भिक्षुणीविनय · अध्याय 7
पाचत्तिकधर्म 120
रहो
234. भगवान् वैशालीयम् विहरति । सुजाता नाम भिक्षुणी आयुष्मतो उदायिष्य पुराणद्वितीया । ताय दानि तस्य दूतेन प्रेषितो । एहि त्वं मम ओहेय्यकवारो भविष्यति । सहितका आसिष्यामः । यदा तायो भिक्षुणीयो गोचरं प्रविष्टाः तदायुष्मान् उदायी कालस्यैव निवासयित्वा प्रावरित्वा पात्रचीवरम् आदाय तहिं प्रविष्टो । ते दानि विहारस्य पश्चात् वस्तुके अम्बरीयकेण निषण्णा रक्तचित्ता कर्मण्येनाङ्गजातेन अन्यमन्यस्य अङ्गजातानि निध्यायत्ता आसन्ति । अपरा दानि भिक्षुणी महल्लिका उच्चारकर्माय वा प्रस्रावकर्माय वा पश्चाद् वस्तुकं गता । ताय दृष्टो । सा दानि व्रीडिता प्रत्योसक्किता । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् आम भगवन् । भगवान् आह । दुष्कृतन् ते सुजातिके यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी भिक्षुणा सार्धं एका एकेन रहो निषद्यां कल्पयेत् पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । एका एकेनेति सा च भवति अन्यो च तत्र भोति । सुप्तो मत्तो उन्मत्तोत्क्षिप्तचित्तो वेदनाभिन्नो उत्तानशय्याको अमानुषो तिर्यग्योनिगतो । एवम् अप्य् एषा एका एकेन । रहो ति मिथो । निषद्यां कल्पयति । सहितका आसेयुः । पाचत्तिकं । पेयालं । यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी भिक्षुणा सार्धं सकृन् निसण्णा दिवसम् पि निषीदति एकं पाचत्तिकम् आसादयति । अथ दानि पुनो पुनो उच्छति च निषीदति च तत्तिका पाचत्तिकम् आसादयति । अथ दानि द्वे जना भवन्ति एको विहारं प्रविशति कस्यचिद् अर्थाय भिक्षुणीय शीघ्रम् उत्थिहितव्यं । नापि दानि सहस्राम् आजानेय मां एषा विहेठयितुकामा ति । अथ खु प्रतिसंवेदितव्यं । उत्थास्याम्य् अहं । आह । कस्यार्थाय । वक्तव्यं । एकाये एकेन स्थातुं । सो एषो ऊनसप्तवर्षो चेल्लको भवति । सो आसादनाय न मोचनाय केत्तावता अन्तरेणापत्तिर् भवति । येनान्तरेणानभिसंस्कृता भिक्षा दीयते । अथ दानि आकीर्णजनमनुष्यो भिक्षुणी उपाश्रयो भवति निष्क्रमन्ति च प्रविशन्ति च स्थपतिवर्धकिचित्रकराः किञ्चापि तेहि कल्पियकारेहि आसति अनापत्तिः । अथ दानि रथ्यामुखं द्वारं भवति अवीचिः स्त्रियो च पुरुषा च गच्छन्ति अकिञ्चापि तेहि कल्पियकारेहि आसति अनापत्तिः । अथ दानि अन्तरावीचिः छिन्ना भवति पाचत्तिकं । कल्पियकारो प्रवलायति अच्छटिकाय बोधयितव्यो । अथ दानि द्वे भूमके कल्पियकारो तिष्ठति त्रयाणाम् अन्यतमान्यतरं पश्यत्य् अनापत्तिः । तत्र वायो वा वेमान्तरेण त्रयाणाम् अन्यतमान्यतरं पश्यत्य् अनापत्तिः । अस्ति दर्शनोपविचारो न श्रमणोपविचारो । अस्ति श्रमणोपविचारो न दर्शनोपिविचारो । अस्ति दर्शनोपविचारो च श्रमणोपविचारो च । अस्ति नैव दर्शनोपविचारो न श्रमणोपविचारः । किन् ति दानि अस्ति दर्शनोपविचारो न श्रमणोपविचारः । प्राकृतेन चक्षुषा पश्यति भिक्षुर् एषो आसति भिक्षुणी वेति नो तु प्राकृतेन श्रोत्रेण तयोर् आयं शृणोति । एवं चतुष्को योजयितव्यः । यावद् एषा आपत्तिः । ग्रामे वारण्ये वा रात्रौ वा दिवा वा छन्ने वा अभ्यवकशे वा एकस्य न महाजने सन्तिके न दूरे । तेन भगवान् आह ।
या पुन भिक्षुणी भिक्षुणा सार्धं एका एकेन रहो निषद्यां कल्पयेत् पाचत्तिकं
पाचत्तिकधर्म 121
पुरुष
