भाषा

ENहिગુ
ग्रंथ पाठ

भिक्षुणीविनय · अध्याय 10

10.0

भिक्षुणीप्रकीर्णक 13, 14
धोवनाप्रतिसंयुक्तं
प्रवेशनाप्रतिसंयुक्तं
267. भगवान् श्रावस्तीयम् विहरति । अथ खलु महाप्रजापती गौतमी येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि । एकान्तस्थिता महाप्रजापती गौतमी भगवन्तं याचति । भगवन्तं वन्दित्वा आह । मातृग्रामस्य भगवन् अङ्गजातं दुर्गन्धं उपवायति । लभ्यं । भगवन् धोवितुं । भगवान् आह । लभ्या । तायो दानि भिक्षुणीयो बाहिरबाहिरेण धोवन्ति तथैव दुर्गन्धं वायति । एतं प्रकरणं महाप्रजापती गौतमी भगवन्तं पृच्छति । लभ्या भगवन् प्रवेशिय धोवितुं । भगवान् आह । लभ्या धोवनाप्रतिसंयुक्तं प्रवेशनाप्रतिसंयुक्तं । भिक्षुणीय धोवन्तीय एकम् अङ्गुलिवेठकं प्रवेशयित्वा धोवितव्यं । न क्षमति अतिदूरं प्रवेशयितुं । अतिदूरं प्रवेशेति तेन च कामरागं विनोदेति थूल्ऽ-अच्चयम् आसादयति । इदम् उच्यते धोवनाप्रतिसंयुक्तं प्रवेशनाप्रतिसंयुक्तं ॥ ण्क ॥
भिक्षुणिप्रकीर्णक 15, 16, 17
आनिचोलकप्रतिसंयुक्तं
268. भगवान् श्रावस्तीयम् विहरति । तासान् दानि भिक्षुणीनाम् अनुमासं अनुमासं ऋतुर् आगच्छति । लोहितं शय्यासनं नाशीयति । एतं प्रकरणं महाप्रजापती गौतमी भगवतो आरोचेति । लभ्या भगवन् शयनासनगुप्त्यर्थं आनीचोलं धारयितुं । भगवान् आह । लभ्यं आनीचोलकप्रतिसंयुक्तं । यस्या एष ऋतुर् आगच्छति शोणितं स्रवति तया आनीचोलकं धारयितव्यं । लेण्टकखण्डानि । नापि क्षमति गाढं नापि क्षमति अतिदूरं प्रवेशयितुं यथा तेनैव कामरागम् विनोदयेत् । अथ खलु प्रशिथिलं व्रणमुखस्य प्रवेशयितव्यं । सा एषा भिक्षुणी अतिदूरम् वा प्रवेशेति गाढम् वा प्रवेशेति यथा तेनैव कामरागम् विन्दोदेति स्थूल्ऽ-अच्चयम् आसादयति । इदम् उच्यते आनीचोलकप्रतिसंयुक्तं ॥ तृ ॥
भिक्षुणीप्रकीर्णक 16
स्त्रीतीर्थप्रतिसंयुक्तं
