भाषा

ENहिગુ
ग्रंथ पाठ

भिक्षुणीविनय · अध्याय 5

5.1

उद्दानं ।
सम्मुखम् [91] । ऊनद्वादशवर्षा [92] ।
अनङ्गोपेता [93] । असम्मता [94] । दुःशीला [95] ।
ऊनविंशतिवर्षा कुमारीभूता [96] ।
अदेशितशिक्षा [97] । अपरिपूरशिक्षा [98] ।
असम्मता [99] । ऊनद्वादशवर्षा गृहिचरिताय [100]
पूर्यते दशमो वर्गः ॥
पाचत्तिकधर्म 101
अदेशितशिक्षा
215. भगवान् श्रावस्तीयम् विहरति । भगवता शिक्षापदं प्रज्ञप्तं । न क्षमति ऊनद्वादशवर्षां गृहिचरिताम् उपस्थापयितुन् ति । तायो दानि भिक्षुणीयो पूरद्वादशवर्षां गृहिचरिताम् उपस्थापयन्ति । भिक्षुणीयो दानि ओज्झायन्ति । को जानाति पूरद्वादशवर्षा वा न वेति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यथा कुमारिभूताय अष्टादशवर्षाय द्वे वर्षाणि शिक्षादेशनासम्मुतिर् याचितव्या । विस्तरेण । तेन भगवान् आह ।
पूरद्वादशवर्षा पि च भवति गृहिचरिता तां चादेशितशिक्षाम् उपस्थापयेत् पाचत्तिकं

5.2

पाचत्तिकधर्म 102
अपरिपूरशिक्षा
216. भगवान् श्रावस्तीयम् विहरति । सुदिन्ना नाम अभटगणकभार्या प्रव्रजिता । ताय कल्याये शिक्षा देशिता । ताय दानि गृहिभूताय कुक्षि प्रतिलब्धो । सो पि वृद्धो । भिक्षुणीयो दानि ओज्झायन्ति । इयन् ताव देशितशिक्षा । इयं च कुक्षिवती । स निर्वेठेति । आर्यमिश्रिकायो यतो हं प्रव्रजिता नामभिजानाम्य् अहं एतद् धर्मम् प्रतिषेवितुं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं यावद् भगवान् आह । यतो दानि एषा प्रव्रजिता । न एषा जानात्य् एतं धर्म प्रतिषेवितुं । गृहिभूताय एताय कुक्षिः प्रतिलब्धो । या दानि एषा ईदृशी भवति न क्षमति उपस्थापयितुं । अथ खलु यदि तावद् दारिकां जनयति यदा स्तनिका गृहान् निर्गता भवति ततो उपस्थापयितव्या । अथ दारकं जनयति यदा अयं स्तनीभूतो भवति ततो उपस्थापयितव्या । अथ दानि ताये सालोहितो भवति ज्ञातिको वा आहंसुः । वयं एतन् दारकम् उपस्थास्याम इति उपसंपादयितव्या । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । तथैव कर्तव्यं यथा कुमारीभूताये । तेन भगवान् आह ।
देशितशिक्षा पि च भवति गृहिचरिता नां अपरिपूरशिक्षाम् उपस्थापयेत् पाचत्तिकं

5.3

पाचत्तिकधर्म 103
असम्मता
217. भगवान् श्रावस्तीयम् विहरति । भगवता शिक्षापदं प्रज्ञप्तं । न क्षमति ऊनद्वादशवर्षाम् गृहिचरिताम् उपस्थापयितुन् ति । ता दानि भिक्षुणीयो पूरद्वादशवर्षां गृहिचरितां देशितशिक्षाम् उपस्थापयन्ति । ता दानि भिक्षुणीयो ओज्झायन्ति । अस्त्य् एषा देशितशिक्षा न तु जानाम परिपूरशिक्ष वा न वेति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यथा कुमारीभूताये यावत् तेन भगवान् आह ।
परिपूरशिक्षा पि च भवति गृहिचरिता । तां चासम्मताम् उपस्थापयेत् पाचत्तिकं

