिक्षुणीति उपसम्पन्ना । उच्चारन् ति गूथं । प्रस्रावन् ति मूत्रं । खेटम् इति श्लेष्मा । सिंघाणकन् ति पक्वसिंघाणकं । हरिते तृणे इति शाद्वले अच्छिन्नालूनस्मिं उदन् ति उदकानि नाम दश । नादिकं ताडागं औदुपानिकं श्वभ्रोदकं प्रघारिमं वृष्टिस्थितं उच्छोदकं अन्तरीक्षपानीयं हिमविलीनं सामुद्रम् वा उच्चारम् वा प्रस्रावं वा कुर्यात् पाचत्तिकं यावत् प्रज्ञप्तिः । अथ दानि प्रावृषेण्या से सर्वभुमिः शाद्वलोपस्तरेणा भवति यहिं प्रदेशे स्वल्पहरितम् भवति तहिं कर्तव्यं । अथ दानि अल्पहरितं न भवति कटाहके वा इष्टकायम् वा उपले वा शुष्कतृणे वा काष्ठखण्डे वा यत्र वा अन्येन उच्चारो कृतो भवति बलीवर्देन वा । यत्र वा अन्येन मनुष्येन कृतो तहिं कर्तव्यं अथ दानि एवं न भवति अन्तमसतो कनीयसिं पि अङ्गुलिं उपद्राहयित्वा कर्तव्यं । तथा कर्तव्यं यथा तहिम् प्रथमम् निपतति । अथ दानि चङ्क्रमति न क्षमति हरितशाद्वले श्लेष्मं छोरयितुं । अथ खु कटे वा पत्रपुटिकायां वा छोरयितव्यं । तेन भगवान् आह ।
या पुन भिक्षुणी हरिते तृणे उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा कुर्यात् पाचत्तिकं ।
या पुन भिक्षुणी उदके उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा कुर्यात् पाचत्तिकं ॥
पाचत्तिकधर्म 141
गणलाभ
251. भगवान् श्रावस्तीयम् विहरति । तायो दानि षड्वर्गिणीयो छन्दकं अण्वन्ति । आहंसुः । प्रजापति देथ च्छन्दकं आर्यमिश्रिकाणां भक्तं करिष्यामः । ता दानि स्त्रियो प्रयच्छन्ति । ता दान् आहंसुः आर्या यं दिवसं संघभक्तं करिष्यथ तदास्माकम् अपि आरोचयेथ । वयम् अपि परिवेषका आगमिष्यामो ति । ताहि दानि निमन्त्रिताः । आयुष्मन्तो शारिपुत्रमौद्गल्यायनौ अनिरुद्धो रेवतः कप्फिणो श्रोणकोटीविंश उपवानो आयुष्मान् राहुलो षड्वर्गिकाश् च । ताहि दानि द्वेआसनप्रज्ञप्ती कृता । एका स्थविराणां अपरा षड्वर्गिकाणां । तहिं दानि भिक्षू कालस्यैव निवासयित्वा प्रावरित्वा च प्रविष्टाः । ततो आयुष्मतो शारिपुत्रस्य दातुं शालिनामोदनं मुद्गानां सूपो घृतं दधि च । आयुष्मतो मौद्गल्यायनस्य यवकोदनो माषसूपो तैलं च । अपरेषाम् षष्टिकोदनो सूपो च । अपरेषां कोद्रवोदनो । अपरेषां व्यञ्जनानि दिन्नानि ओदनो न दीयते । अपरेषां शाकं दिन्नं ओदनो न दीयते । अपरेषां वाटिकोदनो व्यञ्जनं न दीयते । आयुष्मतो राहुलस्य पि श्याकशाकं
