भिक्षुणीविनय · अध्याय 4
प्रतिबला भवति गिलानम् उपस्थिहितुम् वा उपस्थापयितुम् वा
द्वादशवर्षा भवति सातिरेकद्वादशवर्षा वा ॥ ऌं ॥
यस्या इमानि दशाङ्गानि सम्विद्यन्ते इयम् उच्यते अङ्गोपेता । विपर्ययाद् अनङ्गोपेता । सा एषा अनङ्गोपेता उपस्थापयेत् पाचत्तिकं । पेयालं । यावत् प्रज्ञप्तिः । सा एषा अनङ्गोपेता प्रव्राजयति विनयातिक्रमम् आसादयति । उपसम्पादयति पाचत्तिकं । भिक्षुर् अपि अनङ्गोपेतो प्रव्राजयति उपसम्पादयति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
पूरद्वादशवर्षा पि च भवति सा च अनङ्गोपेता उपस्थापयेत् पाचत्तिकं
पाचत्तिकधर्म 94
असंमता
208. भगवान् श्रावस्तीयम् विहरति । भगवता शिक्षापदं प्रज्ञप्तं । द्वादशवर्षाये अङ्गोपेताय उपस्थापयितव्येति । ता दानि भिक्षुणीयो द्वादशवर्षा अङ्गोपेतायो उपस्थापयन्ति । भिक्षुणीयो दानि ओज्झायन्ति । अस्त्य् एषा द्वादशवर्षा न पुनर् ज्ञायते । अङ्गोपेता वा अनङ्गोपेता वा ति । एतत् प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयंसुः । यावद् भगवान् आह । उपस्थापनासंमुती ताय याचितव्या ।
कर्मकारिकाय कर्म कर्तव्यं । शृणोतु मे आर्या संघो । यदि संघस्य प्राप्तकालं इयम् इत्थन्नामा भिक्षुनी द्वादशवर्षा अङ्गोपेता । सा संघं उपस्थापना संमुतिं याचेया । यचिष्यति आर्यमिश्रिका इत्थन्नामा भिक्षुणी द्वादशवर्षा अङ्गोपेता उपस्थापनासंमुतिं संघं । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतन् धारयामि ।
ताय दानि याचितव्यं । वन्दाम्य् आर्या संघं । अहम् इत्थन्नामा भिक्षुणी द्वादशवर्षा अङ्गोपेता । साहं संघम् उपस्थापनासंमुतिं यचामि । साधु बत मे आर्या संघो उपस्थापनासम्मुतिन् देतु । एवम् भिक्षुत्तो याचयितव्यं ॥
कर्म । शृणोतु मे आर्या संघो । इयम् इत्थन्नामा भिक्षुणी द्वादशवर्षा अङ्गोपेता । सा संघम् उपस्थापनासंमुतिं याचति । यदि संघस्य प्राप्तकालं संघो इत्थन्नामाये भिक्षुणीये द्वादशवर्षाये अङ्गोपेताये उपस्थापनासंमुतिं दद्यात् । ओवयिका एषा ज्ञप्तिः ।
शृणोतु मे आर्या संघो । इयं इत्थन्नामा भिक्षुणी द्वादशवर्षा अङ्गोपेता । सा संघम् उपस्थापनासंमुतिं याचति । ताये संघो इत्थन्नामाये भिक्षुणीये द्वादशवर्षाये अङ्गोपेताये उपस्थापनासंमुतिन् देति । यासाम् आर्यमिश्रिकाणां क्षमति इत्थन्नामाये भिक्षुणीये द्वादशवर्षाये अङ्गोपेताये उपस्थापनासम्मुतिन् दीयमानां संघेन । सा तूष्णीम् अस्य । यस्या न क्षमति सा भाषतु । इयम् प्रथमा कर्मवाचना । एवं द्वितीया तृतीया कर्मवाचनेति । दिन्ना अर्यमिश्रिकायो इत्थन्नामाये भिक्षुणीये द्वादशवर्षाये अङ्गोपेताये उपस्थापनासम्मुति संघेन । क्षमति तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।
पूरद्वादशवर्षा पि च भवति अङ्गोपेता सा च असम्मता उपस्थापयेत् पाचत्तिकं ।