235. भगवान् श्रावस्तीयम् विहरति । भद्रा दानि कापिलेयी ज्ञातिकुलं गता भ्रातृकेहि भ्रातृपुत्रकेहि मातुलेहि मातुलपुत्रकेहि सार्धं एका एकेन सह तिष्ठति । भिक्षुणीयो दानि पिण्डपातं अण्वन्तीयो दृष्ट्वा ओज्झायन्ति । किन् तावद् इमाये प्रव्रजिताये पुरुषेण सार्धं एकाय एकेन रहो निषीदितुं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आहंसुः । यावद् भगवान् आह । शब्दापयथ भद्रां । सा दानि शब्दापिता । तद् एव सर्वं पृच्छीयति । यावद् आम भगवन् । भगवान् आह । तेन हि न क्षमति । एकाये एकेन पुरुषेण सार्धं रहो निषीदितुं यावद् भगवान् अह ।
या पुन भिक्षुणी पुरुषेण सार्धं एका एकेन रहो निषद्यां कल्पेय पाचत्तिकं ।
या पुन भिक्षुणी उपसम्पन्ना । पुरुषेण सार्धं एका एकेनेति सा च भवति यावद् एवम् अप्य् एषा एका एकेन । रहो ति मिथ्या । निषद्यां कल्पेया ति सहितका आसेयुः । पाचत्तिकं यावत् प्रज्ञप्तिः सा एषा भिक्षुणी पुरुषेण सार्धं सन्निषण्णा दिवसन् निषीदति एकं पाचत्तिकम् आसादयति । एवं विस्तरेण यथैव भिक्षुणा । तेन भगवान् आह ।
या पुन भिक्षुणी पुरुषेण सार्धं एका एकेन रहो निषद्यां कल्पेय पाचत्तिकं ॥लृं ॥
पाचत्तिकधर्म 122
उपकर्णकेन
236. भगवान् श्रावस्तीयम् विहरति । अथ भद्रा दानि कापिलेयी ज्ञातिकुलं गता । भ्रातृदुहितृपुत्रेहि मातुलपुत्रेहि सह अन्तो हस्तपाशस्य तिष्ठति संलपति उपकर्णकं जल्पति । भिक्षुणीयो दानि ओज्झायन्ति । किन् तावद् इमाये प्रव्रजिताये उपकर्णकं जल्पितेन ।
अवश्यम् एषा अस्माकम् अर्थाय जल्पति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आहंसुः यावत् ।
या पुन भिक्षुणी पुरुषेन सार्धं अन्तो हस्तपाशस्य संतिष्ठेय वा संलपेय वा उपकर्णम् वा जल्पेय पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । पुरुषेण सार्धम् इति गृहस्थेन वा प्रव्राजितेन वा । अन्तो हस्तपाशं ति व्यायामाभ्यन्तरे तिष्ठेय । संलपतीति किञ्चि जल्पेय । उपकर्णकं जल्पेया ति कर्णकल्पिकम् जल्पेय । पाचत्तिकं यावत् प्रज्ञप्तिः । न क्षमति भिक्षुणीय पुरुषेण सार्धं अन्तो हस्तपाशस्य तिष्ठतुम् वा सम्लपितुम् वा उपकर्णकम् वा जल्पितुम् वा । अथ दानि किं जल्पितव्यं भवति । परं हस्तपादा स्थिताय जल्पयितव्यं । अथ दानि गुह्यं जल्पितव्यं भवति भित्तिम् वा कुड्यम् वा स्तम्भम् वा वृक्षम् वा यमनिकाम् वा अन्तरीकृत्वा जल्पयितव्यं । सा एषा भिक्षुणी पुरुषेण सार्धम् अन्तो हस्तपाशस्य तिष्ठति वा संलपति वा उपकर्णकम् वा जल्पति पाचत्तिकं । भिक्षुर् अपि स्त्रिया सार्धं अन्तो हस्तपाशस्य तिष्ठति वा संलपति वा उपकर्णम् वा जल्पति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणीपुरुषेण सार्धं अन्तो हस्तपाशस्य सन्तिष्ठेय वा संलपेय वा उपकर्णं वा जल्पेय पाचत्तिकं
उद्दानं ।
छत्र [1(112)], मञ्च [2(113)], एकास्तरणा [3(114)] । प्रक्रमति [4(115)], प्रविशति [5(116)] । समनुष्य [6(117)], अध्वानं [7(118)], उद्यानम् [8(119)] । रहो [9(120)], पुरुष [10(121)], उपकर्णकेन [11(122)] ॥ द्वादशमो मा (व)र्गः ॥
पाचत्तिकधर्म 123
उपसंक्रमति