ता दानि स्त्रियो भक्ष्यभोज्यम् आदाय गताः पृच्छन्ति । कहिन् ते आर्यमिश्रिकाः । तायो दानि स्थविरान् भिक्षून् आवरित्वा षड्वर्गिकान् दर्शेन्ति । ततस् तेषान् दीयते शालिना मोदनं मुद्गानां सूपो घृतं । नवनीतं अम्बु मधुराणि गौडन् दधि श्वेतं दधि क्षीरं समितासमितं यस्यार्थं याव् अर्थं दीयति । यत् किञ्चित् प्रणीतसम्मतं भक्ष्यभोज्यं पेयं चोष्मं तं षड्वर्गिकाणान् दापयन्ति । इमे ते आर्यमिश्रिकाः भिक्षू पि भुक्तविभुक्तकाः उत्थायोत्थाय भगवतः पादवन्दा उपसंक्रान्ता । भगवान् जानन्तो येव पृच्छति । अपि तु शारिपुत्र शोभने मासि मृष्टम् वा प्रणीतम् वा प्रभूतम् वा । स्थविरो आह । कृतं भगवन् आहारेणाहारकृत्यं । द्वितीयम् पि तृतीयम् पि । भगवान् आह । थेरो आह । लब्धो भगवन् शालिनामोदनं मुद्गानां सूपो नवनीतं अम्बु मधुराणि व्यञ्जननि गौडन् दधि क्षीरं यस्यार्थं यावद् अर्थं दीयति यथापीदं भगिनीनां श्रद्धाप्रसन्नानां परिग्रहे । भगवान् आह । के तहिं संघस्थविरो भूत । आयुष्मां च्छारिपुत्रो । भगवान् आह । सत्यं शारिपुत्र आह । आम भगवन् । भगवान् आह । दुर्भुक्तं ते शारिपुत्र एवं च नाम त्वं भिक्षुसंघं विहेठयन्तं अध्युपेक्षसि । यस्य भगवान् दुर्भुक्तम् इत्य् आह तस्य तं कल्पम् वा कल्पावशेषम् वा तिष्ठेय नैव जरा गच्छेय । स्थविरेण काकपोटं दत्त्वा सर्व दरदराय वान्तं । भगवान् आह । शब्दापयथ भिक्षुणीयो तायो शब्दापिताः । एतद् एव पृच्छीयन्ति । आहंसुः । आम भगवन् । भगवान् आह दुष्कृतं वो भिक्षुणीयो एवम् च नाम यूयं जानन्तीयो गणलाभं गणस्य परिणामयथ । तेन हि न क्षमति । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी जानन्ती गणलाभं गणस्य परिणतं गणस्य परिणामयेत् पाचत्तिकम् ।
या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय । गणलाभम् इति भिक्षुगणस्य भिक्षुणीगणस्य । लाभम् इति अष्ट लाभाः यावत् कालिको यामयामिको यावत् कल्पिकाकल्पिको परिणतन् ति परिनिष्पन्नं । गणस्य परिणामयेत् पाचत्तिकं यावत् प्रज्ञप्तिः । एष दानि कोचिद् आगच्छति देयधर्मं दातुकामो । आह । आर्ये इच्छामि परिगृह्यमाणन् ति परिगृह्णीतव्यं ।
प्रातिदेशनिका धर्मा 18
सर्पिस् तैलं एत्च्
252. ति । ते दानि भिक्षू षड्वर्गिकाः सर्पिकेहि सर्पि तैलकेहि तैलं गौडकेहि गुडं माधुकेहि मधुं मात्सिकेहि मत्स्यं मांसिकेहि मांसं दुग्धिकेहि दुग्धं दोधिकेहि दधिं विज्ञपिय खादन्ति । जनो दानि ओज्झायति । पश्यथ भणे श्रमणो गौतमो ऽनेकपर्यायेणाल्पेच्छताय वर्णवादी यावच् छिक्षापदं प्रज्ञप्तं । तस्माद् इह गौतमि भिक्षुणीभिर् अवि अत्रैव शिक्षितव्यं ।
