भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 8.8

8.8.1

स्नेहवस्तिर्निरूहश् च द्विविधं याति विभ्रमम् ।
न युज्यते वा दुर्युक्तो युक्तो वाप्य् अतिपूर्यते ॥

8.8.2

तेषां विप्रतिपन्नानां वस्तीनां व्यापदो दश ।
तासां रूपं चिकित्सां च प्रवक्ष्याम्यनुपूर्वशः ॥

8.8.3

न माति वा गुदे युक्तो वातादिगदपीडिते ।
पुरीषेणावृते वापि स न गाढं प्रपीडितः ॥

8.8.4

अर्शसा प्रतिसंरुद्धः श्लेष्मणा पिहिते गुदे ।
गुरुयन्त्रयुतो वापि नेत्रे वा जीर्णसर्पिते ॥

8.8.5

न गच्छति गुदे वस्तिर्विभ्रान्तेषु च धातुषु ।
तम् अयोगम् इति ब्रूयादतियोगं निबोध मे ॥

8.8.6

वाताभिभूतपित्ते वा श्लेष्मणा वा ऽ हितशिनः ।
पुरीषेणाभिभूतश् च दूरं चातिप्रपीडितः ॥

8.8.7

न प्रत्यायात्यधो वस्तिर्भीतस्योन्मथितस्य वा ।
गुदवल्यां तृतीयायामर्शोभिर् वा निवारितः ॥

8.8.8

विरेचितस्य वान्तस्य मद्यशोकाकुलस्य च ।
न प्रत्यायात्य् अधो वस्तिरूर्ध्वं वातिप्रवर्तते ॥

8.8.9

तेषाम् उपद्रवा घोरा जायन्ते वस्तिविभ्रमात् ।
जीवादानं तृषाच्छर्दिः हृद्रोगः श्वयथुस् तथा ॥

8.8.10

शूलमर्शांसि पाण्डुत्वं श्वासो ऽ थ परिकर्तिका ।
एषां प्रत्येकशो रूपं चिकित्सां च निबोध मे ॥

8.8.11

गुरुकोष्ठस्य रूक्षस्य बहुदोषस्य देहिनः ।
अस्निग्धस्य गुरुव्याधेर्यदि वस्तिः प्रदीयते ॥

8.8.12

अत्यल्पो वाथ रूक्षो वा शीतवीर्यौषधस्तथा ।
लवणस्नेहरिक्तो वा तनुस्सान्द्रो ऽ थ वा भृशम् ॥

8.8.13

सम्बद्धबहुदोषस्य दोषान् उत्क्लेशयत्य् अपि ।
तत्रस्था यत्र सर्पन्ति दोषास्ते पीडिता भृशम् ॥

8.8.14

कटावस्थ्यूरुजङ्घे च पादपृष्ठोदरे तथा ।
प्रस्यन्दन्ते भवेच् चास्य सशूलमुदकोदरम् ॥

8.8.15

वस्तिशूलमुदावर्तो गुदशोषो ज्वरस् तथा ।
निष्ठीवकासहृल्लासा भक्तद्वेषो विवर्णता ॥

8.8.16

स्निग्धस्य तस्य स्विन्नस्य संकरप्रस्तरादिभिः ।
निरूहं कारयेत् तीक्ष्णममोघाप्रतिवारणम् ॥

8.8.17

बिल्वाग्निमन्थस्योनाककाश्मर्याश्च सपाटलाः ।
रास्ना बलागोक्षुरकयवकोलकुलुत्थकाः ॥

8.8.18

एतत् सर्वं समाहृत्य जलद्रोणे विपाचयेत् ।
चतुर्भागावशिष्टं तं कषायमवतारयेत् ॥

8.8.19

कल्केन सर्षपाणां च पीलूनां मदनस्य च ।
सयवासकषायं तु तत्तैललवणेन च ॥

8.8.20

मूत्राणि च यथालाभमथ सम्यङ् निरूपयेत् ।
यथा तृतिबला ।.. ।.. ।.. ।.. ॥

8.8.21

तत्र वादित्रशब्दांश् च श्रेयसश् च स्वनानपि ।
शान्तिं पुण्याहघोषांश् च कुर्याच् चापि प्रदक्षिणम् ॥

8.8.22

तं निधाय शुभे कुम्भे वस्तिं दद्यात् प्रमाणतः ।
देवप्रसादतो वस्तिरर्दितानां महागुणः ॥

8.8.23

सर्वरोगहरो वृष्यः क्षतक्षीणरुजापहः ।
वातपित्तसमुत्थाना रोगा ये परिकीर्तिताः ॥

8.8.24

कासदाहज्वराद्यांस्तान्नाशयेद् अविशङ्कितः ।
त्रिभागमाक्षिको ह्येष वलीपलितनाशनः ॥

8.8.25

रूपवर्णकरः पुंसां बलमांसविवर्धनः ।
शतावरीं सहचरं रास्नां गोक्षुरकं बलाम् ॥

8.8.26

शतं शतं कल्पयित्वा तोयद्रोणशते पचेत् ।
द्रोणावशेषितं तच् च परिपूतं निधापयेत् ॥

8.8.27

बर्हिकुक्कुटहंसानां मांसान्य् अपि पृथक् पृथक् ।
वसा माहिषवाराहमेषाणां प्रस्थसम्मितम् ॥

