भिक्षुणीविनय · अध्याय 9
भिक्षुणी प्रकीर्णक 4
श्रोणिभण्डकप्रतिसंयुक्तं
258. भगवान् श्रावस्तीयम् विहरति । यथैव वेठकस्य एवम् एवार्थोत्पत्तिः कर्तव्या । सा प्रतिकृत्य्ऽ एव उत्तरित्वा श्रोणीभण्डकम् आबन्धित्वा आह । प्रजापती प्रजापति निध्यायथ मां किम् अहम् शोभामि न शोभामीति । ता दान् आहंसुः । किम् आर्याय । पेयालम् । यावद् आम भगवन् । भगवान् आह तेन हि न क्षमति श्रोणीभण्डं । श्रोणीभण्डकप्रतिसंयुक्तं । श्रोणीभण्डकन् नाम एते भवन्ति । शङ्खावर्त्तका वा शिरिका वा पीलुका वा विद्रुमा वा अक्षरक्षा वा सुवर्णरूप्यमया वा मणिमया वा प्रकालका वा अन्तमसतो सूत्रमणिका वा बन्धति । तेन च श्रोणीभण्डकछन्दं विनोदयति विनयातिक्रमम् आसादयति । इदम् उच्यते श्रोणीभण्डकप्रतिसंयुक्तं ॥ ण्क ॥
भिक्षुणीप्रकिर्णक 5
गृहिणिभण्डकप्रतिसंयुक्तं
259. भगवान् श्रावस्तीयम् विहरति । एषैवार्थोत्पत्तिः यावद् गृहिणीभण्डकम् आबन्धित्वा यावद् भगवान् आह । तेन हि न क्षमति गृहिणीभण्डकं । गृहिणीभाण्डकन् नाम एते भवन्ति । मूर्धापिधानका वा । वलया वा । कर्णिका वा । टिक्का वा । वेठका वा । हर्षका वा । हारा वा । अर्धहारा वा अपरञ्जग वा । कटका वा । शङ्खका वा । नूपुरा वा । अङ्गुलीयका वा । यद् वा पुनर् अन्यद् अपि किञ्चिद् गृहिणीभाण्डं सर्वन् न क्षमति । सा एषा भिक्षुणी गृहिणीभण्डकम् आबन्धयति विनयातिक्रमम् आसादयति । अथ दानि भैषज्यभण्डकम् आबन्धति ज्वरसूत्रकम् वा अनापत्तिः । इदम् उच्यते गृहिणीभाण्डकप्रतिसंयुक्तं ॥ तृ ॥
भिक्षूणीप्रकिर्णक 6
गृहिणीअलङ्कारप्रतिसंयुक्तं
260. भगवान् श्रावस्तीयम् विहरति । तायो दानि शाकियकन्यायो कोलितकन्यायो मल्लकन्यायो महान्तेहि कुलेहि प्रव्रजिता अलङ्कारिकान्य् आदाय । कुमारिकानां वुह्यन्तीनां उत्सवसमये तिथि पर्वण्या देवयात्रादिषु कृतकानि भाण्डकानि ददन्ती । जनो दानि ओज्झायति । नेयं प्रव्रज्या वाणिजेयं । एतं प्रकरणं । पेयालं यावद् भगवान् आह । तेन हि न क्षमति गृहिणीअलङ्कारं धारयितुं । यदि काचिद् गृहिणी प्रव्रजति यदि ताय किञ्चिद् अलङ्कारं भवति वक्तव्या विसर्जेहि । अथ दानि पश्यति दुर्भिक्ष वा भवेय पिण्डपातो वा न लभ्येत जरादुर्बला वा भवति व्याधिदुर्बला वा गैलान्यम् वा किञ्चिद् भविष्यति अल्पलाभो मातृग्रामो मा विहन्येया ति । पिण्डं कारयित्वा पर्व्राजयितव्या । सा एषा भिक्षुणी अलङ्कारम् अपरित्याजयित्वा प्रव्रजेति विनयातिक्रमम् आसादयति । भिक्षोर् अप्य् एष एवं विधिर् । इदम् उच्यते गृहिणीअलङ्कारप्रतिसंयुक्तं ॥ फु ॥
भिक्षुणीप्रकिर्णक 7
वेश्याप्रतिसंयुक्तं
261. भगवान् श्रावस्तीयम् विहरति । तायो दानि भिक्षुणीयो शाकीयकन्यायो कोलियकन्यायो मल्लकन्यायो महाकुलेहि प्रव्रजिता चेटिकाम् आदाय प्रव्रजन्ति । तायो चेटिकायो प्रासादिकायो दर्शनीयायो वेश्यं (!) वाहयन्ति । जनो दनि ओज्झायति । नेयं प्रव्रज्या गणिका इमा । एतं प्रकरणं भिक्षुणीहि श्रुतं । यावद् आम भगवन् । भगवान् आह । एवं च नाम यूयं वेश्याम् उपस्थापयथ । तेन हि न क्षमति वेश्याम् (!) उपस्थापयितुं । सा एषा भिक्षुणी वेश्याम् उपस्थापयति तेन जीविकां कल्पयति विनयातिक्रमम् आसादयति । इदम् उच्यते वेश्याप्रतिसंयुक्तं ॥ ग्रा ॥
भिक्षुणीप्रकीर्णक 8
आरामिकिनिप्रतिसंयुक्तं
262.भगवान् श्रावस्तीयम् विहरति । भगवता दानि शिक्षापदं प्रज्ञप्तं । न क्षमति वेश्याम् उपस्थापयितुं ति । तायो दानि शाकियकन्यायो मल्लकन्यायो कोलितकन्यायो महाकुलेहि प्रव्रजन्ति । तायो दानि पौद्गलिकाम् आरामिकिनीम् उपस्थापेन्ति । तायो दानि आरामिकिनीयो प्रासादिकायो जनो दानि ओज्झायति । नेयं प्रव्रज्या गणिका इयं । एतं प्रकरणं भिक्षुणीहि श्रुतं यावद् आम भगवन् । भगवान् आह । तेन हि न क्षमति पौदगलिकाम् आरामिकिनीम् उपस्थापयितुं । न क्षमति आरामिकिनी । ना क्षमति चेटी । न क्षमति कल्पियकारी । सा एषा भिक्षूणी या पौद्गलिकाम् आरामिकिनीम् उपस्थापयति विनयातिक्रमम् आसादयति । इदम् उच्यते आरामिकिनीप्रतिसंयुक्तम् ॥ ह्रा ॥
भिक्षूणीप्रकीर्णक 9
संकक्षिकाप्रतिसंयुक्तं
263. भगवान् श्रावस्तीयम् विहरति । अपरा दानि भिक्षुणी प्रासादिका दर्शनीया । ताये दानि पीनेहि स्तनेहि गच्छन्तीय चीवरम् उत्क्षिपीयति । सा दानि जनेन उच्चग्घीयति । एतं प्रकरणं भिक्षुणीहि श्रुतं । पेयालं । यावद् आम भगवन् । भगवान् आह तेन संकक्षिका नाम कर्तव्या । सम्कक्षिकां प्रावरन्तीय तथा प्रावरितव्यं यथा दानि स्तनापीडिता भवन्ति । सा एषा भिक्षुणी संकक्षिकान् नोपस्थापयति विनयातिक्रमम् आसादयति । सन्ती न प्रावरयति विनयातिक्रमः इदम् उच्यते संकक्षिकाप्रतिसंयुक्तं
भिक्षुणीप्रकीर्णक 10
दकशाटिकाप्रतिसंयुक्तं
264. भगवान् वैशालीयम् विहरति । भद्राय दानि कापिलेय्या अर्थोत्पत्तिः कर्तव्या । यावद् भगवान् आह । तेन हि न क्षमति नग्निकाया स्नातुं । दकशाटिकाय स्नापितव्यं । दकशाटिकाप्रतिसंयुक्तं । न क्षमति नदीयम् वा ओघे वा पुष्किरिणीयम् वा तडागे वा नग्निकाय स्नापितुं । दकशाटिकाय स्नापितव्यं । नग्निका स्नायति विनयातिक्रमः । अथ दानि विहारे गुप्ते प्रदेशे नग्निका स्नायत्य् अनापत्तिः । इदम् उच्यते दकशाटिकाप्रतिसंयुक्तं ॥ ऌ ॥
॥ प्रथमो वर्गः ॥
भिक्षुणीप्रकीर्णक 11
तलघातप्रतिसंयुक्तं
265. भगवान् श्रावस्तीयं विहरति । भिक्षुणीविहारो च गृहिकुलं च कच्छान्तरिता । तायो दानि भिक्षुणीयो कामरागेण खज्जन्ति । तायो दानि हस्ततलेनाङ्गजातं प्रस्फोटयन्ति । सो मनुष्यो पुनो पुनो शब्दं शृणोति । सो दान् आह । किम् एतन् ति । सा दानि स्त्री आह । भवतु आर्यपुत्र अहम् एतं जानामि किन् तवानेन ज्ञानेन । आह । नहि आचिक्षाहि । आह । एता आर्यमिश्रिकायो ब्रह्मचारिणीयो कामरागेन खज्जन्तीयो हस्ततलेन आस्फोटयन्ति आङ्गजातं । तेन दानि मनुष्येण ओज्झापितं । एतं प्रकरणं भिक्षूणीहि श्रुतं । यावद् भगवान् अह । तेन हि न क्षमति तलघातकं । तलघातप्रतिसंयुक्तं । सा एषा भिक्षुणी हस्ततलेनाङ्गजातम् आस्फोटयति पात्रेण वा कुपात्रेण वा कंसिकाय वा विडल्लाय वा अन्येन वा पुन केनचित् तेन च कामरागं विनोदयति विनयातिक्रमम् आसादयति । इदम् उच्यते तलघातकप्रतिसंयुक्तं ॥ [1] ॥
भिक्षूणी प्रकीर्णक 12
जतुमट्ठकप्रतिसंयुक्तं
266. भगवान् श्रावस्तीयं विहरति । अपराय दानि भिक्षुणीय कामरागेण खज्जन्तीय जतुमट्ठकं मञ्चकं यन्त्रितं । अत्र विप्रतिपद्यिष्यन् ति । तद् अनन्तरम् अग्निर् उत्थितो । ताय दानि संभ्रान्ताय असमन्वाहरित्वा स मञ्चको बहिन् निष्कासितो । मनुष्यो दानि प्रत्यवेक्षमाणा अण्वन्ति । कहिं अग्निर् उत्थितो कस्य गृहाद् उत्थितो । तेहि दानि सो दृष्टो । ते दानि ओज्झायन्ति । एतं प्रकरणं भिक्षुणीहि श्रुतं । पे । यावद् भगवान् आह । तेन हि न क्षमति जतुमट्ठकं । जतुमट्ठकप्रतिसंयुक्तं । जतुमट्ठकं नाम जतुस्य वा लोहस्य वा त्रपुस्य वा नाग्रस्य वा हारकूटस्य वा दन्तस्य वा चोडकस्य वा मृत्तिकाय वा अङ्गजातकाकारं कृत्वा स्वे अङ्गजाते प्रवेशेति तेन च काम रागं विनोदेति थुल्ऽ-अच्चयम् आसादयति । इदम् उच्यते जतुमट्ठकप्रतिसंयुक्तं
मूल पाठ: Bhikṣuṇīvinaya · Edition: Gustav Roth: Bhikṣuṇī Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0