5.4

पाचत्तिकधर्म 104
नानुशासेत्
218. भगवान् श्रावस्तीयम् विहरति । तायो दानि भिक्षुणीयो उपस्थापिय उपस्थापिय नाववदन्ति नानुशासन्ति । तायो दानि इन्द्रगवा इव वर्धन्ति यावत् कथं संघाटीपात्रचीवरधारणे प्रतिपत्तव्यं । पेयालं । यावद् भगवान् आह । दुष्कृतं वो भिक्षुणीयो एवञ् च नामा यूयं उपस्थापयित्वा नाववदथ नानुशासथ । तेन हि द्वे वर्षाणि ओवदितव्या अनुशासितव्या ।
अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी उपस्थायिका उपस्थापितां द्वे वर्षाणि नाववदेय नानुशासयेत् पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । पेयालं । उपस्थायिका ति उपाध्यायिनी । उपस्थापितान् ति सार्धं विहारिणी । द्वे वर्षाणीति द्वे दकवर्षाणि । नाववदेद् इति अभिधर्मे वा अभिविनये वा । अभिधर्मो नाम नवविधः सूत्रान्तः ।
अभिविनयो नाम प्रातिमोक्षः विस्तरप्रभेदेन । नानुशासेद् इति आचारम् अकुर्वन्तीम् अनाचारं कुर्वन्तीं न निर्द्धमेया न दण्डकर्म दद्यात् पाचत्तिकं । अथ दानि सा उपस्थापिता दुर्वचा भवति शैथिलिका वा बाहुलिका वा अशिक्षाकामा निर्द्धमितव्या । भिक्षुर् अपि सार्धं विहारिनं नावावदति नानुशासति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी उपस्थायिका उपस्थापितां द्वे वर्षाणि नाववदेन् नानुशासेत् पाचत्तिकं

5.5

पाचत्तिकधर्म 105
नोपस्थिहेत्
219. भगवान् श्रावस्तीयम् विहरति । ता दानि भिक्षुणीयो उपस्थापिताः अन्येन गच्छन्ति । ता दानि उपाध्यायिनीयो ओज्झायन्ति । अस्माकं भगवता दण्डकर्म प्रज्ञप्तं । इमा सामोक्तिका । या दानि उपस्थापिता अन्येन गच्छन्ति । कथम् इमाः अस्माभिर् अववदितव्यायो अनुशासितव्यायो । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावच् छब्दापिता । तद् एव सर्वं पृच्छीयन्ति । आम भगवन् । भगवान् आह । दुष्कृतं वो भिक्षुणीयो एवं नाम यूयम् उपस्थापिताः अन्येन गच्छथ । तेन हि उपस्थापिताय उपस्थायिका द्वे वर्षाणि अनुबन्धितव्या । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी उपस्थापिता उपस्थायिकां द्वे वर्षाणि नोपस्थिहेन् नानुबन्धेत् पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । उपस्थापितेति सार्धविहारिणी । उपस्थायिकाम् इति उपाध्यायिनी । द्वे वर्षाणीति द्वे वर्षाणी । नोपस्थिहेद् इति कायपरिचर्यां कुर्यात् । नानुबन्धेद् इति येन गच्छति तेन न गच्छति पाचत्तिकं । यावत् प्रज्ञप्तिः । अथ दानि सा उपस्थायिका अशिक्षाकामा भवति शैथिलिका वा बाहुलिका वा । भिक्षुणी पश्यति । सा मे ब्रह्मचर्यान्तरायो भवेय दृष्ट्वानुकृतिम् आपद्यन्तीयेति अन्येन गच्छति अनापत्तिः । भिक्षुणी उपस्थायिकां नोपस्थिहति नानुबन्धति पाचत्तिकं । भिक्षुर् अपि उपाध्यायं द्वे वर्षान् नोपस्थिहति नानुबन्धति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी उपस्थापिता उपस्थायिकां द्वे वर्षाणी नोपस्थिहेन् नानुबन्धेत् पाचत्तिकं

5.6

पाचत्तिकधर्म 106
अनुवर्षम्
220. भगवान् श्रावस्तीयम् विहरति । ता दानि भिक्षुणीयो अनुवर्षम् उपस्थापयन्ति । तासां दानि कौकृत्यं । किन् नु खल्व् एतं लभ्यं कर्तुं । उताहो न लभ्यं । पेयालं । यावद् भगवान् आह । तेन हि न क्षमति अनुवर्षम् उपस्थापयितुं । अथ खलु वीचिः कर्तव्या ।
या पुन भिक्षुणी अनुवर्षम् उपस्थापयेत् पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । अनुवर्षन् ति अनुसम्वत्सरं । उपस्थापयेद् इति उपस्थापयेत् पाचत्तिकं । यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी अनुवर्षम् उपस्थापयेति पाचत्तिकं । एकं वर्षम् उपस्थापयितव्यं । अपरवर्षे वीचिः कर्तव्या । अथ दानि भिक्षुणी कृतपुण्या भवति एकं वर्षं शिक्षा देशयितव्या । अपरं वर्षम् उपस्थापयितव्या । किञ्चापि भिक्षुः अनुवर्षम् उपस्थापयेद् अनापत्तिः । तेन भगवान् आह ।
या पुन भिक्षुणी अनुवर्षम् उपस्थापयेत् पाचत्तिकम्