8.8.28

विदार्यामलकेक्षूणां रसप्रस्थाः पृथक् पृथक् ।
तत्र तैलघृतप्रस्थौ क्षीरमष्टगुणं भवेत् ॥

8.8.29

तद्गोमयाग्निना युक्त्या कल्केनानेन साधयेत् ।
तुगाक्षीर्यामलक्यौ च द्राक्षामधुकचन्दनैः ॥

8.8.30

मधूलिकापटोलाभ्यां पत्रं नीलोत्पलस्य च ।
विशालां च मृणालं च कपिकच्छुफलानि च ॥

8.8.31

खर्जूरौदनपाक्यौ च शीतपाकीं निदिग्धिकाम् ।
सलामज्जत्वचं पत्रं ह्वीबेरं समहासहम् ॥

8.8.32

जीवकर्षभकौ मेदां पिप्पलीश् चापि संहरेत् ।
तत्सिद्धं शीतलीकृत्य क्षौद्रप्रस्थे नियोजयेत् ॥

8.8.33

तत्र वादित्रशब्दांश् च कुर्यात् स्वस्त्ययनानि च ।
गजस्कन्धं समारोप्य श्वेतच्छत्रानुपालितम् ॥

8.8.34

चेलावृतं च कुर्वीत साधुशब्दांश् च सर्वशः ।
ततो ऽ स्मिन् दापयेद् वस्तिं पुण्ये ऽ हनि रसायनम् ॥

8.8.35

वस्तिनानेन दत्तेन गच्छेन्नारीशतं नरः ।
न वात्र यन्त्रणा काचिदुक्ता नारीविहारगा ॥

8.8.36

वृष्यो बलकरो वस्तिराप्त आयुर्विवर्धनः ।
वलीपलितखालित्य् अं सेवमानो नियच्छति ॥

8.8.37

षण्डांश् च पुरुषान् कुर्याल्लक्षणाढ्यान् गुणान्वितान् ।
क्षीणान् क्षतान्नष्टशुक्लान् विषमज्वरपीडितान् ॥

8.8.38

योनीनां व्यापदो वन्ध्यां वस्तिरेष नियच्छति ।
गुडूचीस्वरसप्रस्थं ग्राहयेद् यन्त्रपीडितम् ॥

8.8.39

शतावरीरसप्रस्थं तद्वत्सहचरस्य च ।
विदार्यामलकेक्षूणां द्राक्षाखर्जूरयोर् अपि ॥

8.8.40

पृथक् कुर्याद् रसप्रस्थं प्रस्थौ द्वौ तैलसर्पिषोः ।
आजमाहिषगव्यानि क्षीराणि द्विगुणानि च ॥

8.8.41

क्षुण्णपिष्टानि चेमानि पेषयित्वा विपाचयेत् ।
वधूटिकामुच्चटां च मधुकं पिप्पलीम् अपि ॥

8.8.42

शृङ्गाटकं पुष्करिकां काण्डं नीलोत्पलस्य च ।
जीवकर्षभकौ मेदां बलां नीलोत्पलानि च ॥

8.8.43

तुगाक्षीरीं महामेदां पुण्डरीकस्य केसरम् ।
वृषमेषचकोराणां हंसकुक्कुटयोर् इह ॥

8.8.44

जीवञ्जीवकमत्ताक्षकुररीक्रौञ्चबर्हिणाम् ।
वसा मज्जा च सत्त्वानां मेषमांसरसैस्सह ॥

8.8.45

त्रिभागं माक्षिकं चैव युञ्ज्यात् सम्यग्विपाचिते ।
शङ्खभेरीनिनादैश् च पटहैर् वा मुरीस्वनैः ॥

8.8.46

आरोपयेद् गजस्कन्धे श्वेतच्छत्रध्वजायुतम् ।
सिद्धानां परमं देवं महर्षिगणसेवितम् ॥

8.8.47

शरणं सर्वभूतानामर्चयेद् वृषभध्वजम् ।
आशीर्भिर् मङ्गलाशंसिस्तुतिभिर् देवतार्चनैः ॥

8.8.48

रसायनानि सिध्यन्ति विपरीतानि चान्यथा ।
तं स्नेहं गमयेद् वस्तिं रासायनिकम् उत्तमम् ॥

8.8.49

अथाहारविहारेषु न चैनं यन्त्रयेद् भिषक् ।
व्यापन्नयोनयो वन्ध्या रक्तगुल्मिन्य एव च ॥

8.8.50

या वा ऽ पत्यं मृतं सूते याश् च नष्टार्तवास् तथा ।
नष्टशुक्लक्षतक्षीणा विषमज्वरपीडिताः ॥