237. भगवान् वैशालीयम् विहरति । अथ भद्रा दानि कापिलेयी ज्ञातिकुलं गत्वा पुत्रभ्रातृभागिनेयानां रहो गतानां अन्धकारे अप्रतिसम्विदिता सहसा छत्ति प्रविशति । ते दानि तहिं वेडा भवन्ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गुअतमीये आरोचयेंसुः । पेयालं । यावद् आम भगवन् । भगवान् आह । एवं नाम त्वं जानन्ती सपुरुषम् आवासं अन्धकारे अप्रदीपिका उपसंक्रमसि । तेन हि न क्षमति एतद् एव यावत् पर्यवदातानि भविष्यन्ति
या पुन भिक्षुणी जानन्ती सपुरुषम् आवासम् अन्धकारे अप्रदीपिका उपसंक्रमेय पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय । सपुरुषो ति यहिं पुरुसो ति यहिं पुरुषो भवेय अन्धकारे अप्रदीपिकेति यहिन् न स्यात् तैलप्रदीपो वा कण्डोल्का वा । उपसंक्रमेय ति प्रविशेत पाचत्तिकं यावत् प्रज्ञप्तिः । न क्षमति भिक्षुणीय सपुरुषम् आवासम् अन्धकारे अप्रदीपिकाय उपसंक्रमितुं । अथ दानि किञ्चित् कार्यं भवति यदि तहिं उच्चशब्दो भवति प्रविशत्य् अनापत्तिः । अथ दानि अग्निर् न भवति प्रतिसंवेदयितव्यो । अच्छटिका वा कर्तव्या उक्कासितव्यम् वा । यद्य् आह प्रविशेति प्रविशितव्यं । स एषा भिक्षुणी नैव प्रतिसंवेदयति नाच्छटिकां करोति उपसंक्रमति पाचत्तिकम् आसादयति ।
भिक्षुर् अपि सस्त्रीकम् आवासम् अन्धकारे अप्रतिसंविदितो उपसंक्रमति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी जानन्ती सपुरुषम् आवासम् अन्धकारे अप्रदीपिका उपसंक्रमेय पाचत्तिकं ॥
पाचत्तिकधर्म 124
विशोको
238. भगवान् राजगृहे विहरति । तायो दानि षड्वर्गिणो भिक्षुणीयो गिर्यग्रसमाजं गच्छन्ति । ता दानि तहिं गत्वा पृथग् मञ्च गृह्णन्ति नटो नाटयति सप्रहासं वस्तुपदा नाटितम् भवति । सर्वो जनो हसति । तायो दानि तूष्णीकास् तिष्ठन्ति योगाचरा इव । यदा प्रशान्तम् भवति नाटकम् अवतारितं भवति । ततो तायो अट्टहासं मुञ्चन्ति । सर्वो जनो ततो सुखो भोति । जनो दानि ओज्झायति । अतिहास्यं इमासां श्रमणिकानां । ते दानि विचक्षु कृता नेलाटिकं न प्रयच्छन्ति । ओज्झायन्ति । इमासाम् श्रमणिकानां बाहनेलाटिकं न लभामः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् आम भगवन् भगवान् आह । तेन हि न क्षमति विशोकदर्शनाय गन्तुं । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।
या पुनर् भिक्षुणी विशोकदर्शनाय गच्छेत् पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । विशोकम् इति नटनर्तनकसल्लमल्लपाणिस्वरिकाः कुम्भभूमीराः अन्तमसतो यहिं चत्वारो पि जनाः सन्निपतन्ति क्रीड्यार्थं तहिं दर्शनाय गच्छन्ति । पाचत्तिकं यावत् प्रज्ञप्तिः । न दानि क्षमति विशोकदर्शनाय गन्तुं । अथ दानि भिक्षुणी पिण्डचारम् अण्वति पश्यति देवयानं निष्क्रमन्तं राज्ञो ऽन्तःपुरं निष्क्रान्तं दानि शक्यम् अक्षीणि निमीलयितुं किञ्चापि पश्यति अनापत्तिः । अथ दानि आभोगं करोति इमे पश्यामि इतो पश्यामीति पाचत्तिकं । अथ दानि भगवतो माल्यारोपणं भवति उपासकोपासिका आहंसुः । आर्यमिश्रिकाहि शोभा भावयितव्यं । सामग्री दातव्येति लभ्या सामग्री दातुं । अथ दानि तहिं कोचिच् चित्तस्य विकारो भवति न क्षमति स्थातुं । भिक्षुर् अपि विशोकदर्शनाय गच्छति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी विशोकदर्शनाय गच्छेत् पाचत्तिकं ॥
पाचत्तिकधर्म 125
कलहो