5.7

पाचत्तिकधर्म 107
एकतो विशुद्धां
221. भगवान् राजगृहे विहरति । तहिं दानि जेता नाम भिक्षुणी । सा अन्तेवासिनीं भिक्षुणीहि उपसंपादीयान स्थूलनन्दां भिक्षुणीम् आह । आर्ये मम अन्तेवासिनी उपसम्पाद्या साधु आर्ये आर्यमिश्रिकानां गणं पर्येषेहि । ताय गत्वा षद्वर्गिका भिक्षू आनीता । सा दान् आह । नाहम् एतेहि उपसंपादयेयं । ताय दानि अपरं दिवसं भद्रकाणां भिक्षुणां गणं समुदानयित्वा उपसंपादयित्वा । एतं प्रकरणं भिक्षुणीयो मजाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । दुष्कृतं ते जेते एवन् नाम त्वं एकतो विशुद्धां परिवासिकिनीम् उपस्थापयसि । एवन् नाम त्वं गणम् अवजानासि । तेन हि न क्षमति गणम् अवजानितुं । पेयालं । यावद् भगवान् आह ।
या पुन भिक्षुणी एकतो विशुद्धां परिवासिकिनीम् उपस्थापयेत् पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । एकतो विशुद्धाम् इति भिक्षुणीगणेनोपसम्पन्नां । पारिवासिकिनीम् इति परिवसितरात्रिं । उपस्थापयेद् इति उपसम्पादयेन् न भिक्षुगणेन पाराजिकं । यावत् प्रज्ञप्तिः । न क्षमति एकतो पारिवासिकिनीम् उपस्थापयितुं । नापि क्षमति अपरिशुद्धेन उपसंपादयितुं । अथ खलु प्रतिकृत्य् एव ताव भद्रकाणां भिक्षूणां गणो समुदानयितव्यो । अथ दानि अन्ये भद्रकाः अन्ये अभद्रकाः तथा कर्तव्यं यथा भद्रोत्तराणि कर्माणि भवन्ति । भिक्षुणा पि भद्रोत्तराणि कर्माणि कर्तव्यानि । अथ दानि गणम् अवजानाति विनयातिक्रमम् आसादयति । अथ दानि सेनाभयं वा भवति परचक्रभयं वा नगरोपरोधो वा किञ्चापि पारिवासिकिनीम् उपस्थापयेत्य् अनापत्तिः । तेन भगवान् आह ।
या पुन भिक्षुणी एकतो विशुद्धां पारिवासिकीनीम् उपस्थापयेत् पाचत्तिकं

5.81

पाचत्तिकधर्म 108
षट्पञ्च योजना
222. भगवान् वैशालीयम् विहरति । या सा कालीय त्रियन्तरा लेच्छविधीता उपस्थापिता । सा दानि आगारिकेहि च सार्धं संसृष्टा विहरति । सा भिक्षुणीहि वुच्चति । आर्ये कालि या दानि उपस्थापिता त्वं जानासि आगारिकेहि च परिव्राजकेहि च संषृष्टां । किम् अर्थं न व्यपकर्षसि न व्यपकर्षापयसि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । दुष्कृतं ते कालि यावत् पर्यवदातानि भविष्यन्ति
या पुन भिक्षुणी उपस्थायिका उपस्थापितां तथारूपासु आपदासु न व्यपकर्षेन् न व्यपकर्षापयेद् अन्तशः षट्पञ्च योजना ति पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । उपस्थायिका ति उपाध्यायिनी । उपस्थापिता ति सार्धेविहारिणी । तथारूपासु आपदासू ति स्वयम् वा प्रत्योधावितुकामा ज्ञातिका वा प्रत्योधावयितुकामा अन्येहि वा संसृष्टा भवति । न व्युपकर्षतीति स्वयं न व्युपकर्षापयतीति परेहि । अन्तमसतो षट्पञ्च योजना ति न दानि षट्पञ्च च परमं । षड् एव पाचत्तिकं । यावत् प्रज्ञप्तिः । एषा दानि भिक्षुणीये सार्धम् विहारिणी वा अन्तेवासिनी वा संसृष्टा भवति व्यपकर्षितव्या वा व्यपकर्षापयितव्या वा चारिकाय वर्णो भाषितव्यः । अथ दानि जरादुर्बलावा व्याधिदुर्बला वा भोति अन्याहि भिक्षुणीहि व्यक्पकर्षयितव्या । वक्तव्या । चेतीय वन्दना भविष्यति । भिक्षुदर्शनम् भविष्यति । यदा वयं तरुणीयो आसि एवम् अस्माभिर् अटितं ।
भिक्षुर् अपि सार्धं विहारिं उत्कण्ठितन् न व्यपकर्षयति न व्यपकर्षापयति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी उपस्थायिका उपस्थापितां तथारूपास्व् आपदासु न व्यपकर्षयेत् न व्यपकर्षापयेत् अन्तमसतो षट्पञ्च योजना ति पाचत्तिकं

5.9

पाचत्तिकधर्म 109
किं पुनः
223. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दा नाम भिक्षुणी अनङ्गोपेता उपस्थापयति । सा नाववदति नानुशासति । ता इन्द्रगवा विय वर्धन्ति शिवच्छगला विय वर्धन्ति । पेयालं । यावत् कथं संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यं । सा दानि भिक्षुणीहि वुच्चति किम् पुनर् आर्याये अनङ्गोपेताये उपस्थापितेन यं आर्यामेवं वक्तव्या अनुशासितव्या । सा दान् आह । किं भद्रायिणीयो इर्ष्यापथा मम पर्षाम् उपस्थापयन्तीयो । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । दुष्कृतं ते नन्दे एवन् नाम त्वं क्षियाधर्मम् आपद्येसि । तेन हि न क्षमति क्षियाधर्मम् आपद्यितुं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि । यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी भिक्षुणीहि एवम् उच्यमाना । हिम् पुनर् आर्याये अनङ्गोपेताये उपस्थापितेन । यं आर्या एवम् वक्तव्या अनुशासितव्येत्य् उक्ता समाना क्षियाधर्मम् आपद्येय पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । भिक्षुणीहीति संघेन महाजनेन एकपुद्गलेन । किम् पुनर् आर्याये अनङ्गोपेताये ति दशहि अङ्गेहि समन्वागता अङ्गोपेता । प्रातिमोक्षसम्वरसम्वृता भवति [1] । बहुश्रुता भवत्य् अभिधर्मे [2] । बहुश्रुता भवत्य् अभिविनये [3] । यावत् । द्वादश वर्षा च भवति [10] । यस्या इमानि दशाङ्गानि न सम्विद्यन्ते सा भवति अनङ्गोपेता । क्षियाधर्मम् आपद्येय ति विवाचयेत् पाचत्तिकं यावत् प्रज्ञप्तिः । सा एषा भिक्षुणी भिक्षुणीहि युच्यमाना किम् पुनर् आर्याये अनङ्गोपेताये उपस्थापितेनेति क्षियाधर्मम् आपद्येय पाचत्तिकं । भिक्षुर् अपि भिक्षूहि वुच्यमानो किम् पुनर् आयुष्मतो अनङ्गोपेतस्य उपस्थापितेनेति क्षियाधर्मम् आपद्येय विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी भिक्षुणीहि एवं वुच्यमाना किम् पुनर् आर्याये अनङ्गोपेताये उपस्थापितेनेति उक्ता क्षियाधर्मम् आपद्येय पाचत्तिकं

5.10

पाचत्तिकधर्म 110
न विसर्जयेत्
224. भगवान् वैशालीयम् विहरति । अपरा दानि शिक्षमाणा स्थूलनन्दाम् आह । साधु मे आर्ये नन्दे उपसंपादय मां । सा दान् आह । बाढं अहं ते उपसंपादयिष्यन् ति । सा विलक्षेति । नैवोपसंपादेति न विसर्जयति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावत् शब्दापयथ नन्दां । सा दानि शब्दापिता । तद् एव सर्वं पृच्छीयति । यावद् आम भगवन् । भगवान् आह । दुष्कृतं ते नन्दे ।
या पुन भिक्षुणी शिक्षमाणाम् एवं वादेत् । यदा पूरशिक्षा भविष्यसि ततो हम् उपस्थापयिष्यन् ति वदित्वा नैवोपसंपादयेन् न विसर्जयेत् पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । पेयालं । शिक्षमाणेति अष्टादशेहि वर्त्तेहि द्वे वर्षाणि देश्तितशिक्षा । एवम् वदेया ति यथा स्थूलनन्दा भिक्षुणी । अहन् ते उपस्थापयिष्यन् ति उपस्थापयितव्या । अथ दानि न प्रतिबला भवति अन्या अध्येषितव्या । अथ दानि नैवात्मना उपस्थापयति नाप्य् अन्यां अध्येषयति न विसर्जयति । गच्छ यत्रेच्छसि तहिं उपसम्पद्याहीति । सा एषा भिक्षुणी शिक्षमाणाम् उक्त्वा अहन् ते उपस्थापयिष्यन् ति पश्चान् नोपसम्पादयेन् न विसर्जयेत् पाचत्तिकं

मूल पाठ: Bhikṣuṇīvinaya · Edition: Gustav Roth: Bhikṣuṇī Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc