भिक्षुणीविनय · अध्याय 11
भिक्षुणिप्रकीर्णक 24
गण्डप्रतिच्छादनप्रतिसंयुक्तं
277. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दा नाम भिक्षुणी विहारस्याकाशतलके एकसंकक्षिकाय चङ्क्रमति । ताये दानि । स्तनावड्डाश् चङ्क्रमन्तीय उत्पतन्ति । जनेन उच्चग्घायति पश्यथ भणे श्रमणिका अलाबुतुम्बकेन विय नदीं तरतीति । एतं प्रकरणं भिक्षुणीहि श्रुतं । पेयालं । यावद् भगवान् आह । तेन हि गण्डप्रतिच्छादनन् नाम कर्तव्यं । गण्डप्रतिच्छादनप्रतिसंयुक्तं । संकक्षिकाये उपरिटो ओसारयितव्यो यथा गण्डा प्रतिच्छन्ना भवेंसुः सा एषा भिक्षुणी गण्डप्रतिच्छादनं पटं न प्रावरति विनयातिक्रमम् आसादयति । न दानि क्षमति प्राकटे प्रदेशे एकसंकक्षिकाय आसादयति । न दानि क्षमति प्राकते प्रदेशे एकसंकक्षिकाय चङ्क्रमितुं । अथ दानि विहारस्य गुप्ते प्रदेशे चङ्क्रमति एकसंकक्षिकाय अनापत्तिः । इदम् उच्यते गण्डप्रतिच्छादनप्रतिसंयुक्तं ॥
भिक्षुणीप्रकीर्णक 25
स्त्रीअलङ्कारप्रतिसंयुक्तं
278. भगवान् श्रावस्तीयम् विहरति । तायो दानि शाकियकन्यायो महाकुलेहि प्रव्रजिताः । अभिज्ञायो अलंकरितुं ।
या दानि कुमारियो वुह्यन्ति नववधुकायो वा आनीयन्ति तायो अलङ्करेन्ति गृहेण गृहन् नीयन्ति । अलङ्करितुं खज्जभोज्जं लभन्ति तेन वृत्तिं कल्पेन्ति । जनो दानि ओज्झायति । नेयं प्रव्रज्या अलङ्कारिका एताः । एतं प्रकरणं भिक्षुणीहि श्रुतं । पेयालं यावद् भगवान् आह । तेन हि न क्षमति अलङ्कर्तुं । स्त्रीअलङ्कारप्रतिसंयुक्तं । सा एषा भिक्षुणी शीर्षम् वा प्रसाधेति अक्षिणी वा अञ्जेति चूर्णकेन वा मुखं ओचूर्णेति तेन च जीविकां कल्पेति विनयातिक्रमम् आसादयति । अथ दानि अक्षिणीदुःखम् ति शिरोवेदना वा भवति । अर्धावभेदका वा लभ्या अक्षिणी अञ्जयितुं शीर्षम् वा मार्जयितुं । इदम् उच्यते स्त्रीअलङ्कारप्रतिसंयुक्तं ॥तृ ॥
भिक्षुणी प्रकीर्णक 26
उत्पलवापकप्रतिसंयुक्तं
279. भगवान् श्रावस्तीयम् विहरति । तायो दानि शाकियकन्यायो कोलितकन्यायो मल्लकन्यायो महाकुल प्रव्रजितायो उत्पलानि वापेन्ति विक्रीणन्ति च । तेन च जीविकां कल्पयन्ति । जनो दानि ओज्झायति । नेयं प्रव्रज्या उत्पलवापिका इयं । एतम् प्रकरणं यावत् पेयालं । यावद् भगवान् आह । तेन हि न क्षमति उत्पलानि वापयितुं उत्पलवापकप्रतिसम्युक्तं । सा एषा भिक्षुणी वापेति विक्रीणाति च तेन च जीविकां कल्पेति विनयातिक्रमम् आसादयति । अथ दानि चैत्यार्थाय वापेति भगवतः पूजाकर्माय वापेति अनापत्तिः । इदम् उच्यते उत्पलवापकप्रतिसंयुक्तं ॥
भिक्षुणीप्रकीर्णक 27
सुमनावापनाप्रतिसंयुक्तं
280. भगवान् श्रावस्तीयम् विहरति । एवम् एव सुमनावापनाय कर्तव्यं यावत् इदम् उच्यते सुमनावापनाप्रतिसंयुक्तं ॥ग्रा ॥
भिक्षुणीप्रकीर्णक 28
उत्पलग्रन्थिका प्रतिसंयुक्तं
281. भगवान् श्रावस्तीयम् विहरति । भगवता दानि शिक्षापदं प्रज्ञप्तं । न क्षमति सुमनां वापयितुम् ति । तायो दानि शाकियकन्यायो कोलितकन्यायो मल्लकन्यायो लिच्छविकन्यायो उत्पलानि ग्रन्थयित्वा विक्रीणन्ति । जनो दानि ओज्झायति । नेयं प्रव्रज्या कारिका इयं । एतं प्रकरणं भिक्षुणीहि श्रुतं । पेयालं । यावद् आम भगवन् । भगवान् आह । तेन हि न क्षमति उत्पलानि ग्रन्थयितुं । उत्पलग्रन्थिकाप्रतिसंयुक्तं । सा एषा भिक्षुणी उत्पलदामाम् वामल्लिकादामाम् वा आरङ्गणदामाम् वा कृत्वा विक्रीणन्ति । तेन च जीविकां कल्पयन्ति विनयातिक्रमः । अथ दानि माल्योपहारो भवति जातिमहा वा बोधिमहा वा धर्मचक्रमहा वा आनन्दमहा वा राहुलमहा वा पञ्चवार्षिका वा । महापञ्चवार्षिका । जनो दानि आह । आर्यमिश्रिकाहि शोभापयितव्यं । किञ्चापि भिक्षुणी मुत्पलमालाम् वा मल्लिकामालाम् वा आरङ्गणमालाम् वा ग्रन्थयत्य् अनापत्तिः । इदम् उच्यते उत्पलग्रन्थिकाप्रतिसंयुक्तं ॥ ह्र ॥
भिक्षुणी प्रकीर्णक 29
सुमनाग्रन्थिकाप्रतिसंयुक्तं
एवम् एव सुमनाग्रन्थिकाय नानाकरणं ग्रन्थिगुणं वा मालागुणम् वा पुष्पकञ्चुकम् वा कृत्वा विक्रीणाति । तेन जीविकां कल्पयति विनयातिक्रमः । इदम् उच्यते सुमनाग्रन्थिकाप्रतिसंयुक्तं
भिक्षुणीप्रकीर्णक 30
कर्तनाप्रतिसंयुक्तं
282. भगवान् श्रावस्तीयम् विहरति । तायो दानि भिक्षुणीयो शाकियकन्यायो यावन् महाकुलप्रव्रजितायो संज्ञिकाः सूत्रं कर्तयित्वा विक्रीणन्ति । जनो दानि ओज्झायति । नेयं प्रव्रज्या पिचुकारिका इयं । एतं प्रकरणं भिक्षुणीहि श्रुतं । पेयालं । यावद् भगवान् आह । तेन हि न क्षमति कर्तितुं । कर्तनाप्रतिसंयुक्तं । सा एषा भिक्षुणी कम्बलम् वा कर्पासम् वा क्षौमम् वा कौशेयम् वा शाणम् वा भङ्गम् वा अन्यम् वा कर्तयित्वा विक्रीणाति तेन जीविकां कल्पयति विनयातिक्रमम् आसादयति । अथ दानि भिक्षुणीये चीवरं परिश्रामणं वा क्षीनं वा भवति लभ्यं सी
भिक्षुणीप्रकीर्णक 31
आचारविकोपनाप्रतिसंयुक्तं
283. मनास्मि । ब्रह्मचर्यातो च्याविता । आह । केन । आह । सो मे देवरो परिपातेति । सो मे नयितुकामो । आह । उपविश माता याहि । वयं ते रक्षिष्यामः सा दान् आह गमिष्यामि आर्याये मूलं आर्या मे रक्षिष्यति । ताहि ताये नूपुराणि आबद्धानि कर्णिका आबद्धा वलयानि आविद्धानि अलङ्कृता रक्षोपरक्तेहि वस्त्रेहि परिहिता वावागुण्ठिता च । चतुहि पञ्चहि चेटिकाहि परिवृता । सो दानि मनुष्यो तान् द्वारे स्थित्वा अवलोकेति । यां वेलां निष्क्रमिष्यति ततो हं गृह्णीष्यामीति । तेन सा दृष्टा निष्क्रमन्ती । तस्य भवति अर्हति कुटुम्बिकभार्या एषा । न एषासा सा दानि भिक्षुणी । सा दानि भिक्षुणी उपाश्रयं गता भिक्षुणीहि दृष्टा । आहंसुः । आर्ये इयं सुदिन्ना प्रत्योधावित । आह । नाहं प्रत्योधाविता अपि तु मम देवरो प्रत्योधावयितुकामो । तस्य भयाद् आरक्षाभिप्राया एवं कृतं । पेयालं यावत् एतद् एव । भगवान् सर्वं पृच्छति । आम् भगवन् । भगवान् आह । एवञ् च नाम त्वं आचारं विकोपयसि । तेन हि न क्षमति आचारं विकोपयितुं । सा एषा भिक्षुणी त्यक्तमुक्तेन चित्तेन आचारं विकोपयति अभिक्षुणी भवति । अथ रक्षाभिप्राया आचारम् विकोपयति विनयातिक्रमः । न च अभिक्षुणी भवति । भिक्षुर् अपि अत्यक्तमुक्तेन चित्तेन रक्षार्थं आचारं विकोपयति अनापत्तिः । इदम् उच्यते आचारविकोपनाप्रतिसंयुक्तं
भिक्षुणीप्रकीर्णक 32
पात्रप्रतिच्छादनाप्रतिसंयुक्तं
284. भगवान् श्रावस्तीयम् विहरति । स्थूलनन्दा भिक्षुणी पिण्डचारम् अण्वन्ती । सा दानि अपरं महान्तं कुलं पिण्डाय प्रविष्टा । तंहि स्त्रियाय लोलगर्भो दारको । सा दान् आह । आर्ये इमं दारकं उज्झेहि । आह । उज्झेतु आर्या । अहं आर्याये किञ्चिद् दास्यामि । आह । नाहम् एनम् उज्झामि । आह । आर्याय अहं एत्तकं चैत्तकं च दास्ये । ताय लुब्धाय उक्तं । इह पात्रे देहि । सा तं प्रतिच्छादयित्वा निष्क्रमति । थेरो दानि महाकाश्यपो पिण्डचारं प्रविष्टो । थेरस्यापि समदानं । या प्रथमा भिक्षा लक्षति तां भिक्षुस्य वा भिक्षुणीये वा प्रतिष्ठाये ति । थेरेण दानि सा दृष्टा । आह । आहर पात्रं । सा संकुसायति प्रतिच्छादेति न दर्शयेति । थेरो आह । आहर पात्रं । सा महेशाख्येन शास्तृकल्पेन थेरेणाभिगर्जिता । ताय दानि भीताय थरथरापन्तीय पात्रं प्रणामितं । थेरेण दृष्टं । आह । हि हीयाय धर्मो । एतं प्रकरणं आयुष्मान् महाकश्यपो भिक्षुणाम् आरोचयति । भिक्षू भगवतो आरोचयेंसुः । भगवान् आह । शब्दापयथ नन्दां । सा दानि शब्दापिता । एतद् एव पृच्छीयति । यावद् आम भगवन् । भगवान् आह । दुष्कृतन् ते नन्दे नैष धर्मो नैष विनयो यावत् । एवञ् च नाम त्वं पात्रं प्रतिच्छादेसि । तेन हि न क्षमति पात्रं प्रतिच्छादयितुं । पात्रप्रतिच्छादनाप्रतिसंयुक्तं । न क्षमति भिक्षुणीय प्राकटेन पात्रेण पिण्डाय अटितुं प्रतिच्छादयित्वा अटितव्यं । यदा भिक्षां प्रतिच्छति तदा उग्घाटिय प्रतिच्छितव्यं । यदि भिक्षुं रथ्यायां पश्यति उग्घाटिय उपदर्शयितव्यं । सा एषा भिक्षुणी प्राकटेन पात्रेण अटति विनयातिक्रमम् आसादयति । भिक्षुं दृष्ट्वा न उग्घाटिय दर्शेति विनयातिक्रमम् आसादयति । इदम् उच्यते पात्रप्रतिच्छादनाप्रतिसंयुक्तं ॥
भिक्षुणीप्रकीर्णक 33
वर्चकुटिप्रतिसंयुक्तं
285. भगवान् श्रावस्तीयं विहरति । ता दानि भिक्षुणीयो ओनद्धवर्चे वर्चकुटीये उपविशन्ति । वर्चकुटीये स्त्रियाय लोलगर्भो प्रतिक्षिप्तो । चण्डालाश् चित्रघटकेहि उच्चारं छोरयन्ति । तेहि सो दारको दृष्टो । ते तं दारकं एकायां बाहायां गृहीत्वा ओज्झायन्ति । श्रमणिका वर्चकुटीयं प्रसूता हि । एतं प्रकरणं भिक्षुणीहि श्रुतं । पेयालं । यावत् तेन हि न क्षमति ओनद्धवर्चे उपविशितुं । वर्चकुटीप्रतिसंयुक्तं । न दानि क्षमति भिक्षुणीय ओनद्धवर्चकुटिं कारापयितुं । अथ खु विवृतपादका कारापयितव्या । न क्षमति आगतोदकं कारापयितुं । निःसीमा कारापयितवया । सा एषा भिक्षुणी ओनद्धवर्चकुटीयं आगतोदकायम् वा उपविशति विनयातिक्रमम् आसादयति । इदम् उच्यते वर्चकुटीप्रतिसंयुक्तं ॥
भिक्षुणीप्रकीर्णक 34
जेन्ताकप्रतिसंयुक्तं
286. भगवान् श्रावस्तीयम् विहरति । ताय दानि भिक्षुणीय शाकियकन्यायो लिच्छविकन्यायो मल्लकन्यायो जेन्ताके स्नायन्ति । कुलपुत्रकेहि अनुप्रविश्य ब्रह्मचर्यातो च्याविताः । एतं प्रकरणं भिक्षुणीहि श्रुतं । पेयालं । यावत् तेन हि न क्षमति भिक्षुणीये जेन्ताके स्नायितुं । अथ दानि गिलाना भवति लभ्या विहारे स्वेदयित्वा तैलेन अङ्गानि म्रक्षयित्वा स्नायितुं । सा एसा भिक्षुणी जेन्ताके स्नायति विनयातिक्रमम् आसादयति । इदम् उच्यते जेन्ताकप्रतिसंयुक्तं
मूल पाठ: Bhikṣuṇīvinaya · Edition: Gustav Roth: Bhikṣuṇī Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0