239. भगवान् श्रावस्तीयम् विहरति । अथ खलु महाप्रजापती गौतमी भिक्षुणीनां कलहजातानां भण्डनजातानां विग्रहविवादम् आपन्नानां विहरन्तीनां वृषभी समाना अधिकरणानि न व्युपशमयति न व्युपशमापयति न व्युपशमनायौत्सुक्यं करोति । एतं प्रकरणं भिक्षुणीयो भगवतो आरोचयेम्सुः । यावद् भगवान् सर्वं पृच्छति । यावद् आम भगवन् । भगवान् आह । एवं नाम त्वं भिक्षुणीनां कलहजातानां भण्डनजातानां विग्रहविवादम् आपन्नानां वृषभी समाना अधिकरणानि न व्युपसमयसि न व्युपसमापयसि न व्युपसमनायौत्सुक्यं करोसि । तेन हि न क्षमति । अथ खलु यावत् पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी भिक्षुणीनां कलहजातानां भण्डनजातानां विग्रहविवादम् आपन्नानां विहरन्तीनां वृषभी समना अधिकरणानि न व्युपशमयेन् न व्युपसमापयेन् न व्युपसमनायौत्सुख्यं कुर्यात् पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । कलहजातानाम् इति वाचाकलहं कुर्वन्तीनां वातयुक्तं मम युक्तम् इत्य् आदि । भण्डनजातानाम् इति अन्यमन्यं मम घटनं कुर्वन्तीनां । विग्रहविवादम् आपन्नानां विहरन्तीनाम् इति तद्यथा । धर्मो अधर्मो विनयो अविनयो । आपत्तिर् अनापत्तिः । गुरुका लघुका सप्रतिकर्मा अप्रतिकर्मा सावशेषा निरवशेषा । धर्मकर्म अधर्मकर्म समग्रकर्म व्यग्रकर्म यावत् स्थानार्हं कर्म इति विहरन्तीनां । वृषभी समाना ति प्रभू समाना । अधिकरणानि न व्युपसमयेद् इति स्वयन् । न व्युपसमापयेद् इति परेहि । न व्युपसमानायौत्सुक्यं कुर्यात् पाचत्तिकं यावत् प्रज्ञप्तिः । एता दानि भिक्षुणीयो कलहजाता भण्डनजाता विग्रहविवादम् आपन्ना विहरन्ति न दानि क्षमति तायो अद्युपेक्षितुं । अथ खु व्युपसमितव्याः व्युपसमापयितव्याः । औत्सुक्यं कर्तव्यं उपसमनाय प्रत्याशंसितव्यं परस्परं क्षमापयितव्याः प्राप्तकालं यथारूपं परिभाषयितव्याः समग्रीकर्त्व्याः । अथ दानि न शक्नोति अन्या भिक्षुणी अध्येसितव्या उद्योजयितव्या उपासकोपासिकायो भिक्षुभिक्षुणीयो । अथ तान्य् अधिकरणानि कर्क्कशानि भवन्ति दुर्व्युपसमानि तेषाम् एव अधिकरणानां कालम् आगमयति समयम् आगमयति परिपाकम् आगमयति । कालं च समयम् च परिपाकं चागम्य व्युपशमयत्य् अनापत्तिः भिक्षुर् अपि भिक्षूणां कलहजातानां भण्डणजातानां विग्रहविवादम् आपन्नानाम् विहरन्तानां वृषभो समानो अधिकरणानि न व्युपशमयति न व्युपसमापयति न व्युपसमानायौत्सुक्यं करोति विनयातिक्रमम् आसादयति । तेन भगवान् आह । या पुन भिक्षुणी भिक्षुणीनां कलहजातानां भण्डनजातानां विग्रहविवादम् आपन्नानां विहरन्तीनां वृषभी समाना अधिकरणानि न व्युपसमयेन् न व्युपसमापयेन् न व्युपसमानायौत्सुक्यं कुर्यात् पाचत्तिकं
पाचत्तिकधर्म 126
उद्वर्तनं
240. भगवान् वैशालीयम् विहरति । भद्रा दानि कापिलेयी ज्ञातिकुलं नीयते उद्वर्तनाय स्नापनाय गृहपतिनीहि नीयते । वयम् आर्याम् उद्वर्तयामः स्नापयिष्यामः अस्माकं पुण्यं भविष्यति । केचित् प्रसादेन केचिद् अङ्गयष्टिं पश्यितुकामाः । सा दानि प्रासादिका दर्शनीया । कौतूहलजातिको मातृग्रामः । वर्णलोलां उद्वर्तयन्ति कालेयकेन तुङ्गेयकेन स्वङ्गकेन पद्मकेन गन्धचूर्णेहि । सा पि दानि अधिवासयति । भिक्षुणीयो दानि ओज्झायन्ति । पश्य्थार्यमिश्रिकायो अद्यापीयं प्रव्रजिता महच्छन्दा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावद् आम भगवन् । भगवान् आह । एवन् नाम त्वं गृहिणीनाम् उद्वर्त्नपरिमर्दनस्नापनसम्मतेन उद्वर्तापयसि । तेन हि न क्षमति । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।
