भिक्षुणीविनय · अध्याय 12
भिक्षुणीप्रकीर्णक 35
आरण्यकशयनासनप्रतिसंयुक्तं
287. भगवान् श्रावस्तीयम् विहरति । तेन कालेन तेन समयेन भिक्षुणीनाम् आरङ्यकानि शयनासनानि न प्रतिक्षिप्तानि ग्रामान्तिकानि च अकृतानि । तेन खलु पुनः समयेन पञ्चमात्राणि भिक्षुणीशतानि महाप्रजापतीप्रमुखानि राजकारामे विहरन्ति । तायो दानि शाकियकन्यायो लिच्छविकन्यायो कोलितकन्यायो प्रासादिकायो दर्शनीयायो । तायो दानि कुलपुत्रकेहि ओचरितायो । तायो पुरिमं यामं प्रहाणम् उपविष्टा । कुलपुत्रकाश् च अल्लीना ग्रहेष्यामो ति । ताः स्रत्ति वैहायसम् अभ्युद्गताः । ते कुलपुत्राः प्रत्योसक्किताः । तायो पुनो मध्यमयामं एवम् पश्चिमं यामं प्रहाणम् उपविष्टाः । कुलपुत्रकाश् च अल्लीना ग्रहेष्यामो ति । तंहि तदा नीयाः क्षिप्रसमापत्तिकाः । याहि च मिद्धम् अनोक्रान्तं ताः स्रत्ति वैहायसम् अभ्युद्गताः । यावन्त समापत्तिका याहि च मिद्धम् अवक्रान्तं तायो कुलपुत्रकेहि गृह्य विहेठिताः । एतं प्रकरणं । पेयालं । यावत् तेन हि न क्षमति आरण्यके शयनासने वस्तुं । अथ दानि चातुष्पथिका सर्वरात्रिका भवति उपासकोपासिका गच्छन्ति लभ्यं वस्तुं । तहिं पि न क्षमति प्रतिगुप्ते प्रदेशे वस्तुं । सा एषा भिक्षुणी आरण्यके शयनासने वासं उपगच्छति वर्षम् वा वसति विनयातिक्रमम् आसादयति । इदम् उच्यते आरण्यकशयनासनप्रतिसंयुक्तं ॥ तृ ॥
भिक्षुणीप्रकीर्णक 3641
भिक्षुणीप्रकीर्णक 36, 37
288. यो भिक्षूणाम् आस्तारो अनास्तारो सो भिक्षुणीनां । यो भिक्षुणीनां आस्तारो अनास्तारो सो भिक्षूणां ॥ ग्रा ॥
भिक्षुणीप्रकीर्णक 38, 39
यो भिक्षूणाम् उद्धारो अनुद्धारो सो भिक्षुणीनां । ग्रा । यो भिक्षुणीनाम् उद्धारो अनुद्धारो सो भिक्षूणां
भिक्षुणीप्रकीर्णक 40, 41
यो भिक्षूणाम् अभिहारो अनभिहारो सो भिक्षुणीनां ॥ ऌ ॥
यो भिक्षुणीनाम् अभिहारो अनभिहारो सो भिक्षूनां ॥ ऌ ॥
॥ चतुर्थो वर्गः ॥
भिक्षुणीप्रकीर्णक 4248
भिक्षुणीप्रकीर्णक 42, 43
289. यं भिक्षूणाम् आमिषं अकल्पियं । अकल्पियं तं भिक्षुणीनां ॥
यं भिक्षुणीनाम् आमिषं अकल्पियं कल्पियं तम् भिक्षूणां
भिक्षुणीप्रकीर्णक 44, 45
लभ्यं भिक्षुस्य भिक्षुणीय प्रतिग्रहयितुं स्थापयित्वा जतरूपरजतं अग्निकल्पियञ् च
मूल पाठ: Bhikṣuṇīvinaya · Edition: Gustav Roth: Bhikṣuṇī Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0