भिक्षुणीविनय · अध्याय 3
पाचत्तिकधर्म 90
कुलमात्सर्येण
204. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दा नाम भिक्षुणी कालस्यैव निवासयित्वा पात्रचीवरम् आदाय महात्मेहि कुलेहि द्वारकोष्ठकेहि तिष्ठति । भिक्षूणां प्रविशन्तानाम् आह । प्रविशन्तु आर्याः प्रविशन्तु आर्यमिश्राः अस्माकं कृतेन सिध्यति । अग्रपिण्डन् तावद् दत्त्वा युष्माकं प्रथमानाम् एव पश्चाद् आत्मना परिभुञ्जिष्यन् ति । मा अन्यानि कुलानि उपसंक्रमथ । नहि अन्येहि सिध्यति । ते दानि व्रीडिताः प्रत्योसक्षन्ति । भिक्षुणीनाम् अप्य् एवं कर्तव्यं । एवं चरकपरिव्राजकाजीवकनिर्ग्रन्थाः यावद् धर्मचिन्तकाः प्रविशन्ति । सा दानि तेषां प्रविशन्तानाम् आक्रोशति । चण्डायू नष्टाशा भग्नाशाः । सुराभ्रस्ता याना गर्दभाः नग्नाः अह्रीकाः अनोत्रापिणो मिथ्यादृष्टिकाः विनिपतिताः प्रविशथ युष्माकं कृतेन सिध्यति । युष्माकम् अग्रपिण्डन् तावद् दत्त्वा प्रथमानाम् एव पश्चाद् आत्मानं परिभोक्ष्यन् ति । मा अन्यानि कुलान्य् उपसंक्रमथ । नहि अन्येहि क्लेशेहि सिध्यति । ते दानि व्रीडिताः प्रत्योसक्षन्ति । एवं सर्वभिक्षाचरणाम् आवरणं करोति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् भगवान् आह । शब्दापयथ नन्दां । सा दानि शब्दापिता । तद् एव सर्वं । भगवान् विस्तरेण पृच्छति । यावद् आम भगवन् । भगवान् आह । दुष्कृतन् ते नन्दे यावद् एवन् नाम त्वं कुलमात्सर्यं करोषि । तेन हि न क्षमति कुलमात्सर्यं करोषि । तेन हि न क्षमति कुलमात्सर्यं कर्तुं । अथ खलु भगवान् माहाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि । पेयालं । यावत् ।
या पुन भिक्षुणी कुलमात्सर्यं कुर्यात् पाचत्तिकं । या पुन भिक्षुणीति उपसम्पन्ना । कुलमात्सर्यन् ति आवरणं कुर्यात् पाचत्तिकं यावत् प्रज्ञप्तिः । न क्षमति भिक्षुणीय कुलमात्सर्यं कर्तुं । करोति पाचत्तिकम् आसादयति । यदि तावद् भिक्षुर् वा भिक्षुणी वा पृच्छति भूतो गुणो वक्तव्यो । अथ दानि अन्यतीर्थिका पृच्छन्ति मा एते मिथ्यादृष्टिं ग्राहयिष्यन्तीति भृकुटिं करोति अनापत्तिः । भिक्षुर् अपि कुलमात्सर्यं करोति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी कुलमात्सर्यं कुर्यात् पाचत्तिकं । ऌं ॥ उद्दानं ।
देति [81] । चिकित्सिति [82] ।
वाचयति [83] । गृहिवैयावृत्तः [84] ।
सम्भोजनीयं [85] । संसर्गो [86] ।
उपशपति [87] । रोदति [88] ।
क्षियति [89] । कुलमात्सर्येण [90] ॥
पूर्यते नवमो वर्गः ।
पाचत्तिकधर्म 91
सम्मुखं
205. भगवान् श्रावस्तीयम् विहरति । गर्तोदरो च गर्तोदरमाता च गर्तोदरपिता च आगारस्यानगारियं प्रव्रजिताह् । पे । यावत् सो महल्लको भुञ्जाति । सा गर्तोदरमाता परिविषति । सो दानि ताये कानिचित् पूर्वचरितानि जल्पति स्त्रीउत्सददौष्ठुल्यानि यानि तस्या अमनआपानि । सा दान् आह । चण्डायुः । अखल्लमहल्लः । अव्यक्तअकुशलअप्रक्र्तिज्ञ । अद्यापि त्वम् अजल्पितव्यानि जल्पसि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं । यावद् आम भगवन् । भगवान् आह । दुष्कृतं ते गर्तोदरमाते । पेयालं । तेन हि न क्षमति भिक्षुं सम्मुखम् आक्रोशितुं परिभाषितुं । अथ भगवान् यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी भिक्षुणीभिक्षुं सम्मुखम् आक्रोशयेद् रोषयेद् परिभाषयेत् पाचत्तिकं । या पुन भिक्षुणीति उपसम्पन्ना । सम्मुखन् ति चातुरक्षं । आक्रोशयेद् इति अकारशकारएकारैः रोषयेत् परिभाषयेत् चण्डालु । अखल्लमहल्लअकुशलअप्रकृतिज्ञ ति पाचत्तिकं यावत् प्रज्ञप्तिः । न क्षमति भिक्षुणीये भिक्षुणीय भिक्षुं सम्मुखम् आक्रोशितुं रोषितुं परिभाषितुम् । आक्रोशति रोषति परिभाषति पाचत्तिकं । अथ भिक्षुण्या पिता वा भ्राता ज्ञातिको वा प्रव्रजितको भवति । सो च भवति उद्धतो उन्नडो असमाहितो लभ्या दानि सो वक्तुं । न दानि क्षमति धर्षिय वक्तुं । अथ खलु प्रज्ञया सम्ज्ञापयितव्यो । यदि तावत् तरुणको भवति वक्तव्यो । सालोहित इदानीं त्वं न शिक्षसि कदा त्वं शिक्षिष्यसि । यदा जीर्णो वृद्धो भविष्यसि । अथ दानि महल्लको भवति वक्तव्यो । इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि यदा मण्डलद्वारम् अनुप्राप्तो भविष्यसि । भिक्षुणापि भिक्षुणीयो न क्षमति सम्मुखम् आक्रोशितुं मुण्डस्त्री वेश्यस्त्री ति । पे । सा एषा भिक्षुणी भिक्षुं समुखम् आक्रोशति पाचत्तिकं
पाचत्तिकधर्म 92
ऊनद्वादशवर्षा
206. भगवान् श्रावस्तीयम् विहरति । भिक्षुणीयो दानि एकवर्षा द्विवर्षा यावत् षट्वर्षा उपस्थापेन्ति । ते नैव ओवदन्ति नानुशासन्ति । ता इन्द्रगवा इव वर्धन्ति शिवच्छगला विय वर्धन्ति । अनाकल्पसम्पन्ना अनीर्यपथसम्पन्ना न जानन्ति कथम् उपाध्यायिनीये प्रतिपत्तव्यं । कथम् आचार्याये प्रतिपत्तव्यं । कथं वृद्धातरकाणां भिक्षुणीनां प्रतिपत्तव्यं । कथं ग्रामे । कथम् अरण्ये । कथं संघमध्ये । कथं संघाटीपात्रचीवरधारणे प्रतिपत्तव्यं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावद् भगवान् आह । शब्दापयथ तायो भिक्षुणीयो । ता दानि शब्दापिताः । एतद् एव सर्वं भगवान् विस्तरेण पृच्छति । यावद् आम भगवन् । भगवान् आह । तेन हि न क्षमति ऊनद्वादशोदकवर्षाय उपस्थापयितुं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति ।
या पुन भिक्षुणी ऊनद्वादशवर्षा उपस्थापयेत् पाचत्तिकं ॥
या पुन भिक्षुणीति उपसम्पन्ना । ऊनद्वादशवर्षा ति ऊनद्वादशवर्षा नाम ऊनद्वादशोदकवर्षो ऊनद्वादशो सम्वत्सरो ऊनद्वादशवर्षा भिक्षुणी ।
ऊनद्वादशोदकवर्षो पूरद्वादशो सम्वत्सरो ऊनद्वादशवर्षा भिक्षुणी ।
ऊनद्वादशोदकवर्षो अतिरेको द्वादशो सम्वत्सरो ऊनद्वादशवर्षा भिक्षुणी ।
हेमन्ते उपसम्पन्ना तेन द्वादशमेन उपसम्पादिति । अकृतायां प्रवारणायां ऊनद्वादशवर्षा भिक्षुणी । एवं ग्रीष्मे वर्षासु उपसम्पन्ना ।
एवं पुरिमिकायां वर्षोपनायिकायां उपसम्पन्ना । अकृतायां प्रवारणायां उपसम्पादेति । पश्चिमिकायां वर्षोपनायिकायां उपसम्पन्ना । अकृताहि द्विहि प्रवारणाहि उपसम्पादेति ऊनद्वादशवर्षा भिक्षुणी ।
पूरद्वादशोदकवर्षो ऊनद्वादशो सम्वत्सरो पूरद्वादशवर्षा भिक्षुणी ।
पूरद्वादशोदकवर्षो पूरद्वादशो सम्वत्सरो पूरद्वादशवर्षा भिक्षुणी ।
पूरद्वादशोदकवर्षो अतिरेकद्वादशो सम्वत्सरो पूरद्वादशवर्षा भिक्षुणी ।
हेमन्ते उपसम्पन्ना तेन द्वादशमेन उपसम्पादेति कृतायां प्रवारणायां पूरद्वादशवर्षा भिक्षुणी ।
एवं ग्रीष्मे वर्षासु उपसम्पन्ना ।
एवं पुरिमिकायां वर्षोपनायिकायां उपसम्पन्ना कृतायां प्रवारणायाम् उपसम्पादेति पूरद्वादशवर्षा भिक्षुणी । पश्चिमिकायां वर्षोपनायिकायां उपसम्पन्ना तेन द्वादशमेन उपसम्पादेति कृताहि द्विहि प्रवारणाहि पूरद्वादशवर्षा भिक्षुणी ।
ऊनद्वादशवर्षा उपसम्पादयेत् पाचत्तिकं । सा एषा भिक्षुणी ऊनद्वादशवर्षा उपस्थापयति पाचत्तिकं प्रव्राजयति विनयातिक्रमम् आसादयति । भिक्षुर् अपि ऊनद्वादशवर्षो उपसम्पादयति विनयातिक्रमम् आसादयति । तेन भगवान् आह ।
या पुन भिक्षुणी ऊनद्वादशवर्षा उपस्थापयेत् पाचत्तिकं ॥
पाचत्तिकधर्म 93
अनङ्गोपेता
207. भगवान् श्रावस्तीयम् विहरति । भगवता शिक्षापदं प्रज्ञप्तं । न क्षमति ऊनद्वादशवर्षाय उपस्थापयितुं । तेन दानि कालेन तेन समयेन षड्वर्गिणीयो भिक्षुणीयो पूरद्वादशवर्षा भवन्ति । तायो दानि प्रव्राजेन्ति उपस्थापेन्ति । ता नैव त्-ओवदन्ति नानुशासन्ति । पेयालं । यावत् कथं संघाटीपात्रधारणे प्रतिपत्तव्यं । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावच् छब्दापिता । तद् एव सर्वं भगवान् विस्तरेण पृच्छति । यावद् आम भगवन् । भगवान् आह । तेन हि न क्षमति अनङ्गोपेताय उपस्थापयितुं । अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति । यावत् पर्यवदातानि भविष्यन्ति ।
पूरद्वादशवर्षा पि च भवति सा च अनङ्गोपेता उपस्थापयेत् पाचत्तिकं ।
पूरद्वादशवर्षा ति यथा प्रथमके शिक्षापदे ।
सा च अनङ्गोपेता इति अङ्गोपेता नाम यस्या दशाङ्गानि सम्विद्यन्ते संयथईदं ।
प्रातिमोक्षसम्वरसंवृता भवति ॥ [1] ॥ बहुश्रुता भवत्य् अभिधर्मे
बहुश्रुता भवत्य् अभिविनये
प्रतिबला भवत्य् अधिशीलशिक्षायां निवेशयितुं
प्रतिबला भवत्य् अधिचित्तशिक्षायान् निवेशयितुं
प्रतिबला भवत्य् अधिप्रज्ञशिक्षायां निवेशयितुं
प्रतिबला भवत्य् आपत्तिम् आपन्नां व्युत्थापयितुम् वा व्युत्थापाययितुम् वा
प्रतिबला भवत्य् आपदासु व्युपकर्षयितुं वा व्युपकर्षापयितुम् वा
मूल पाठ: Bhikṣuṇīvinaya · Edition: Gustav Roth: Bhikṣuṇī Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0