यानि खलु पुनर् इमानि गृहिणीनाम् उद्वर्तनपरिमर्दनस्नापनसम्मतानि तथारूपेहि भिक्षुणी अगिलाना उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं ।
यानि खलु पुनर् इमानि गृहिणीनम् इति क्षत्रियकन्यकानां ब्राह्मणकन्यकानां गृहपतिकन्यकानां । उद्वर्तनपरिमर्दनस्नापनसम्मतानीति कालेयकम् वा तुङ्गेयकम् वा चिक्कसम् वा । यद्य् एको वा तेहि भिक्षुणीहि अगिलाना उद्वर्तापयेत् । किन् तावद् अत्र गैलान्यम् अभिप्रेतं जरादुर्बला वा व्याधिदुर्बला वा भवति उद्वर्तापयत्य् अनापत्तिः । उद्वर्तापयेद् इति परिमर्दापयेत् पाचत्तिकं । अथ दानि गण्डम् वा पिटकम् वा भवति लभ्या भैषज्येहि उद्वर्तापयितुं परिमर्दापयितुं । अथ दानि पित्तसंक्षोभो भवति लभ्या चिक्कसेनालिंपितुं । अथ दानि वातसंक्षोभो भवति लभ्या गोधूमचिक्कसेनालिंपितुं । अथ दानि सन्निपातो भवति संयुक्तेहि भैषज्येहि उद्वर्तापयितव्यं परिमर्दापयितव्यं आलिंपितव्यं । ताय पि दानि आलिंपिय न क्षमति अभ्यागमे प्रदेशे स्थातुं । अथ खलु प्रतिगुप्ते प्रदेशे स्थातव्यं । यदावर्त भवति तदा उद्वर्तयित्वा निष्क्रमितव्यं । भिक्षुर् अपि अगिलानो चिक्कसेनोद्वर्तापयेत् परिमर्दापयेद् विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी गृहिणीनाम् उद्वर्तनपरिमर्दनस्नानसम्मतेहि उद्वर्तापयेत परिमर्दापयेत पाचत्तिकं ॥
पाचत्तिकधर्म 127
भिक्षुणी
241. भगवान् वैशालीयम् विहरति । भगवता दानि शिक्षापदं प्रज्ञप्तं न क्षमति गृहिणीनाम् उद्वर्तनपरिमर्दनस्नानसम्मतेहि उद्वर्तापयितुं परिमर्दापयितुं । सा दानि भद्रा भिक्षुणीहि उद्वर्तापयति परिमर्दापयति । भिक्षुणीयो दानि ओज्झायन्ति । पेयालं । यावद् भगवान् आह ।
या पुन भिक्षुणी अगिलाना भिक्षुणीय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । भिक्षुणीयेति उपसम्पन्नाय । अगिलाना ति किन् तावद् अत्र गैलान्यम् अभिप्रेतं जरादुर्बला वा व्याधिदुर्बला वा भोति । प्रत्युद्धृतं भगवता अनापत्तिः गिलानाय । उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी अगिलाना भिक्षुणीय उद्वर्तापयति न परिमर्दापयति विनयातिक्रमः । परिमर्दापयति नोद्वर्तापयति विनयातिक्रमः । उभयं करोति पाचत्तिकं । नोभयम् अनापत्तिः । भिक्षुर् अपि अगिलानो भिक्षुणा उद्वर्तापयति परिमर्दापयति विनयातिक्रमः । तेन भगवान् आह ।
या पुन भिक्षुणी अगिलाना भिक्षुणीय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं ॥ फु ॥
पाचत्तिकधर्म 128
श्रामणेरि
एवं एव श्रामणेर्या नास्ति नानाकरणं । तेन भगवान् आह ।
या पुन भिक्षुणी अगिलाना श्रामणेरीय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं ॥ फु ॥
पाचत्तिकधर्म 129
शिक्षमाणा
एतद् एव शिक्षमाणायाः । शिक्षमाणा नाम अष्टादशहि वर्तेहि द्वे वर्षाणि शिक्षमाणा यावत् । तेन भगवान् आह ।
या पुन भिक्षुणी अगिलाना शिक्षमाणाय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं ॥ग्रा ॥
पाचत्तिकधर्म 130
गृहिणी
एतद् एव गृहिणीय । नास्ति नानाकरणं । गृहिणीति गृहस्था । तेन भगवान् आह ।
या पुन भिक्षुणी अगिलाना गृहिणीय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं ॥ ह्रा ॥