अङ्गोपेता इति दशभिर् अङ्गेहि भिक्षुणी अङ्गोपेता भवति । शेषं पूर्ववत् । असम्मता इति असम्मता एव असम्मता । अनङ्गोपेता च असम्मता तम् च से कर्म कुर्वन्ति ज्ञप्तिविपन्नं गणविपन्नं अनुश्रावणाविपन्नं अन्यतरान्यतरेण कर्मोपक्लेशेन उपक्लिष्टं एवम् एषा असम्मता । उपस्थापयेद् इति उपसम्पादयेत् पाचत्तिकं । सा एष भिक्षुणी असम्मता उपस्थापयति पाचत्तिकं । प्रव्राजयति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
पूर द्वादशवर्षा पि च भवति अङ्गोपेतासा च असम्मता उपस्थापयेत् पाचत्तिकं
पाचत्तिकधर्म 95
दुःशिला
209. भगवान् वैशालीयम् विहरति । या सा कालीय भिक्षुणीय त्रियन्तरा लेच्छविधीता प्रव्राजिता । सा देशितशिक्षा । प्रतितालकेहि प्रतिकुञ्चिकाहि च परविहारान् उद्घाटिय आगारिकेहि परिव्राजकेहि च सह तिष्थति । सा ताय उपसंपादिता । भिक्षुणीयो दानि ओज्झायन्ति । किम् इमाय दुःशीलाय प्रतितालकिनीय पुरुषसहायिकाय उपस्थापिताय । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावत् शब्दापयथ कालीं । सा दानि शब्दापिता । भगवान् विस्तरेण पृच्छति यावद् आम भगवन् । भगवान् आह । दुष्कृतन् ते कालि । नैष कालि धर्मो यावद् एव नामा त्वं दुःशीलां प्रतितालकिनीं पुरुषसहायिकाम् उपस्थापयसि । तेन हि न क्षमति जानन्ती दुःशीलां प्रतितालकिनीं पुरुषसहायिकाम् उपस्थापयितुं । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी जानन्ती दुःशीलां प्रतितालकिनीं पुरुषसहायिकाम् उपस्थापयेत् पाचत्तिकं ।
या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय । दुःशीलेति शीलविपन्ना शीलातिक्रान्ता । प्रतितालकिनीति प्रतितालकेहि प्रतिकुञ्चिकाहि च अन्यातकान् विहारकान् उद्घाटयति । पुरुषसहायिनीति । आगारिकेहि च परिव्राजकेहि च सार्धं संसृष्टा विहरति । उपस्थापयेद् इति उपसम्पादयेत् पाचत्तिकं यावत् प्रज्ञप्तिः या दानि एषा आगारिकेहि परिव्राजकेहि च सार्धं संसृष्टा विहरति सा न क्षमति उपस्थापयितुं । अथ दानि शक्नोति ब्रह्मचर्यं संपादयितुं लभ्या ततो संसर्गातो विवेचयित्वा उपस्थापयितुं । भिक्षुर् अपि जानन् दुःशीलं श्रामणेरं स्त्रीसंसृष्टं अप्रत्योसारायेत्वा उपसम्पादेति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी जानन्ती दुःशिलां प्रतितालकिनीं पुरुषसहायिकाम् उपस्थापयेत् पाचत्तिकं
पाचत्तिकधर्म 96
ऊनविंशतिवर्षा कुमारिभूता
210. भगवान् श्रावस्तीयम् विहरति । भिक्षुणीयो दानि दशद्वादशवर्षां कुमारीभूताम् उपसम्पादयन्ति । अप्रतिसंख्यानवर्तिन्यो भवन्ति अनाकल्पसम्पन्ना । न जानन्ति कथम् उपाध्यायीये प्रतिपद्यितव्यं यावत् संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । शब्दापयथ ता भिक्षुणीयो । ता दानि शब्दापिताः । तद् एव सर्वं भगवान् विस्तरेण पृच्छति यावद् आम भगवन् । भगवान् आह । तेन हि न क्षमति ऊनविंअतिवर्षां कुमारीभूताम् उपस्थापयितुं । अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी ऊनविंशतिवर्षां कुमारीभूतां उपस्थापयेत् पाचतिकं ।