269. भगवान् श्रावस्तीयम् विहरति । तायो दानि भिक्षुणीयो स्त्रीतीर्थे आनीचोलं धोवन्ति । स्त्रियो दानि ओज्झायन्ति । सर्वम् इदम् तीर्थं रुधिरेण विट्टालितं । एतं प्रकरणं । पेयालं । यावद् भगवान् आह । तेन हि न क्षमति स्त्रितीर्थे आनीचोलकं धोवितुं । स्त्रीतीर्थप्रतिसंयुक्तं । सा एषा भिक्षुणी आनीचोलकं स्त्रीतीर्थे धोवति विनयातिक्रमम् आसादयति । इदम् उच्यते स्त्रीतीर्थप्रतिसंयुक्तं ॥ फु ॥
भिक्षुणीप्रकीर्णक 17
पुरुषतीर्थप्रतिसंयुक्तं
270.भगवान् श्रावस्तीयम् विहरति । भगवता शिक्षापदं प्रज्ञप्तं । न क्षमति स्त्रीतीर्थे आनीचोलकं धोवितुं । तायो दानि भिक्षुणीयो पुरुषतीर्थे आनीचोलकं धोवन्ति । पेयालं । यावत् सा एषा भिक्षुणी आनीचोलकं पुरुषतीर्थे धोवति विनयातिक्रमम् आसादयति । इदम् उच्यते पुरुषतीर्थप्रतिसंयुक्तं ॥ ग्रा ॥
भिक्षुणीप्रकीर्णक 18
रजकतीर्थप्रतिसंयुक्तं
271. भगवान् श्रावस्तीयम् विहरति । एवम् एव रजकतीर्थे कर्तव्यं । भगवान् आह । तेन हि न क्षमति रजकतीर्थे धोवितुं । अथ खु कुण्डालके वा कटाहके वा मल्लके वा दकानके वा उदकं गृह्य एकान्ते धोवितव्यं । यहिं पर्यादानं गच्छेय । अथ दानि बाहिरोदकं भवति यहिं निर्वाहो तहिन् धोवितव्यं । तानि लेण्टकानि शोषयितव्यानि यदा पुनो ऋतु नागच्छति तदा पुनो दातव्यानि । सा एषा भिक्षुणी रजकतीर्थे आनीचोलं धोवति विनयातिक्रमम् आसादयति । इदम् उच्यते रजकतीर्थप्रतिसंयुक्तं ॥ ह्रा ॥
भिक्षुणीप्रकीर्णक 19
उदकधाराप्रतिसंयुक्तं
272. भगवान् श्रावस्तीयम् विहरति । अपराय दानि भिक्षुणीय रक्तचित्ताय अङ्गजातं उदके धारितं । तस्याशुचिर् मुक्तं । ताये दानि कौकृत्यं । कौकृत्येन भिक्षुणीनाम् आरोचयति । यावद् भगवान् आह । सा एषा भिक्षुणी उदकधारायाम् वा कुण्डिकधारायाम् वा उदकचोडेन वा आलुकवेण्टिकायाम् वा प्रणाल्याम् वा अङ्गजातं धारेति तेन च कामरागं विनोदेति थूल्ऽ-अच्चयम् आसादयति । अथ दानि स्नायति तडागे वा प्रस्रवणे वा प्रणालियम् वा न दानि अग्रतो उदकधारां कृत्वा स्नायितव्यं यथा पृष्ठीय वा शीर्षेण वा उदकधारां प्रतिच्छेय तथा स्नायितव्यं । सा एषा भिक्षुणी अग्रतो मुखां उदकधारां कृत्वा स्नायति ताय च कामरागं विनोदेति थूल्ऽ-अच्चयम् आसादयति । इदं उच्यते उदकधाराप्रतिसंयुक्तं