पाचत्तिकधर्म 131
विशुद्धिसंवासेन
242. भगवान् श्रावस्तीयम् विहरति । भिक्षुणीयो दानि सन्निपतिताः पोषध कर्माय । जेता नाम भिक्षुणी । सा नागच्छति । ताये दूतो ऽनुप्रेषितो । आर्ये आगच्छाहि भिक्षुणीयो सन्निपतिताः पोषधकर्माय । सा दान् आह । भगवता विशुद्धस्य विशुद्धिपोषधः प्रज्ञप्तः । यावतिका का विशुद्धा अहन् तासाम् अन्यतमासां तत्र नागच्छामि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावद् आम भगवन् । भगवान् आह । दुष्कृतं ते जेते । त्वञ् च नाम पोषधन् न सत्करोषि । का अन्या सत्करिष्यति को च पोषधस्य सत्कारो । अगिलानाय उपसंक्रमितव्यं । गिलानाय छन्दो दातव्यो । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी अन्वर्धमासंअगिलाना विशुद्धिसंवासं न सत्करेय पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । अन्वर्धमासं विशुद्धिसंवासं ति चातुर्दशिकेन वा चातुर्दशिकं पाञ्चदशिकेन वा पाञ्चदशिकं । अगिलाना पोषधन् न सत्कारोति । किन् दानि अत्र गैलान्यम् अभिप्रेतं । एषा भवति जरादुर्बला वा व्याधिदुर्बला वा शिराविद्धिका वा भवति असुखा भैषज्यं वा पीतम् भवति । घृतं वा पीतम् भवति । छन्दो दातव्यो ।
सा एषा भिक्षुणी अगिलाना पोषधन् न गच्छति । गिलाना वा छन्दन् न देति पाचत्तिकं ।
भिक्षुर् अपि अगिलानो नैव पोषधं गच्छति न च्छन्दन् देति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी अन्वर्धमासं अगिलाना विशुद्धिसंवासन् न सत्करेय पाचत्तिकं ।
उद्दानं ।
उपसंक्रमति [1(123)] । कलहो [3(124)] । विशोको [2(125)] । उद्वर्तनं [4(126)] । भिक्षुणी [5(127)] । श्रामणेरी [6(128)] । शिक्षमाणा [7(129)] । गृहिणीय [8(130)] । विशुद्धिसंवासेन [9(131)] ॥
पूर्यते त्रयोदशमो वर्गः ॥
पाचत्तिकधर्म 132
ओवादोपसंक्रमणं
विशुद्धिपोषधं
243. भगवान् श्रावस्तीयम् विहरति । थेरभिक्षू पर्यायेण भिक्षुणीयो ओवदन्ति । ते दानि आयुष्मन्तो षड्वर्गिकाः ओवादकवारं न लभन्ति । ते दान् आहंसुः । न एते युष्माकं ओवादकवारं दास्यन्ति । कस्य दानि वयम् ओवादकवारं गच्छामः । ते दान् आहंसुः । आयुष्मां च्छारिपुत्रः स खिलो च मृदुको च । विस्तारेण यावद् भगवता शिक्षापदं प्रज्ञप्तं । न क्षमति असम्मतेन भिक्षुणा भिक्षुणीयो ओवदितुं । एष निःसीमं गत्वा परस्परं सम्मन्यामः । ते दानि निःसीमं गत्वा अन्यमन्यं संमन्यित्वा कल्यतो येव निवासयित्वा प्रावरित्वा च भिक्षुणी उपाश्रयं गत्वा आहंसुः । सन्निपतथ भगिनीयो ओवादो भविष्यति । यायो षड्वर्गिणीयो तायो ऽच्छन्ति सन्निपतिताः । यायो योगाचारायो भिक्षुणीयो तायो न सन्निपतन्ति । आहंसुः । किम् अर्थम् वयम् एषाम् अविनीतानाम् अववादं गमिष्यामः । ते दानि ताहि सह मुहूर्तम् अन्तरं काकवंहा भञ्जित्वा गताः । आयुष्मान् दानि शारिपुत्रो कालस्यैव निवासयित्वा पात्रचीवरम् आदाय आयुष्मता आनन्देन पश्चाच् छ्रमणेन सार्धं विस्तरेण । यावद् आह । सन्निपतथ भगिनीयो ओवादो भविष्यति । यायो भिक्षुणीयो योगाचाराः तायो ऽच्छन्ति सन्निपतितायो । षड्वर्गिणीयो भिक्षुणीयो नागच्छन्ति । थेरो पृच्छति । समग्रो हि भिक्षुणीसंघो । आहंसुः । नहि को नागच्छति । आहंसुः षड्वर्गिणीयो । तासान् दूतः प्रेषितो । आगच्छथ भगिनीयो ओवादो भविष्यति । ता दान् आहंसुः । न वयम् आगमिष्यामः । ओवदिता वयम् आर्यमिश्रकेहि षड्वर्गिकेहि अन्यविहितकेन ओवादेन । अथायुष्मान् शारिपुत्रो व्यग्रो भिक्षुणीसंघो ति कृत्वा उत्थायासनातो प्रक्रान्तो । भगवान् जानन्तो येव पृच्छति किन् दानि गौतमी माता शीघ्रम् आगतो सि । ओवदिता भिक्षुणीयो । आह । अहं भगवन् कालस्यैव निवासयित्वा यावद् भिक्षुणीउपाश्रयं प्रविष्टो ओवदितुं मयोक्तं सन्निपतथ भगिनीयो ओवादो भविष्यति । यायो योगाचारायो भिक्षुणीयो तायो ऽच्छन्ति सन्निपतितायो । यायो षड्वर्गिणीयो भिक्षुणीयो ता न सन्निपतन्ति । अहं जल्पामि समग्रो भिक्षुणीसंघो । आहंसुः । नहि । को नागच्छति । आहंसुः षड्वर्गिणीयो । तासान् दूतः प्रेषितः । आगच्छथ भगिनियो ओवादो भविष्यति । आहंसुः । न वयम् आगमिष्यामः ओवदिता वयम् आर्यमिश्रिकेहि षड्वर्गिकेहि अन्यविहितकेन ओवादेन । अहं पि भगवन् व्यग्रो भिक्षुणीसंघो ति कृत्वा उत्थायासनातो सन्निर्गतो । भगवान् आह । शब्दापयथ षड्वर्गिणीयो भिक्षुणीयो । ता दानि शब्दापिताः । तद् एव सर्वं भगवान् विस्तरेण पृच्छति । यावद् आम भगवन् । भगवान् आह । दुष्कृतं वो षड्वर्गिणीयो यावत् पर्यवदातानि भवन्ति ।
या पुन भिक्षुणी अन्वर्ध मासं भिक्षुसंघे ओवादोपसंक्रमणं न सत्करेय पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । अन्वर्धमासन् ति चातुर्दशिकेन वा चातुर्दशिकं । पाञ्चदशिकेन वा पाञ्चदशिकं । भिक्षुसंघे ओवदोपसंक्रमणं न सत्करेय पाचत्तिकं यावत् प्रज्ञप्तिः । अथ दानि जरादुर्बला वा व्याधिदुर्बला वा घृतपीतिका वा भवति वक्तव्यं । ओवादस्य छन्दन् देमि त्रिक्खत्तो । सा एषा भिक्षुणी अगिलाना ओवादोपसंक्रमणं न गच्छति गिलाना वा छन्दन् न देति पाचत्तिकम् आसादयति । यदा पोषधो भवति तदा च्छन्दहारिकाहि भिक्षुविहारङ् गत्वा वक्तव्यं । समग्रो भिक्षुणीसंघो समग्रस्य भिक्षुसंघस्य पादां च्छिरसा वन्दति पोषधञ् च प्रतीच्छति अववादं च याचति एवं त्रिक्खत्तो याचितव्यं । यदि तावत् कोचिद् भिक्षुणीओवादको भवति वक्तव्यं । एष भगिनीयो ओवादको आगमिष्यति । अथ न कोचिद् भवति यो तंहि अङ्गोपेतो भवति सो संमन्यितव्यो । अथ न कोचिद् वक्तव्यं । नास्ति भगिनीयो भिक्षुणीओवादको अप्रमादेन संपादेथ आपत्तिञ् च पोषधं प्रतिजाग्रथ सगौरवा च भवथ स्थविरेहि भिक्षूहि मध्येहि नवकेहीति । तेन भगवान् आह ।
या पुन भिक्षुणी अन्वर्धमासं विशुद्धिपोषधं न सत्करेय पाचत्तिकं ॥
पाचत्तिकधर्म 133
गण्डम् वा पिटकम् वा
244. भगवान् राजगृहे विहरति । जेताये भिक्षुणीये संबाधे प्रदेशे गण्डम् उत्पन्नं । ताये अन्तेवासिनीयो गोचरञ् गतायो । हिण्डिकवैद्यो आगतो । सा दान् आह । दीर्घायुः शक्यसि मम शस्त्रकर्म कर्तुं । सो दान् आह । बाढं । सो दानि पाटयित्वा धोवायित्वा उपनाहयित्वा गतो । तायो भिक्षुणीयो आगतायो । ताहि दानि सो प्रदेशो दृष्टो पूयम्रक्षितो । ता दान् आहंसुः । आर्ये किम् इदं । आह । शस्त्रकर्म कारितं । आहंसुः । साहसम् आर्याय कृतं संबाधे प्रदेशे शस्त्रकर्म कारयन्तीय । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावद् आम भगवन् । भगवान् आह । एवं च नाम त्वं उपरि जानुमण्डलाभ्यां अधो कक्षाभ्यां गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा अकृत्वा पूर्वकृत्यं अनवलोकयित्वा संघं शस्त्रकर्म कारापयसि । तेन हि न क्षमति । पेयालं । यावत् ।
या पुन भिक्षुणी उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्यां गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा अकृत्वा पूर्वकृत्यं अनवलोकयित्वा संघं पुरुषेण पातापयेद् वा धोवापयेद् वा उपनाहापयेद् वा पाचत्तिकं ॥
या पुन भिक्षुणीति उपसम्पन्ना । उपरि जानुमण्डलाभ्याम् इति ऊरुनाभिभ्यां । अधो कक्षाभ्याम् इति स्तनोदरस्य । गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा अकृत्वा पूर्वकृत्यन् ति भिक्षुणी वक्तव्यो शस्त्रकर्म कारापयिष्यन् ति ।
अनवलोकयित्वा संघा ति संघमध्ये अवलोकना कर्तव्या । शृणोतु मे आर्या संघो यदि संघस्य प्राप्तकालं इत्थन्नामा भिक्षुणी शस्त्रकर्म कारापेय । कारापयिष्यति आर्या संघो इत्थन्नामा भिक्षुणी शस्त्रकर्म । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
पुरुषेणेति गृहस्थेन वा प्रव्रजितेन वा पाटापयेद् वा धोवापयेद् वा उपनाहापेय वा ति यथा जेता भिक्षुणीति पाचत्तिकं यावत् प्रज्ञप्तिः । अथ दानि संबाधे प्रदेशे गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा भवति अन्तेवासिनीये वा समानोपाध्यायिनीये वा समानाचार्याये वा यस्या विश्वासो ताय आख्यातव्यं । कण्टकेन वा नखेन वा भेदापयितव्यं भैषज्येन वा आलिम्पापेयतव्यं अथ दानि अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्याम् भवति गण्डम् वा पिटकम् वा क्षतम् वा पुरुषेण पाटापयति वा धोवापयति वा उपनाहापयति वा एवम् शिराम् वा वेधापयति नेलाटिकम् वा बाहुशिराम् वा गुल्फशिराम् वा अपराय भिक्षुणीय आक्रमितव्या तेन भगवान् आह ।
या पुन भिक्षुणी उपरि जानुमण्डलाभ्यां अधो कक्षाभ्यां गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा अकृत्वा पूर्वकृत्यं अनवलोकयित्वा संघं पुरुषेण पाटापयेद् वा धोवापयेद् वा उपनाहापयेद् वा पाचत्तिकं ॥
पाचत्तिकधर्म 134
वर्षोपगता
245. भगवान् श्रावस्तीयम् विहरति । अथ काली नाम भिक्षुणी वर्षोपगता सांघिकं विहारं बन्धित्वा चारिकां प्रक्रान्ताः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावद् आम भगवन् । भगवान् आह । दुष्कृतम् ते कालि एवन् नाम त्वं वर्षोपगतानां चारिकां प्रक्रमसि । तेन हि न क्षमति वर्षोपगताय चारिकां प्रक्रमितुं । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी वर्षोपगता चारिकां प्रक्रामेय पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । वर्षा ति वर्षारात्रं । उपगता ति पुरिमिकां पश्चिमिकाम् वा वर्षोपनामयिकां उपगता । चारिकां प्रक्रामेया ति अन्यत्र गच्छेय ग्रामान्तरं पि पाचत्तिकं यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी एकरात्रम् पि विप्रवसति पाचत्तिकं । अथ दानि राजभयम् वा सेनाभयम् वा परचक्रभयम् वा जीवितान्तरायो वा ब्रह्मचर्यान्तरायो वा भवेय किञ्चापि गच्छति अनापत्तिः । नास्ति भिक्षुण्या अवलोकनाकर्म सप्ताहं वा किञ्चापि भिकुः अवलोकनाकर्म कृत्वा सप्ताहं वा अधिष्ठिहेय गच्छत्य् अनापत्तिः । तेन भगवान् आह ।
या पुन भिक्षुणी वर्षोपगता चारिकां प्रक्रमेय पाचत्तिकं
मूल पाठ: Bhikṣuṇīvinaya · Edition: Gustav Roth: Bhikṣuṇī Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0