ऊनविंशतिवर्षा ति ऊनविंशोदकवर्षो ऊनविंशो सम्वत्सरो ऊनविंशतिवर्षा ।
ऊनविंशोदकवर्षो पूरविंशो सम्वत्सरो ऊनविंशतिवर्षा ।
ऊनविंशोदकवर्षो अतिरेकविंशो सम्वत्सरो ऊनविंशतिवर्षा ।
हेमन्ते जाता तेन विंशेन उपसंपादेति अकृतायां प्रवारणायां ऊनविंशतिवर्षा । एवं ग्रीष्मे जाता ।
एवं पुरिमिकायां वर्षोपनायिकायां जाता तेन विंशेन उपसंपादेति ऊनविंशतिवर्षा ।
पश्चिमिकायां वर्षोपनायिकायां जाता तेन विंशेन उपसंपादेति । अकृताहि द्विहि प्रवारणाहि । ऊनविंशतिवर्षा ।
कुमारीभूताम् एताम् ऊनविंशतिवर्षां सर्वा ऊनविंशतिवर्षसम्ज्ञिनीयो उपसम्पादेन्ति सर्वायो पाचत्तिकम् आसादयन्ति ।
सा च अनुपसम्पन्ना । ताम् एताम् ऊनविंशतिवर्षां कुमारीभूतां एक ऊनविंशतिवर्षसम्ज्ञिनीयो उपसम्पादेन्ति एका पूरसम्ज्ञिनीयो । या ऊनसंज्ञिनीयो उपसम्पादेन्ति तायो पाचत्तिकम् आसादयन्ति । पूरसंज्ञिनाम् अनापत्तिः । सा चानुपसम्पन्ना । ऊनविंशतिवर्षां सर्वायो ऊनविंशतिवर्षसम्ज्ञिनीयो उपसम्पादेन्ति सर्वासाम् अनापत्तिः । सा च सूपसम्पन्ना ।
पूरविंशतिवर्षां सर्वायो ऊनविंशतिवर्षसंज्ञिनीयो उपसम्पादेन्ति सर्वा विनयातिक्रमम् आसादयन्ति । सा च सूपसम्पन्ना ।
पूरविंशतिवर्षाम् एका ऊनविंशतिवर्षसंज्ञिनीयो एका पूरविंशतिवर्षसंज्ञिनीयो उपसम्पादेन्ति । या ऊनविंशतिवर्षसंज्ञिनीयो ता विनयातिक्रमम् आसादयन्ति । या पूरविंशतिवर्षसंज्ञिनीयो तासाम् अनापत्तिः । सा च सूपसम्पन्ना ।
पूरविंशतिवर्षां सर्वा पूरसंज्ञिनीयो उपसम्पादेन्ति सर्वासाम् अनापत्तिः । सा च सूपसम्पन्ना ।
कुमारीभूता ति कुमारीभूता अविकोपितब्रह्मचर्या । उपस्थापयेद् इति उपसम्पादयेत् पाचत्तिकं । पे । यावत् प्रज्ञप्तिः ।
या एषा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसम्पदं सा दानि समनुग्रहितव्या । कदा त्वं जाता । अथ न जानाति जन्मपद्धिका निशामयितव्या । जन्मपद्धिका न भवन्ति मातापितरौ पृच्छितव्यौ । अथ दानि ते पि न जानन्ति पृच्छितव्या । कतरस्मिं राज्ये जाता । केत्तिका वा तदा त्वं अभूषि । सुदृष्टिर् दुर्दृष्टिर् वा । पृच्छितव्या । न उद्धिकस्य वा चित्रिकस्य वा वशेन गन्तव्यं । अथ खु हस्तपादा निशामेतव्याः । तेन भगवान् आह ।
या पुन भिक्षुणी ऊनविंशतिवर्षां कुमारीभूतां उपस्थापयेत् पाचत्तिकं
पाचत्तिकधर्म 97
अदेशितशिक्षा
211. भगवान् श्रावस्तीयम् विहरति । भगवता दानि शिक्षापदम् प्रज्ञप्तं । न क्षमति ऊनविंशतिवर्षां कुमारीभूताम् उपस्थापयितुन् ति । ता दानि भिक्षुणीयो पूरविंशतिवर्षां कुमारीभूताम् अदेशितशिक्षाम् उपस्थापयन्ति । भिक्षुणीयो दानि ओज्झायन्ति । को जानाति पूरविंशतिवर्षा वा एषा न वा ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् भगवान् आह । या एषा कुमारीभूता आकाङ्क्षति । तथागतप्रवेदिते धर्मविनये उपसंपदां भिक्षुणीभावं । ताय संघो द्वे वर्षाणि शिक्षादेशनासम्मुतिं याचितव्यो । कर्मकारिकाय कर्म कर्तव्यं । शृणोतु आर्या संघो । इयम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं । यदि संघस्य प्राप्तकालं इयम् इत्थन्नामा संघं द्वेवर्षाणि शिक्षादेशनासम्मुतिं याचेय्या । याचिष्यति आर्यमिश्रिका अष्टादशवर्षा कुमारीभूता द्वेवर्षाणि शिक्षादेशनासम्मुतिं संघं । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि । ताय दानि याचितव्यं । वन्दाम्य् आर्या संघं । अहम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षामि तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं । साहं द्वे वर्षाणि शिक्षादेशनासम्मुतिं याचामि । साधु वत मे आर्या संघो द्वे वर्षाणि शिक्षापदानि सम्मुतिं देतु । एवं त्रिख्हत्तो याचितव्यं ।
कर्म । शृणोतु मे आर्या संघो । इयम् इत्थन्नमा अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं । सा संघं द्वे वर्षाणि शिक्षादेशनासम्मुतिं याचति । यदि संघस्य प्राप्तकालं संघो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासम्मुतिं दद्यात् । ओवयिका एषा ज्ञप्तिः ।
शृणोतु मे आर्या संघो । इयम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं । सा संघं द्वे वर्षाणी शिक्षादेशनासम्मुतिं याचति । तस्याः संघो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्साणी शिक्षादेशनासम्मुतिं देति । यस्या आर्यमिश्रिकाणां क्षमति इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासम्मुतिं दीयमानां संघेन । सा तूष्णीम् अस्य । यस्या न क्षमति सा भाषितु । इयं प्रथमा कर्मवाचना । एवं द्वितीया तृतीया कर्मवाचनेति । दिन्ना आर्यमिश्रिकायो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासम्मुतिः सम्घेन । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमान्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति ।
पूरविंशतिवर्षा पि च भवति कुमारीभूता । तां चादेशितशिक्षाम् उपस्थापयेत् पाचत्तिकं ।
पूरविंशतिवर्षा ति पूरविंशोदकवर्षा । पूरविंशो सम्वत्सरो । पूरविंशो सम्वत्सरो । पूरविंशतिवर्षा । कुमारीभूता ति अविरोपितब्रह्मचर्या । अदेशितशिक्षा ति अदेशितशिक्षैव अदेशितशिक्षा । तं च से कर्म कुर्वन्ति ज्ञप्तिविपन्नं गणविपन्नं अनुश्रावणाविपन्नं अन्यतरान्यतरेण कर्मोपक्लेशेन उपक्लिष्टं । एवम् अप्य् एषा अदेशितशिक्षा । उपस्थापयेद् इति उपसंपादयेत् पाचत्तिकं । यावत् प्रज्ञप्तिः । तेन भगवान् आह ।
पूरविंशतिवर्षा पि च भवति कुमारीभूता । तञ् चादेशितशिक्षाम् उपस्थापयेत् पाचत्तिकं
पाचत्तिकधर्म 98
अपरिपूरशिक्षा
212. भगवान् श्रावस्तीयम् विहरति । भिक्षुणीयो दानि देशित शिक्षाम् उपस्थापयन्ति । भिक्षुणीयो दानि ओज्झायन्ति । अस्त्य् एषा देशितशिक्षा न ज्ञायते परिपूरशिक्षा वा न वेति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । तेन हि न क्षमति देशितशिक्षाम् अपि अपरिपूरशिक्षाम् उपस्थापयितुं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । यावत् पर्यवदातानि भविष्यन्ति ।
देशितशिक्षा पि च भवति कुमारीभूता तां चापरिपूरशिक्षाम् उपस्थापयेत् पाचत्तिकं ।
देशितशिक्षा ति देशितशिक्षैव देशितशिक्षा अनङ्गोपेताये । देशितशिक्षा तञ् च से कर्म कुर्वन्ति । ज्ञप्तिसम्पन्नं गणसम्पन्नं अनुश्रावणासम्पन्नं अन्यतरान्यतरेण कर्मोपक्लेशेन अनुपक्लिष्टं । एवम् एषा देशितशिक्षा ।
अपरिपूरशिक्षा ति अष्टादशहि वर्त्तेहि द्वे वर्षाणि अशिक्षितशिक्षा । कतमेहि अष्टादशहि सर्वभिक्षुणीनां नविकेत्य् आदि पूर्ववत् यथा गुरुधर्मेषु । न च ताये क्षमति एकाकिनीय ग्रामं पिण्डाय प्रविशितुं । अथ खु भिक्षुणीय वा श्रमणेरीय वा सह पिण्डाय प्रविशितव्यं । न क्षमति एकाकिनीय अध्वानं गन्तुं । यदि सा अष्टानाम् अन्यतरान्यरापत्तिम् आपद्यति पुनः शिक्षा देशितव्या । एकान्नविंशतिम् आरभ्य सर्वं दुष्कृतेन कारापयितव्या यानि ऊनकानि द्वे वर्षाणि शिक्षति सापरिपूरशिक्षा । उपस्थापयेद् इति उपसंपादयेत् पाचत्तिकं । तेन भगवान् आह ।
देशितशिक्षा पि च भवति कुमारीभूता । तां चापरिपूरशिक्षाम् उपस्थापयेत् पाचत्तिकं
पाचत्तिकधर्म 99
असंमता
213. भगवान् श्रावस्तीयम् विहरति । भगवता दानि शिक्षापदं प्रज्ञप्तं । न क्षमति अपरिपूरशिक्षाम् उपस्थापयितुं । ता दानि भिक्षुणीयो विंशतिवर्षां कुमारीभूतां देषितशिक्षां परिपूरशिक्षाम् उपस्थापयन्ति । भिक्षुणीयो दानि ओज्झायन्ति । अस्त्य् एषा देशितशिक्षा । नो तु जानाम परिपूरशिक्षा वा न वा ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् भगवान् आह । तेन हि या एषा विंशतिवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये भिक्षुणीभावं ताय संघो उपथापनासम्मुतिं याचितव्यो ।
शृणोतु मे आर्य संघो । इयम् इत्थन्नामा विंशतिवर्षा कुमारीभूता देशितशिक्षा आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं । यदि संघस्य प्राप्तकालं इयम् इत्थन्नामा संघं उपस्थापनासम्मुतिं याचेय्या । याचिष्यति आर्या संघो इयम् इत्थन्नामा संघं उपस्थापनासम्मुतिं । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि । ताय दानि याचितव्यं । वन्दाम्य् आर्या संघं । अहम् इत्थन्नामा विंशतिवर्षा कुमारीभूता देसितशिक्षा परिपूरशिक्षा आकाङ्क्षामि तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं । साहं संघम् उपस्थापनासम्मुतिं याचामि । साधु वत मे आर्या संघो उपस्थापनासम्मुतिं देतु । एवं द्विर् अपि त्रिर् अपि याचितव्यं ।
कर्म । शृणोतु मे आर्या संघो । इयम् इत्थन्नामा विंशतिवर्षा कुमारीभूता देशितशिक्षा परिपूरशिक्षा आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं । सा संघम् उपस्थापनासम्मुतिं याचति । यदि संघस्य प्राप्तकालं सम्घो इत्थन्नामाये उपस्थापनासम्मुतिं दद्यात् । ओवयिका एषा ज्ञप्तिः ।
शृणोतु मे आर्या संघो । इयम् इत्थन्नामा विंशतिवर्षा कुमारीभूता देशितशिक्षा परिपूरशिक्षा आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं । सा संघम् उपस्थापनासम्मुतिं याचति । तस्या सम्घो इत्थन्नामाये उपस्थापनासम्मुतिं देति । यस्या आर्यमिश्रिकाणां क्षमति इत्थन्नामाये विंशतिवर्षाये उपस्थापनासम्मुतिं दीयमानां संघेन । सा तूष्णीम् अस्य । यस्या न क्षमति सा भाषतु । एवं द्वितीया तृतीया कर्मवाचना । दिन्ना आर्यमिश्रिकायो इत्थन्नामाये विंशतिवर्षाये कुमारीभूताये देशितशिक्षाये परिपूर्णशिक्षाय उपस्थापनासम्मुतिः संघेन । क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति । [1] परिपूरशिक्षा पि च भवति तां चासंमताम् उपस्थापयेत् पाचत्तिकं ।
परिपूरशिक्षा पि च भवतीति अष्टादशवर्त्तेहि द्वे वर्षाणि देशितशिक्षा । तां चासंमताम् इति असंमता एवम् असंमता अपरिपूरशिक्षा पि असंमता तम् च से कर्म करोन्ति प्रज्ञप्तिविपन्नं गणविपन्नं अनुश्रावणाविपन्नं अन्यतरान्यतरेण कर्मोपक्लेशेन उपक्लिष्टं । एवं पि एषा असंमता । उपस्थापयेद् इति उपसम्पादयेत् पाचत्तिकं । यावत् प्रज्ञप्तिः । तेन भगवान् आह ।
। [2] पूरविंशतिवर्षा पि च भवति कुमारीभूता देशितशिक्षा च परिपूरशिक्षा च । तां चासंमताम् उपस्थापयेत् पाचत्तिकं
पाचत्तिकधर्म 100
ऊनद्वादशवर्षा गृहिचरिता
214. भगवान् श्रावस्तीयम् विहरति । ता दानि शाकियकन्यायो मल्लकन्यायो कोलीयकन्यायो गृहिचरितायो प्रव्रजितायो पटु कायो उच्चक्षुकायो क्षिप्रनिशान्तिकायो । महाप्रजापती गौतमी भगवन्तं पृच्छति । लभ्या दानि भगवन् ऊनविंशतिवर्षां गृहिचरिताम् उपस्थापयितुं । भगवान् आह । लभ्या । तायो अष्टवर्षाम् नववर्षां गृहिचरिताम् उपस्थापयन्ति । ता अप्रतिसंख्यानवर्तिन्यो भवन्ति । यथा ऊनविंशतिवर्षाः । यावद् भगवान् आह । न क्षमति ऊनद्वादशवर्षां गृहिचरिताम् उपस्थापयितुं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी ऊनद्वादशवर्षां गृहिचरिताम् उपस्थापयेत् पाचत्तिकं ।
गृहिचरिता ति विकोपितब्रह्मचर्या । उपस्थापयेद् इति उपसंपादयेत् पाचत्तिकं । यावत् प्रज्ञप्तिः । या एषा गृहिचरिता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं सा ताय अनुग्राहितव्या । पेयालं । यावत् हस्तपादा निवासयितव्याः । तेन भगवान् आह ।
या पुन भिक्षुणी ऊनद्वादशवर्षां गृहिचरिताम् उपस्थापयेत् पाचत्तिकं
मूल पाठ: Bhikṣuṇīvinaya · Edition: Gustav Roth: Bhikṣuṇī Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0