10.3

भिक्षुणिपरिकीर्णक 20
उदकस्रोतप्रतिसंयुक्तं
273. भगवान् श्रावस्तीयम् विहरति । अपराय दानि भिक्षुणीय रक्तचित्ताय उदकस्रोते अङ्गजातं धारितं । ताये अशुचिर् आगतो यथा उदकधाराय यावत् । तेन हि न क्षमति उदकस्रोते अङ्गजातं धारयितुं । उदकस्रोतप्रतिसंयुक्तं । या दानि तायो भवन्ति गिरिनदीयो शीघ्रस्रोतायो तहिं अङ्गजातं धारेति तेन च कामरागं विनोदेति थूल्ऽ-अच्च्यम् आसादयति । अथ दानि स्नायति न क्षमति अग्रतोमुखं स्रोतं कृत्वा स्नायितुं पृष्ठतोमुखं स्रोतं कृत्वा स्नायितव्यं । सा एषा भिक्षुणी अग्रतोमुखं स्रोतं कृत्वा स्नायति विनयातिक्रमम् आसादयति । इदम् उच्यते उदकस्रोतप्रतिसंयुक्तं ॥ ऌ ॥
॥ द्वितीयो वर्गः ॥
भिक्षुणीप्रकीर्णक 21
विकृतिप्रतिसंयुक्तं
274. भगवान् श्रावस्तीयम् विहरति । तायो दानि भिक्षुणीयो नानाप्रकारेहि मोचयन्ति मूलकेन पलाण्डूकेबुकाये सोभञ्जनकेन लतिकाय । एतं प्रकरणं यावद् भगवन् । भगवान् आह । तेन हि न क्षमति विकृतीहि मोचयितुं । विकृतिप्रतिसंयुक्तं । सा एषा भिक्षुणी मूलकेन वा पलाण्डूय वा केबुकाय वा सोभञ्जनकेन वा लतिकाय वा इल्लादुकाय वा त्रपुसेन वा अल्लाबूय वा कक्षारुकेन वा अन्येन वा पुन केनचिन् मोचयति तेन च कामरागं विनोदेति थूल्ऽ-अच्चयम् आसादयति । इदम् उच्यते विकृतिप्रतिसंयुक्तं ॥
भिक्षुणीप्रकीर्णक 22
कर्मप्रतिसंयुक्तं
275. भगवान् श्रावस्तीयम् विहरति । अपरस्य दानि भिक्षुस्य उत्क्षेपनीयं कर्म क्रियते । तहिं नास्ति कोचि परिकुशलो कर्मकारको । भिक्षुणीय कर्म कृतं । ताये दानि कौकृत्यं । किन् नु खलु लभ्या एतं कर्तुं उताहो न लभ्यं । कौकृत्येन भिक्षुणीनाम् आरोचयति । भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद् भगवान् आह । अग्रपरिषा एषा । न क्षमति भिक्षुणीय भिक्षुस्य कर्म कर्तुं । कर्मप्रतिसंयुक्तं न क्षमति भिक्षुणीय भिक्षुस्य कर्म कर्तुं (!) । अथ दानि न कोचित् परिकुशलो कर्मकारको भवति लभ्यं भिक्षुणीये भिक्षुस्य उद्देशितुं । अथ दानि कर्मकरेन्तस्य विस्मरति लभ्या भिक्षुणीय अनुप्रदातुं । सा एषा भिक्षुणी भिक्षुस्य कर्म करोति विनयातिक्रमः । किञ्चापि भिक्षुः भिक्षुणीये कर्म करोति अनापत्तिः । इदम् उच्यते कर्मप्रतिसंयुक्तं ॥
भिक्षुणीप्रकीर्णक 23
कौशेयप्रतिसंयुक्तं
276. भगवान् श्रावस्तीयम् विहरति । भद्रा दानि कापिलेयी कौशेयचीवरेण प्रावृता ज्ञातिकुलं गच्छति स्थूलवृषितो देवो ओवृष्टो कौशेयचीवरमोवृष्टं कायेश्लिष्टं स्फटिकप्रत्युष्टो विय कायोदृश्यति जनो सन्निपातितो भद्राये अङ्गयष्टिं पश्यितुकामो । सा दानि उत्कुटुका उपविष्टा अन्तेवासिनीहि परिवृता । एतं प्रकरणं । यावद् आम भगवन् । भगवान् आह । तेन हि न क्षमति कौशेयं । कौशेयप्रतिसंयुक्तं । कौशेयन् नाम जातिमं कर्त्तिमं च । सा एषा भिक्षुणी जातिमं प्रावरति । देशनागामीविनयातिक्रमः । कर्त्तिमं प्रावरति सम्वरगामीविनयातिक्रमः किञ्चापि भिक्षुर् उभयं प्रावरति अनापत्तिः । इदम् उच्यते कौशेयप्रतिसंयुक्तं

मूल पाठ: Bhikṣuṇīvinaya · Edition: Gustav Roth: Bhikṣuṇī Vinaya, Patna: K.P. Jayaswal Research Institute 1970 (Tibetan Sanskrit Works Series, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc