भेलसंहिता · अध्याय 8.7
फलमात्रं निरूहेषु श्रेष्ठम् आहुर् मनीषिणः ।
तेषां तु मदनं श्रेष्ठं प्रवदन्ति चिकित्सकाः ॥
जीमूतकं प्रशंसन्ति केचिद्धामार्गवं तथा ।
कृतवेधनम् इत्य् एके कुटजं प्राहुरप्यथ ॥
गर्हिता स्सर्व एवैते वादाः प्रत्येकशः स्मृताः ।
भेषजानां च सङ्घातो निरूहेषु प्रशस्यते ॥
वातपित्तकफग्नांस्तु निरूहांश् चानुपूर्वशः ।
व्याख्यास्यामो यथान्यायं सन्निपातहिताश् च ये ॥
द्वै पञ्चमूल्यौ कोलानि नलदश्शुष्कमूलकम् ।
द्विपलीनानि सर्वाणि जलद्रोणे विपाचयेत् ॥
अष्टभागावशेषं तु कषायमवतारयेत् ।
कल्कपेष्याणि चेमानि भेषजानि समावपेत् ॥
निकुञ्चिकां खरपुष्पां पिप्पलीं सैन्धवं वचाम् ।
त्रपुसोर्वारुबीजानि शतपुष्पां यवानिकाम् ॥
कुष्ठं च तगरं चैव यष्टीमधुकम् एव च ।
सक्षीरस्सकषायश् च सगोमूत्रश्च कीर्तितः ॥
सतैलश् च निरूहः स्याद्वातरोगविनाशनः ।
पटोलपत्रमूलं च पिचुमन्दं शतावरीम् ॥
त्रायमाणां बलां रास्नां बृहतीं कण्टकारिकाम् ।
गुडूचीं त्रिफलां श्यामां सारिबां वंशकत्वचम् ॥
द्विपलीनान् पृथग्भागान् पूर्वकल्पेन साधयेत् ।
मधुकं वंशकफलं शतपुष्पां दुरालभाम् ॥
महासहामंशुमतीं कल्कं कुर्यात् पृथक् पृथक् ।
क्षीरेणाथ कषायेण घृतेन मधुना तथा ॥
कल्पमिश्रः सुमथितो निरूहः पित्तनाशनः ।
दशमूली करञ्जौ द्वौ दन्ती चित्रकम् एव च ॥
एकाष्ठीला तुरङ्गी च त्रिफला देवदारु च ।
पूतिकं रौहिषं श्यामा मूर्वा राजतृणानि च ॥
पृथक् पञ्चपलानेतान् साधयेत्सर्वकल्पवित् ।
अधोभागोर्ध्वभाग्द्रव्यैस्साधयेत्साधु योजितैः ॥
मूत्रतैलयुतः श्रेष्ठः निरूहः श्लेष्मनाशनः ।
अश्वगन्धां बलां रास्नां श्वदंष्ट्रां सपुनर्नवाम् ॥
पटोलपञ्चमूल्यौ च भार्ङ्गीं श्यामां शतावरीम् ।
गुडूचीं त्रिफलां शिग्रुं कर्णिकायाः फलानि च ॥
उशीरं रजनीपत्रं पूतिकं कत्तृणानि च ।
पृथक् पञ्चपलानेतान् खण्डशश्छेदयेद् भिषक् ॥
जलद्रोणे विपक्तव्यमष्टभागावशेषितम् ।
मधुकं शतपुष्पां च सैन्धवं सर्षपान् गुडम् ॥
हपुषामजमोदां च मदनस्य फलानि च ।
वचामशोकबीजानि पिप्पलीकुष्ठम् एव च ॥
एतानि कल्कपेष्याणि भेषजानि पृथक् पृथक् ।
क्षीरतैलसमायुक्तो घृतमूत्रसमन्वितः ॥
खजेन मथितः पूतः स निरूहः प्रशस्यते ।
एकेन यदि वा द्वाभ्यां त्रिभिर् वातिप्रमाणतः ॥
किंचिन्न्यूनातिरिक्तं वा ज्ञात्वा व्याधिबलाबलम् ।
कुर्यात् , विंशतिवर्षाणां तत्र प्रस्थप्रमाणतः ॥
अथ द्वादशवर्षाणामर्धप्रस्थं प्रयोजयेत् ।
कषायकुडवं चात्र षड्वर्षाणां प्रयोजयेत् ॥
युक्तं लवणतैलभ्यां क्षीरेण मधुना तथा ।
कषायवस्तिं कुर्वीत स्वेहाद् द्विप्रसृतं भिषक् ॥
प्रसृतं मध्यमे कुर्यात् प्रसृतार्धं कनीयसि ।
नातिशीतं न वात्युष्णं कषायम् उपकल्पयेत् ॥
वायुः कुप्यति शीतत्वाद् अत्युष्णं तु गुदं दहेत् ।
अतिसान्द्रातिग्रथितो दोषेण स हि मूर्छति ॥
मदप्रवेगो भवति व्यापच्चास्योपजायते ।
अथवापि तनुर्यस्य कषायो योजितो भवेत् ॥
सो ऽ ल्पं हरति दोषं च न च संशोधयेद् गुदम् ।
परिकर्तं च शूलं च जनयेच् च प्रवाहिकाम् ॥
अत्यर्थमधुरो दत्तो विदग्धः स्तम्भवेद् अनाम् ।
ग्रहणीं रक्तमर्शांसि पाण्डुरोगं भगन्दरम् ॥
अतितीक्ष्णस् तु दुर्युक्तः क्षिप्रं प्रतिनिवर्तते ।
न निर्हरति दोषांश् च ज्वरं मूर्छां करोति च ॥
ज्वरितं दह्यमानं च मूर्छमानं च मानवम् ।
शीतैर्मधुरसंयुक्तैर्योजयेत्क्षीरवस्तिभिः ॥
यस्याथ लवणः कोष्ठे निरूहः पैत्तिकीं रुजाम् ।
जनयेत् तत्र पेष्यं स्यान्मधुरेण निरूहणम् ॥
निरूहो मधुरो यस्य श्लेष्माणं परिकोपयेत् ।
कटुकैश् च कषायैस् तं निरूहेद्यस्य मारुतः ॥
प्रकुप्येदधिकं तत्र मारुतघ्नं निरूहणम् ।
तस्माल्लवणयुक्तानि द्रव्याणि मधुराणि च ॥
भिषग्दद्यान्न शीतानि तथोष्णानि विवेचयेत् ।
पित्ते शीतो निरूहः स्यादुष्णस् तु कफवातयोः ॥
प्रश्लेष्मणि प्रवाते वा प्युष्णमास्थापनं भवेत् ।
मदनस्य फलं पिष्ट्वा तैलेनाच्छेन साधयेत् ॥
तन्निरूहे प्रणंसन्ति फलतैलं चिकित्सकाः ।
गोमूत्रयुक्तमेतत् तु फलतैलनिरूहणम् ॥
निरूहं लवणं कुर्याच् छ्रेष्ठमानाहभेदनम् ।
बिल्वैरण्डफलं वापि पचेद् द्विप्रस्थसम्मितम् ॥
अम्लं सलवणं साध्यमष्टभागावशेषितम् ।
कषाये तत्र पीलूनि कल्कपेष्याणि योजयेत् ॥
फलतैलयुतो वस्तिर्देय आनाहभेदनः ।
एष सर्वानुदावर्तान् शोफगुल्मान् भिनत्त्य् अपि ॥
अथैव वस्तिराध्मानमुदावर्तं विनाशयेत् ।
ओष्ठजिह्वं पृष्ठच्चूर्णं बृहतीं कण्टकारिकाम् ॥
चन्दनं पद्मकं चैव वृन्तं पुष्पं च शाल्मलेः ।
खण्डितानां यवानान्तु कुडवं तत्र योजयेत् ॥
तदैकध्यं पचेत् सर्वं जले चाष्टगुणे भिषक् ।
घृतेन मधुना चैव पिच्छां संयोज्य शक्तितः ॥
निर्वाहिकायां शंसन्ति पिच्छावस्तिम् इमं बुधाः ।
अतस् तु षोडशी चैव पले द्वे च पुनर्नवे ॥
कटाहके पञ्चमूलीं यवैः सह विपाचयेत् ।
उपोदकायाः क्षुण्णायाः स्वरसं च सुपीडितम् ॥
युक्तं तेन कषायेण घृतेन सह योजयेत् ।
माक्षिकेण च संयुक्तो वस्तिस् तु यवमूर्च्छितः ॥
पिच्छावस्तिर् इति ख्यातः शूले निर्वाहिकासु च ।
तरुणं शिंशुपापत्रं कर्बुदारस्य पल्लवम् ॥
क्षुण्णैस्सह यवैस्सिद्धैः संपिष्टो घृतसंयुतः ।
माक्षिकक्षीरसंयुक्तः स वस्तिर् यवमूर्च्छितः ॥
निर्वाहिकां वातशूलं क्षतक्षीणस्य नाशयेत् ।
एते निरूहा व्याख्याताः सर्वरोगविनाशनाः ।
व्याकुलेषु विकारैस् तु तान् भिषक् संप्रयोजयेत् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले सप्तमो ऽ ध्यायः ॥ ।
।अष्टमो ऽ ध्यायः ॥ अथातो दशव्यापदामास्थापनानुवासनसिद्धिं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0