भिक्षुणीविनय · अध्याय 6
पाचत्तिकधर्म 111
यानम्
225. भगवान् वैशालीयम् विहरति । अथ भद्रा कापिलेयी चतुर्युक्तं यानम् अभिरुहित्वा ज्ञातिकुलं गच्छति । जनो दानि ओज्झायति । पश्यथ भणे श्रमणिका महच्छन्दा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी यानम् अभिरुह्येत् पाचत्तिकं । एषैवार्थोत्पत्तिः । भगवान् श्रावस्तीयम् विहरति । ता दानि शाकीयकन्याः कोलीयकन्याः लेच्छविकन्याश् च प्रकृतिसुकुमाराः प्रव्रजिताः । पादेहि गच्छन्तीयो किलम्यन्ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । तेन हि अनुजानामि गिलानाये । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति यावत् ।
या पुन भिक्षुणी अगिलाना यानम् अभिरुहेत् पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । अगिलाना ति प्रत्युद्धृतं भगवता पदं अनापत्तिः गिलानाये । ग्लान्यं नाम जरादुर्बला वा व्याधिदुर्बला वा प्रकृतिसुकुमारा वा न शक्नोति पद आगच्छन्तु इदम् अत्र गैलान्यम् अभिप्रेतं । यानन् नाम हस्तियानं अश्वयानम् उष्ट्रयानं गोयानं गर्दभयानं नावायानं शिविकायानं यानयानम् एव अष्टमं । अभिरुह्येत् पाचत्तिकं । न क्षमति भिक्षुण्या यानम् अभिरुहितुं । यत्र उष्ट्रा वा गोणा वा युक्ता भवन्ति । अथ खलु स्त्रीयानम् अभिरुहितव्यं । यहिं उष्ट्रीयो वा गोणीयो वा युक्ता भवन्ति तहिं आरुहितव्यं । अथ दानि असंज्ञिका भवति न स्त्रीं न पुरुषं जानाति अनापत्तिः । अथ दानि नावाय अपरात् परम् उत्तरत्य् अनापत्तिः । ऊर्ध्वङ्गामिनीयम् वा अधोगामिनीयम् वा प्रत्ययो अधिष्ठिहितव्यो मा मरिष्यामीति । भिक्षुर् अपि अगिलानो यानमभिरुहति विनयातिक्रमम् आसादयति । प्रत्ययम् अधिष्ठिहति अनापत्तिः । तेन भगवान् आह ।
या पुन भिक्षुणी अगिलाना यानम् अभिरुहेत् पाचत्तिकं ।रा ॥
पाचत्तिकधर्म 112
छत्र
226. भगवान् वैशालीयम् विहरति । भद्रा कापिलेयी छत्रेण गृहीतेन उपानहाभ्याम् आबद्धाभ्यां ज्ञातिकुलं गच्छति । जनो दानि ओज्झायति । पश्यथ भणे श्रमणिका अद्यापीयं प्रव्रजिता पि महच्छन्दा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । तेन हि न क्षमति छत्रोपानहं ।
एषैवार्थोत्पत्तिः । भगवान् श्रावस्तीयम् विहरति । ता दानि शाकीयकन्याः लेच्छविकुमाराः प्रव्रजिता गच्छन्तीयो आतपेन दह्यन्ते । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं यावद् भगवान् आह । तेन हि अनुजानामि गिलानाये । यावात् ।
या पुन भिक्षुणी अगिलाना छत्रोपानहं धारयेत् पाचत्तिकं ।
या पुन भिक्षुणी ति उपसम्पन्ना । अगिलाना ति प्रत्युद्धृतं भगवता पदं अनापत्तिर् गिलानाये । किन् तावद् अत्र गैलान्यम् अभिप्रेतं । जरादुर्बला वा व्याधिदुर्बला व प्रकृतिसुकुमारा वा । शक्नोति गन्तुं आतपेन दह्यते । छत्रोपानह इति छत्रन् नाम भूर्जछत्रं तालछत्रं वेणुछत्रं पर्णछत्रं चैलछत्रम् । उपानहा नाम एकपलासिका संपुटा वा । धारयेद् इति परिभुञ्जेत् पाचत्तिकं । यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी अगिलाना छत्रन् धारेति न उपानहां विनयातिक्रमम् आसादयति । उपानहान् धारेय न छत्रं विनयातिक्रमम् आसादयति । उभयन् धारेति पाचत्तिकं । नोभयं अनापत्तिः । भिक्षुर् अपि पिचुमस्तकादि छत्रं धारेति संपुटाम् वा अनिर्मोकां विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी अगिलाना छत्रोपानहं धारयेत् पाचत्तिकं ।
पाचत्तिकधर्म 113
मञ्च
227. भगवान् वैशालीयम् विहरति । भद्रा दानि कापिलेयी ज्ञातिकुलं गच्छति । तेषां शय्या आस्तृतप्रत्यास्तृता द्विकडेवर त्रिकडेवरेहि निश्रेणीय आरुह्यति । चरकपरिव्राजका भिक्षुणीयो च भिक्षार्थं प्रविशन्ति । ते तां दृष्ट्वा ओज्झायन्ति । पश्यथ भणे श्रमणिका अद्यापीयं महच्छन्दा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावच् छब्दापयथ भद्रां । सा दानि शब्दापिता । तद् एव सर्वं भगवान् विस्तरेण पृच्छति । यावद् आम भगवन् । भगवान् आह । एवं नाम त्वं अतिरेकप्रामाणिके मञ्चे वा पीठे वा अभिनिषीदसि अभिनिपद्यसि । तेन हि न क्षमति अतिरेकप्रामाणिके मञ्चे वा पीठे वा अभिनिषीदितुं वा अभिनिपद्यितुम् वा । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी अतिरेकप्रामाणिके मञ्चे वा पीठे वा अभिनिषीदेय वा अभिनिपद्येय वा पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । अतिरेकप्रामाणिके इति सुगताष्टाङ्गुलप्रमाणतो उत्तरि । मञ्चे वा पीठे वा ति चतुर्दश मञ्चाः चतुर्दश पीठाः । अभिनिषीदेय वा ति आसेय । अभिनिपद्येय वा ति शय्यां कल्पयेत् पाचतिकं । यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी सकृन् निषण्णा दिवसं पि निषीदति एकं पाचत्तिकम् आसादयति । अथ पुनो पुनो निषीदति तावत्यः पाचत्तिकाः । अतिरेकप्रमाणं भूमौ निखनित्वा उपविशति वा निपद्यति वा अनापत्तिः । भिक्षुर् अपि अतिरेकप्रामाणिके मञ्चे वा पीठे वा निषीदति वा अभिनिपद्यति वा विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी अतिरेकप्रामाणिके मञ्चे वा पीठे वा अभिनिषीदेय वा अभिनिपद्येय वा पाचत्तिकं
पाचत्तिकधर्म 114
एकास्तरणा
228. भगवान् श्रावस्तीयम् विहरति । ता दानि षड्वर्गिणीयो भिक्षुणीयो एकास्तरणप्रावरणां शय्यां कल्पयन्ति । तायो मञ्चां भञ्जन्ति बिशिकां पाटेन्ति चतुरस्रकां पाटेन्ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावत् ता दानि शब्दापिताः पृच्छीयन्ति । यावद् आम भगवन् । भगवान् आह । दुष्कृतं वो भिक्षुणीयो यावत् ।
या पुन भिक्षुणी एकास्तरणप्रावरणां सहशय्यां कल्पयेत् पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । एकास्तरणा ति एकमञ्चास्तरणा । एकप्रावरणा ति एकचेला । शेय्या ति पङ्गुलमञ्चो पङ्गुलपीठो यावत् कटकिलञ्जादयो । कल्पयेद् इति कुर्यात् । पाचत्तिकम् यावत् प्रज्ञप्तिः । न क्षमति भिक्षुणीये सहशय्यां कल्पयितुं । अथ खलु मञ्चे एकाकिनीय शयितव्यं । त्रिहि पीठेहि द्विहि जनाहीति पादां प्रासारयन्तीहि तथा प्रसारयितव्याः यथा अन्यमन्यस्य जानुका नाक्रमेयुः । बिस्याम् एकाकिन्या शयितव्या । तिर्यक् प्रज्ञप्ताया तृहि जनेहि शयितव्यं पाटियकपाटियकेहि प्रत्यास्तरणेहि यथा चतुरस्रके यथा पीठे । अथ दानि तृणादि संस्तरो भवति न क्षमति अतिबहुं आक्रमितुं । अथ खु निर्मुष्टिकं समं प्रज्ञापयितव्यं पाटियकपाटियकेहि प्रत्यास्तरणेहि । अथ दानि शीतम् भवति स्वकस्वकान्य् अन्तरीकरणानि कृत्वा एकं संचेली कर्तव्या । भिक्षुर् अपि सहशय्यां कल्पयति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी सहशय्यां कल्पयेत् पाचत्तिकं
पाचत्तिकधर्म 115
प्रक्रमति
229. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दा नाम भिक्षुणी सांघिके विहारे शय्यासनं रुन्धित्वा चारिकां प्रक्रान्ता । भिक्षुणीयो आगन्तुकायो आगतायो । तायो भिक्षुणीयो यथावृद्धिकाय उत्थापीयन्ति तस्मिन् विहारे सांघिकं शय्यासनं । ता भिक्षुणीयो दानि ओज्झायन्ति । किम् अस्य दानि सांघिकं शयनासनं निरुन्धिय चारिकां प्रक्रमीयति । न शयनासनम् अनिःसरित्वा गन्तव्यं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावच् छब्दापयथ नन्दां । सा दानि शब्दापिता । एतद् एव पृच्छियति यावद् आम भगवन् । भगवान् आह । दुष्कृतं ते नन्दे एवं च नाम त्वं सांघिकं शयनासनं अनिःसरित्वा चारिकां प्रकरमसि । तेन हि न क्षमति सांघिकं शयनासनम् अनिःसरिव्ता चारिकां प्रक्रमितुं । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी सांघिकं शयनासनम् अनिःसरित्वा चारिकां प्रक्रामेय पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । सांघिकं शयनासनन् ति मञ्चम् वा पीठम् वा बिसिकाम् वा चतुरस्रकाम् वा कुच्चम् वा बिम्बोहनम् वा । अनिःसरित्वा ति अनिर्यातयित्वा । चारिकां प्रक्रमेया ति अन्यत्र गच्छेत् पाचत्तिकं यावत् प्रज्ञप्तिः । न क्षमति भिक्षुणीये सांघिकं शयनासनम् अनिःसरित्वा चारिकां प्रक्रमितुं । प्रक्रमन्तीय वक्तव्यं यथा पलिगुद्धं शयनासनं निःसरामीति । अनिःसरित्वा प्रक्रामति पाचत्तिकम् आसादयति । अथ दानि एकवस्तुको संघारामो भवति अनिःसरित्वा चारिकां प्रक्रमति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी सांघिकं शयनासनम् अनिःसरित्वा चारिकां प्रक्रमेय पाचत्तिकं ।ण्àüक ॥
पाचत्तिकधर्म 116
प्रविशति
230. भगवान् श्रावस्तीयम् विहरति । सो दानि गर्तोदरपिता स्वविहारे स्नापयति । गर्तोदरमाता अप्रतिसम्विदिता विहारं गच्छति । प्रविशित्वा पृष्ठिम् अस्य मर्दति । तेनावलोकिता । सो दान् आह । अये हि स्त्री ति । सा दान् आह । अपापा गर्तोदरपिता । कस् तावद् अत्र दोषो ऽयं दानि अहं अन्यदापि अन्यदापि स्नापयामि । सो दान् आह । अन्यदाहम् गृही आसि इदानीं प्रव्रजितो । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावच् छब्दापयथ गर्तोदरमातां । सा दानि शब्दापिता तद् एव सर्वं । भगवान् विस्तरेण पृच्छति । यावद् आम भगवन् । भगवान् आह । अन्यदापि स्नापयामि । सो दान् आह । दुष्कृतन् ते गर्तोदरमाते यावद् एवन् नाम त्वं जानन्ती पूर्वे अप्रतिसम्विदिता अनाहूता उपसम्क्रमसि । तेन हि न क्षमति यावद् भगवान् आह ।
या पुन भिक्षुणी जानन्ती सभिक्षुकं संघारामं पूर्वे अप्रतिसम्विदिता अनाहूता उपसम्क्रमेय पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । सभिक्षुकन् ति अन्तमसतो यहिं एकभिक्षुर् अपि भवति । संघारामन् ति आरण्यकम् वा ग्राम्ऽअन्तिकम् वा । पूर्वे अप्रतिसम्विदिता ति अनिवेदिता । अनाहूता ति अशब्दापिता । उपसम्क्रमेया ति प्रविशेय । यथा गर्तोदरमाता भिक्षुणी । पाचत्तिकं पेयालं यावत् प्रज्ञप्तिः ।
एता दानि यो भिक्षुणीयो परिवेणं गच्छन्ति द्वारकोष्ठके स्थित्वा निवेदयितव्यं । वन्दाम्य् आर्य प्रविशामः । तेनापि दानि भिक्षुणा भिक्षवो जानापयितव्या मा दानि भिक्षू विप्रकटा भवेंसू ति । यदि विप्रकटा भोन्ति मृत्तिकाकर्मेण वा इष्टकाकर्मेण वा । अपलिगुद्धा भवन्ति वक्तव्यं । आगमेथ तावद् भगिनीयो । तेन ते भिक्षू उपसंक्रामित्वा वक्तव्याः । आयुष्मन्तो निवासेथ प्रावरथ भिक्षुणीयो प्रविशन्ति । न च अकुशलेन अप्रकृतिज्ञेन वक्तव्यं । सहसा मा प्रविशथेति । अथ खलु वक्तव्यं । विप्रकटा भिक्षवो मा प्रविशथ । अथ दानि अप्रतिसंविदिता प्रविशन्ति पाचत्तिकं । एकं पादं प्रवेशयति विनयातिक्रमम् आसादयति । द्वितीयपादं प्रवेशयति पाचत्तिकं । तत एव प्रत्योशक्कति विनयातिक्रमम् आसादयति । भिक्षुर् अपि अप्रतिसंविदितो भिक्षुनीउपाश्रयं प्रविशति विनयातिक्रमम् आसादयति । अथ खु द्वारकोष्ठके स्थित्वा अच्छटिका कर्तव्या । तेन भगवान् आह ।
या पुन भिक्षुणी जानन्ती सभिक्षुकं संघारामं पूर्वे अप्रतिसंविदिता अनाहूता उपसंक्रमेय पाचत्तिकं ॥तृ ॥
पाचत्तिकधर्म 117
समनुष्य
231. भगवान् श्रावस्तीयम् विहरति । भिक्षुणीयो दानि कोशलेहि जनपदेहि चारिकां चरन्तीयो ग्रामवासके वासम् उपगताः । तेहि दानि अपरा स्त्री विप्रवस्तपतिका उक्ता । प्रजापति देहि अस्माकं प्रतिश्रयं । सा दान् आह । आर्ये कुटुम्बिको मम विप्रवुस्तो । मा सहसा आगमिष्यति । ता दान् आहंसुः । कः पुनर् एवं ज्ञास्यति आगमिष्यति वा न वेति । ताय दिन्नो प्रतिश्रयो तासान् दानि भिक्षुणीनां प्रतिक्रान्तानां । सो पुरुषो विकाले आगतो । सो दानि खादित्वा पिबित्वा क्लेशे पीडितो भार्याय सार्धं म्श्रीभूतो । ता दानि भिक्षुणीयो तेन शब्देन प्रतिबुद्धाः । या दानि अविगतरागाः तासाम् अस्पर्शसंज्ञा उत्पन्ना ।
एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावद् भगवान् आह । शब्दापयथ तायो दानि भिक्षुणीयो । तायो शब्दापितायो तद् एव सर्वं । भगवान् विस्तरेण पृच्छति । यावद् आम भगवन् । भगवान् आह । एवं च नाम यूयं जानन्तीयो संभोजनीये कुले अनुपखज्जासनं शय्यां कल्पयथ । तेन हि न क्षमति ।
एषैवार्थोत्पत्तिः । भगवान् श्रावस्तीयम् विहरति । भिक्षुणीयो दानि कोशलेहि जनपदेहि चारिकां चरन्तीयो अन्यतरस्मिं ग्रामवासके वासम् उपगताः । तायो दानि सर्वग्रामम् अण्विताः न कहिञ्चिद् अपुरुषं गृहं लभन्ति । ता दानि रथ्यायां प्रतिक्रान्ताः रात्रौ वातवृष्टिर् उत्थिताः । विहेठिता दुःखिताः संवृत्ताः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । तेन हि अनुजानामि वातसमये वृष्टिसमये ।
एषैवार्थोत्पत्तिः । भगवान् श्रावस्तीयम् विहरति । यावत् रथ्यायाम् वा सोपगता भिक्षुणीयो । स्त्रियो आरोचयेंसुः । इमं गृहंसुः इमं गृहं प्रविशथ धूर्तकानाम् इह भयं । भिक्षुणीयो आहंसुः । नहि । भगवता शिक्षापदं प्रज्ञप्तं । न क्षमति सपुरुषके गृहे शय्यां कारयितुं । तायो तहिं रात्रौ धूर्तकेहि विहेठिताः तत्रान्यतरा ब्रह्मचर्यातो च्याविताः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । तेन हि अनुजानामि पुरुषाशङ्कितसमयं यावत् ।
या पुन भिक्षुनी जानन्ती संभोजनीये कुले अनुपखज्जेशय्यां कल्पयेद् अन्यत्र समये पाचत्तिकं ।
तत्रायं समयो वातसमयो वृष्टिसमयो पुरुषाशङ्कितसमयो अयम् अत्र समयो ॥
या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय । संभोजनीयन् ति स्त्रीया पुरुषो भोजनं पुरुषस्यापि स्त्री भोजनं । कुलन् ति ब्राह्मकुलं यावद् राजकुलं यानि वा पुनर् अन्यान्य् अपि काञ्चित् कुलानि । अनुपखज्ज नाम वासवस्तु यहिं भार्यापतिका प्रतिक्रमन्ति । शय्यां कल्पयन् ति पार्श्वन् दद्यात् । अन्यत्र समय इति प्रत्युद्धृतं भगवता पदम् अनापत्तिः । समयो वातसमयो वृष्टिसमयो पुरुषाशङ्कितसमयो । तत्र वातसमयो नातीतो नानागतो । अथ खु वर्तमानो येव । एवं वृष्टिसमयो । पुरुषाशङ्कितसमयो नाम मा ब्रह्मचर्यान्तरायो भविष्यतीति । सो एषो पुरुषाशङ्कितसमयो नातीतो नानागतो । अथ खु वर्तमानो येव । पाचत्तिकं यावत् प्रज्ञप्तिः । न क्षमति भिक्षुणीये जानन्तीये संभोजनीये कुले अनुपखज्जे शय्यां कल्पयितुं ।
अथ दानि ज्ञायते अयं मनुष्यः श्राद्धो आलप्तको वा किञ्चापि अनुपखज्जो शय्यां कल्पयन्ति अनापखज्जो शय्यां कल्पयति अनापत्तिः । तेन भगवान् आह ।
या पुन भिक्षुणी जानन्ती संभोजनीये कुले अनुपखज्जे शय्यां कल्पयेद् अन्यत्र समये पाचत्तिकं । तत्रायं समयो वातसमयो वृष्तिसमयो पुरुषाशङ्कितसमयो । अयम् अत्र समयो ।रा ॥
पाचत्तिकधर्म 118
अध्वानं
232. भगवान् श्रावस्तीयम् विहरति । भिक्षू दानि वैशालीयं वर्षोषिताः श्रावस्तीं प्रस्थिताः भगवतो पादावन्दाः । भिक्षुणीहि श्रुतं भिक्षू किल भगवतो पादवन्दा गमिष्यन्तीति । तायो परिवेणं गत्वा आहंसुः । वन्दाम्य् आर्य श्रुणोमः आर्यमिश्राः श्रावस्तीयं गमिष्यन्ति भगवतः पादवन्दा । आहंसुः । आम किङ् कर्तव्यं । आहंसुः । वयम् अपि गमिष्यामः । आहंसुः । भगवता शिक्षापदं प्रज्ञप्तं न क्षमति भिक्षुणीये सह अध्वानमार्गं प्रतिपद्यितुम् । तायो दानि आहंसुः । कदा पुनर् आर्यमिश्रा गमिष्यन्ति । आहंसुः । अमुकं दिवसं । तायो एकद्विकाय दिवसानि गणयन्ति तदहो गमिष्यन्तीति । तायो दानि प्रकृत्येव कृतभक्तकृत्याः निवासयित्वा प्रावरित्वा पात्रचीवरम् आदाय मार्गे स्थिताः । ते च भिक्षवो तां वेलां प्रस्थिताः । ते तां दृष्ट्वा आहंसुः । आयुष्मन्तो इमायो तायो भगिनीयो शीघ्रशीघ्रं गच्छन्ति । ता अपि भिक्षुणीयो शीघ्रशीघ्रं गच्छन्ति । ते दानि भिक्षू प्रधाविताः । ता अपि भिक्षुणीयो प्रधावितायो । तहिं दानि या भिक्षुणीयो तरुणीयो बलवन्तीयो ताहि ते भिक्षू अनुजविताः । या तंहि जरादुर्बलायो व्याधिदुर्बलायो प्रकृतिसुकुमारायो तायो चे एहि मुषिताः परिपिट्टिताश् च । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । एवं च नाम तवे तिरोराज्यन् तिरोजनपदं असार्थिका प्रक्रमथ । तेन हि न क्षमति तिरोराज्यां तिरोजनपदम् असार्थिका चारिकां प्रक्रमितुं । यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी तिरोराज्यं तिरोजनपदं असार्थिका चारिकां प्रक्रमेय पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । तिरोराज्यन् ति परराज्यं । तिरोजनपदन् ति परजनपदं । असार्थिका ति सालो नाम गृहि सार्थो वा प्रव्रजितसार्थो वा शकटसार्थो वा पर्येषितव्यो । चारिका ति अन्यत्र प्रक्रमति । पाचत्तिकं यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी असार्थिका चारिकां प्रक्रमति । यदा मार्गो निस्तीर्णो भवति पाचत्तिकं । अथ दानि सार्थेण सार्धं गच्छन्ति । समं प्रस्थिताः विषमं प्रविशन्ति विनयातिक्रमम् आसादयन्ति । विषमं प्रस्थिताः समं प्रविशन्ति विनयातिक्रमम् आसादयन्ति । समं प्रस्थिताः समं प्रविशन्ति अनापत्तिः । विषमं प्रस्थिताः विषमं प्रविशन्ति पाचत्तिकम् आसादयन्ति ।
भिक्षुर् अपि असार्थिको सभयं सप्रतिभयं साशङ्कसम्मतं मार्ग प्रतिपद्यति विनयातिक्रमम् आसादयति । तेन भगावन् आह ।
या पुन भिक्षुणी तिरोराज्यन् तिरोजनपदम् असार्थिका चारिकां प्रक्रमेय पाचत्तिकं ॥ ग्रा ॥
पाचत्तिकधर्म 119
उद्यानं
233. भगवान् श्रावस्तीयं विहरति । भिक्षुणीयो दानि स्त्रीभिः सह उद्यानभूमिं निर्गताः । स्त्रियो खादन्ति च पिबन्ति च । तत्र भिक्षुण्यः स्त्रीवेषेण चङ्क्रमन्ति आरामगृहकानि वनगृहकानि चित्रगृहकानि नीरीक्षन्तीयो । तायो दानि गूढे प्रदेशे पुरुषेहि विहेठिताः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह ।
अन्तोराज्यं कं पि च भवति अन्तोराष्ट्रं । तत्र च भिक्षुणी आरामगृहकानि वा वनगृहकानि वा चित्रगृहकानि वा दर्शनाय गच्छेत् पाचत्तिकं ।
अन्तोराज्यं कंपि भवतीति स्वराज्यं । अन्तोराष्ट्रकम् अपीति स्वराष्ट्रं । तत्र च भिक्षुणी आरामगृहकानीति एते दानि भवन्ति । चंपकारामा वा पनसारामा वा अतिमुक्तकारामा वा । वनगृहकानीति एते भवन्ति । न्यग्रोधवना वा द्राक्षावना वा कदलीवना वा दाडिमवना वा मातुलुङ्गवना वा । चित्रगृहकानीति एते भवन्ति सभा वा कूटागारा वा । दर्शनाय गच्छेद् इति प्रेक्षणाय । पाचत्तिकं । यावत् प्राज्ञप्तिः । न क्षमति आरामगृहं वा वनगृहं वा चित्रगृहं वा दर्शनाय गन्तुं । गच्छति विनयातिक्रमम् आसादयति । यदागता भवति तदा पाचत्तिकम् आसादयति । अथ दानि तत्रैव स्त्रीभिः सह चञ्चूर्यते अनापत्तिः । भिक्षुर् अपि आरामगृहं वा वनगृहं वा चित्रगृहं वा दर्शनाय गच्छति यत्र कामोपभोगिनः क्रीडन्ति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
अन्तोराज्यं कंपि च भवति अन्तोराष्ट्रं पि । तत्र च भिक्षुणी आरामगृहकानि वा वनगृहकानि वा चित्रगृहकानि वा दर्शनाय गच्छेत् पाचत्तिकं
मूल पाठ: Bhikṣuṇīvinaya · Edition: Gustav Roth: Bhikṣuṇī Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0