एषैवार्थोत्पत्तिः । एकम् इदम् गौतमि समयं तथागतो शाक्येषु विहरति । यावद् भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी आत्मार्थाय अगिलाना कुलेहि सर्पिं विज्ञापेत्वा वा विज्ञापायेत्वा वा खादेय वा भुञ्जेय वा प्रतिदेशयितव्यं ताय भिक्षुणीय असंप्रेयम् मे आर्यमिश्रिका प्रातिदेशनिकं धर्मम् आपन्ना तन् धर्मं प्रतिदेशयामि । अयन् धर्मो प्रातिदेशनिको ।
एवम् सर्पिस् [1] । तैलं [2] । मधु [3] । फाणितं [4] । दुग्धं [5] । दधि [6] । मत्स्यं [7] । मांसं [8] ।
या पुन भिक्षुणीति उपसम्पन्ना । आत्मार्थायेति आत्मानं सन्धाय आत्मानम् उपनिध्याय । अगिलाना ति प्रत्युद्धृतं भगवता पदं अनापत्ति गिलानाय । किन् तावद् अत्र गैलान्यम् अभिप्रेतम् । जरादुर्बला वा व्याधिदुर्बला ता विरेचनपीता वा शिराविद्धा वा श्लेष्मा वा सन्निपाता वा । कुलेहीति क्षत्रियकुलानि वा ब्राह्मणकुलानि वा यानि वा पुनर् अन्यान्य् अपि कानिचित् कुलानि । सर्पीति सर्पिन् नाम गाविय माहिषीये अजाये एडकाय उष्ट्रीय । विज्ञपेत्वा ति स्वयं विज्ञापेत्वा । विज्ञपायेत्वा ति परेण विज्ञपायेत्वा । खादेया ती यं खादनीयं । भोजनीयन् ति यं भोजनीयं । प्रतिदेशयितव्यं ताय भिक्षुणीय यावद् अयम् धर्मो प्रातिदेशनिको ।
अथ दानि पित्तसंक्षोभो भवति लभ्या सर्पि विज्ञापेतुं पेयालं । अथ दानि पिण्डपातम् अण्वन्ति पश्यति घृतं विक्रायन्तं न दानि वक्तव्यं । "दिर्घायुः लाभो लभ्यतु बहुञ् च भवतु ।" लब्धो च स्थावरो भवतु । अथ दान् आह । केनार्थो आर्याये । वक्तव्यं पिण्डचारं अण्वामि । अथ दान् आह । अर्थो आर्याय सर्पिणा यद्य् अर्थिका भोति । वक्तव्यम् अर्थो । यदि पूरं पि पात्रं लभति अनापत्तिः । अथ दानि अपरा पि काचिद् भवति लभ्या प्रत्युत्पन्नप्रायेण (!) वक्तुं इमाये पि देहीति ।
एवं तैलं । यदि वातविकारो भवति लभ्या तैलं विज्ञपयितुं तं पि दानि न तैलपीडकानां तेन विज्ञपयितव्यं । अथ दानि पिण्डचारम् अण्वन्ति पश्यति तैलं मापियन्तं यावत् पूरं पि पात्रं लभति अनापत्तिः । यावत् लभ्या प्रत्युत्पन्नप्रयोगेण वक्तुं इमाये पि देहीति ।
एवं मधु । यदि श्लेष्मविकारो भवति लभ्यं मधु विज्ञपयितुं । तं पि दानि ना क्षमति मधुघातकानां तेन विज्ञपयितुं ।
एवं फाणितं । यदि गिलाना भवति वैद्यो आह आर्ये गुडप्रयोगं करोहीति लभ्यं गुडं विज्ञपयितुं ।
एवम् दुग्धं । लभ्यं दुग्धं पिययितुं । अथ दानि पिण्डचारम् अण्वति पश्यति यो कुलेहि गावो दुह्यन्तां न दानि वक्तव्यं । बहुलाभो लभ्यतु क्षेमेण गावो चरन्तु । आहंसुः । केन आर्याये अर्थो । वक्तव्यं । पिण्डचारम् अण्वामि । आहंसुः । अर्थो आर्याये दुग्धेनापूरम् पि पात्रं प्रतीच्छत्य् अनापत्तिः यावत् प्रत्युत्पन्नप्रयोगेन लभ्या वक्तुं इमाय पि देहीति । अथ दानि श्वेतमयं सिक्षति । नास्ति श्वेतमयं । इच्छसि दुग्धं । आह । इच्छामि । पूरम् पि पात्रं लभति अनापत्तिः ।
अथ दानि प्रतिश्यायो भवति । वैद्यो आह दधिकृत्यं करोहीति लभ्यं दधि विज्ञपयितुं । अथ दानि पिण्डचारम् अण्वति पश्यति दधि मापीयमानं लभ्या मस्तु विज्ञपयितुं । अथ दान् आह । नास्ति मस्तु इच्छसि दधिं । आह इच्छामि । पूरं पि पात्रं प्रतिगृह्णाति अनापत्तिः ।
अथ दानि भिक्षुणी वमनं विरेचनं वा कर्तुकामा भवति वैद्यो जल्पति आर्ये अभिष्यन्देहि मत्स्यरसेहीति । यावन् न क्षमति कैवर्तानां विज्ञपयितुं । अथ दानि पिण्डचारम् अण्वति लभ्यं आम्बूकाञ्जिकं विज्ञपयितुं ।
अथ दानि सिराविद्धिका भवति । विरेचनपीतिका भवति । वैद्यो आह । आर्ये मांसरसं प्रतिसेवाहि । लभ्यं मांसरसं विज्ञपयितुं । न क्षमति ओरोभ्रिकानां तेन । अथ दानि पिण्डचारम् अण्वति लभ्यं शाकरसं विज्ञपयितुं । अथ दान् आह । नास्ति आर्ये शाकरसो इच्छसि मांसरसं । आह । इच्छामि । पूरं पि पात्रं लभति अनापत्तिः ।
अथ दानि जानाति अमुकस्मिं काले कदाचिद् गैलान्यं भविष्यति इमानि भैषज्यानि दुर्लभानि भविष्यन्तीति प्रतिकृत्य् एव याचति अनापत्तिः । ग्लाना विज्ञपिय अगिलाना खादति विनयातिक्रमः । अगिलाना विज्ञपिय ग्लाना खादति अनापत्तिः । अग्लाना विज्ञापिय अग्लाना खादति प्रतिदेशयितव्यं ।
असंप्रेयं सिद्धं संप्रेयं खादति अनापत्तिः । संप्रेयं सिद्धं । असंप्रेयं सिद्धं । असंप्रेयं खादति विनयातिक्रमः । संप्रेयं सिद्धं संप्रेयं खादति अनापत्तिः । परप्रतिबद्धाय जीविकाय अनापत्तिः । तेन भगवान् आह ।
यानि खो पुनर् इमानि प्रणीतसम्मतानि भोजनानि भवन्ति सय्यथ्ऽ ईदं सर्पिः एवंरूपं तं भिक्षुणी अगिलाना कुलेहि विज्ञपेत्वा वा विज्ञापायेत्वा वा खादेय वा भुञ्जेय वा प्रतिदेशयितव्यं ताय भिक्षुणीय । असंप्रेयम् मे आर्ये गार्ह्यं प्रातिदेशनिकं धर्मम् आपन्ना तं धर्मं प्रतिदेशयामि । अयं धर्मो प्रातिदेशनिको ।
एवं तैलेन कर्तव्यं । मधुफाणितं दुग्धं दधि मत्स्यं मांसं ।
यानि खो पुनर् इमानि प्रणीतसम्मतानि भोजनानि भवन्ति सय्यथ्ऽ ईदं मांसं एवंरूपं भिक्षुणी अगिलाना कुलेहि विज्ञपेत्वा वा विज्ञपायेत्वा वा खादेय वा भुञ्जेय वा प्रतिदेशयितव्यं ताय भिक्षुणीय । असंप्रेयम् मे आर्ये गार्ह्यं प्रातिदेशनिकं धर्मपर्यायं वा तन् धर्मं प्रतिदेशयामि । अयं पि धर्मो प्रातिदेशनिको ॥
उद्दानं ।
सरिपिस् [1] । तैलं [2] । मधु [3] । फाणितं [4] । दुग्धम् [5] दधि [6] । मत्स्य [7] । मांसं [8] । इदम् अष्टमं । भिक्षुणीनां प्रातिदेशनिकां ॥
शैक्षा धर्मा 166
253. शैक्षा विस्तरेण कर्तव्या यथा भिक्षुणां सर्वे षड्वर्गाह् स्थापयित्वा हरितोदके ।
उद्दानम् ।
निवासनं [1] । प्रावरणं [2] । सुसंवृतं [3] । चक्षुः [4] । शब्दं [5] । नोच्चग्घिका [6] । नोगुण्ठिका [7] । नोत्क्षिप्तिका [8] । न उत्कुटुके [9] । न खम्भ [10] । न काय [11] । न शीर्ष [12] । न बाहुकेन [13] ॥ प्रथमो वर्गः ॥
उद्दानं ।
सुसंवृता [14] । चक्षुः [15] । न शब्द [16] । उच्चग्घयिका [17] । न ओगुण्ठिका [18] । नोत्क्षिप्तिका [19] । न ओसक्तिका [20] । न पल्लत्थिका [21] । न खम्भ [22] । न हस्तपादकौकृत्येन [23] । द्वितीयो वर्गः ॥
उद्दानं ।
द्वे सत्कृत्य [24, 25] । समसूप [26] । न स्तूप [27] । नावकीर्ण [28] । नावगण्ड [29] । न जिह्वा [30] । नातिमहन्त [31] । नानागत [32] । न कवडोत्क्षेपक [33] । न कवडच्छेदक [34] । न सकवडेन [35] । तृतीयो वर्गः ॥
उद्दानं ॥
त्रयो निर्लेहा [36, 37, 38] । चुच्चु [39] । सुरुसुरु [40] । गुलुगुलु [41] । न हस्त [42] । न सित्थ [43] । नोध्यायन [44] । पात्रसंज्ञी [45] । विज्ञप्ति [46] । छादयति [47] । न पात्रोदके [48] । न ससित्थेन [49] । चतुर्थो वर्गः ॥
उद्दानं ।
न स्थिता [50] । न निषण्णा [51] । न उच्चासना [52] । उपनह [53] । न पादुका [54] । न ओगुण्ठिका [55] । न संमुख [56] । न ओसक्तिका [57] । न पल्लत्थिका [58] । पूर्यते पञ्चमो वर्गः ॥
उद्दानं ।
न शस्त्रायुध [59, 60] । दण्ड [61] । छत्र [62] । उत्पथ [63] । पृष्ठतो [64] । यान [65] । स्थितकेन [66] । षष्ठो वर्गः ॥
सप्त अधिकरणसमथा धर्मा
धर्मा अनुधर्मा
254. सप्ताधिकरणसमथा धर्मा यथा भिक्षूणां ।
सम्मुख [1] । स्मृति [2] । अमूढ [3] । प्रतिज्ञा [4] । तस्य पापेयशिक [5] । यो भुयसिक [6] । तृणप्रस्तारको [7] च सप्तमः ॥
धर्मश् चानुधर्मश् च यथा भिक्षूणां ।
समाप्तो भिक्षुणीनां प्रातिमोक्षविभङ्गः ॥
भिक्षुणी प्रकीर्णक 1
निषद्याप्रतिसंयुक्तं
255. आर्यमहासांघिकानां लोकोत्तरवादिनां भिक्षुणीप्रकीर्णकस्यादिः ।
भगवान् श्रावस्तीयम् विहरति । तायो दानि भिक्षुणीयो पश्चिमं प्रहाणं स्वस्तिकपर्यङ्केन निषीदन्ति । अथापराये दानि भिक्षुणीये व्रणमुखेन दीर्घको ऽनुस्रोतेन प्रविष्टो । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती गौतमी भगवतो आरोचयेत् । भगवान् आह । गच्छथ ताये अमुकं भैषज्यं देथ ततो सो दीर्घको निष्क्रमिष्यति । ताये दानि तं भैषज्यं दिन्नं पिबनाये । सो दीर्घको अनुस्रोतम् आगतो न च मृतो । भगवान् आह । एवं च नामा यूयं स्वस्तिकपर्यङ्केन निषीदथ । तेन हि न क्षमति स्वस्तिकपर्यङ्केन निषीदितुं । निषद्याप्रतिसंयुक्तं । न क्षमति भिक्षुणीये पर्यङ्केन निषीदितुं । अथ खल्व् एकिना पदेन पर्यङ्को बद्धव्यः । अपराय पार्ष्णिकाय व्रणमुखं पिथयितव्यं । सा एषा भिक्षुणी स्वस्तिकपर्यङ्केन निषीदति विनयातिक्रमम् आसादयति । इदम् उच्यते निषद्याप्रतिसंयुक्तं ॥
भिक्षुणीप्रकिर्णक 2
कठिनप्रतिसंयुक्तं
256. भगवान् श्रावस्तीयम् विहरति । ता दानि भिक्षुणीयो कठिने चीवरं निक्षिपिय सीवन्ति । अपराये भिक्षुणीये वंसविदलिकाय व्रणमुखेन कृतं रुधिरम् उत्पादितं । एतं प्रकरणं । पेयालं । भगवान् आह । तेन हि न क्षमति कठिने निषीदितुं । कठिनप्रतिसंयुक्तं । एता दानि भिक्षुणीयो चीवर निषीदितुकामा भवन्ति । न क्षमति कठिने निषीदितुं । अथ खु उपस्थानशालायाम् वा प्रासादे वा प्रहाणशालायाम् वा आकार्षान् दत्त्वा चीवरकं प्रज्ञपिय सीवितव्यं । अथ एवं पि न भवति । पीठस्य वा मञ्चस्य वा उपरि प्रज्ञपयित्वा सीवितव्यं । अथैवं पि न भवति जानुकानाम् उपरि स्थापय्यित्वा सीवितव्यं । सा एषा भिक्षुणी कठिने निषीदति विनयातिक्रमम् आसादयति । इदम् उच्यते कठिनप्रतिसंयुक्तं
भिक्षुणीप्रकीर्णक 3
वेठकप्रतिसंयुक्तं
257. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दा दानि भिक्षुणी संबहुलानि स्त्रीहि सार्धं नदीम् अजिरावतीङ् गत्वा एकान्ते चीवरकाणी निक्षिपिय स्नानायावतीर्णा । सा दानि प्रतिकृत्येवोत्तरित्वा वेठकेन कायं वेठयित्वा स्त्रीणाम् आह । प्रजापति निध्यापयथ मां । किम् अहं शोभामि न शोभामीति । ता दान् आहंसुः । किम् पुनर् आर्याय मुण्डाय पिण्डिलिकाय एतेन कार्यं । वयं कामोपभोगनीया मानार्थाय एवं करोमः । कुटुम्बिकानां प्रियतरिका भविष्यामो ति । आर्ये किम् एतेन । यं ताहि स्त्रीहि अवध्यापितं तं दानि भिक्षुणीहि श्रुतं । एतं प्रकरणं । पे । यावद् आम भगवन् । भगवान् आह । दुष्कृतं ते नन्दे यावत् तेन हि न क्षमति वेठकेन कायं वेठयितुं । वेठकप्रतिसंयुक्तं । सा एषा भिक्षुणी वेठकेन पट्टकेन वा कायं वेठयति विनयातिक्रमम् आसादयति । अथ दानि पट्टिकाय वा लोहकेन वा कायं वेठयति । न क्षमति द्विर् अपि वेल्लकं त्रिर् अपि वेल्लकं वेठयितुं । अथ खु एक परिवेल्लकं वेठयितव्यं । अथ दानि वातेन पार्श्वं गृहीतं भवति । गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा भवति किञ्चापि पट्टकेन कायं वेठयत्य् अनापत्तिः । इदम् उच्यते वेठकप्रतिसंयुक्तं
मूल पाठ: Bhikṣuṇīvinaya · Edition: Gustav Roth: Bhikṣuṇī Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0