8.8.51

प्रक्षीणमांसरुधिरा वलीपलितपीडिताः ।
आशु प्रशमयेद् रोगान् तानायुर्मांसवर्धनम् ॥

8.8.52

रसायनम् इदं श्रेष्ठं नराणाममृतोपमम् ।
रसायनविधानानि प्रोक्तान्य् एतानि यानि च ॥

8.8.53

सहस्रशतपाकानि कार्याणि विभवे सति ।
मधुकं सैन्धवं कुष्ठं शतपुष्पा हरेणवः ॥

8.8.54

मदनानि च रास्ना च भार्ङ्गी, नीपरकज्वलम् ।
मरि ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ॥

8.8.55

मायूरं कौक्कुटं वापि वेशवारं सुकुट्टितम् ।
सहितं दशमूल्या तु जलद्रोणे विपाचयेत् ॥

8.8.56

रसस्य तस्य पूतस्य प्रस्थार्धं च प्रदापयेत् ।
वसातैलघृतानां तु मधुनः प्रसृतद्वयम् ॥

8.8.57

हपुषाशतपुष्पाणां मुस्तानां चापि कार्षिकम् ।
कल्कपेष्यं पुनर्दद्याद्वस्तिं सलवणं सुखम् ॥

8.8.58

पादगुल्फोरुजङ्घासु त्रिकवङ्क्षणबस्तिषु ।
शिश्ने वृषणयोश् चैव वातरोगं नियच्छति ॥

8.8.59

मृगाणां तित्तिराणां च तथैव बिलवासिनाम् ।
आनूपानां खगानां च कल्पमेवं प्रयोजयेत् ॥

8.8.60

तुल्यं मधु च तैलं च तस्माद् उष्णोदकं समम् ।
द्वौ कर्षौ शतपुष्पाणां कर्षश् च लवणोत्तमः ॥

8.8.61

एष रासायनो वस्तिर्दीपनीयो ऽ थ बृंहणः ।
बलवर्णकरो वृष्यो यापनो निरुपद्रवः ॥

8.8.62

गुल्मोदवर्तिताध्मानप्रमेहकृमिकोष्ठिनाम् ।
नित्यं गाढपुरीषाणां वस्तिरेष हितः स्मृतः ॥

8.8.63

घृतं मधु च तैलं च तेषां मानं समं भवेत् ।
पूर्वकल्केन देयानि स वस्तिर्बलवर्णकृत् ॥

8.8.64

वस्तौ मेढ्रगते दोषे वस्त्यसात्म्यचिकित्सिते ।
पैत्तिके मूत्रकृच्छ्रे च पित्तव्याधिषु चोत्तमः ॥

8.8.65

तुल्यं घृतमथ क्षौद्रं तयोर् मांसरसस्समः ।
अक्षमात्रं च मुस्तानां स वस्तिः पूर्वकल्पवत् ॥

8.8.66

गुल्फोरुजानुपृष्ठेषु सर्वतः स्तम्भितेषु च ।
बलासपादहर्षेषु वस्तिः प्रशमनः स्मृतः ॥

8.8.67

वस्तौ वृषणमेढ्रेषु शूलमाशु नियच्छति ।
त्रिकजानूरुपृष्ठादिवेदनां चापकर्षति ॥

8.8.68

मृदुत्वान्न निवतन्ते क्षुभ्यन्ते वस्तयश् च वा ।
तीक्ष्णैरास्थापनं कार्यं क्षिप्रं प्रतिनिवर्तयेत् ॥

8.8.69

मृदुत्वाद् यापनानां तु केचिद्विभ्रमभीरवः ।
दीपनानां कषायेण योजयन्ति चिकित्सकाः ॥

8.8.70

एवमन्येषु विभ्रान्तौ सनिरूहेषु वा पुनः ।
वस्तयः कल्पदृष्टा हि यथा काले सुखावहाः ॥

8.8.71

क्षीणातिरिक्ता दूष्यन्ते तस्माद् योगं समाहरेत् ।
नित्यं नारीविहाराणां क्षीणानामल्परेतसाम् ॥

8.8.72

एवम् एव विधानं च रेतोबलविवर्धनम् ।
स्वेच्छाविहारान् वक्ष्यामि वस्तीन् शुक्लविवर्धनान् ॥

8.8.73

रसः कर्कटकानां तु शर्करामस्तुसंयुतः ।
घृतसौबर्चलयुतो वस्तिर्वृष्यतमः स्मृतः ॥

8.8.74

हंससारसलावानां तित्तिरिक्रौञ्चबर्हिणाम् ।
कल्पेनानेन कर्तव्या वाजीकरणवस्तयः ॥

8.8.75

पयः कुक्कुटमांसेन विपक्वं मधुसंयुतम् ।
चटकाण्डरसश् चैव कुक्कुटाण्डरसस्तथा ॥

8.8.76

घृतमाक्षिकसंयुक्तः शर्करासैन्धवैर्युतः ।
एष वस्तिः स्मृतो वृष्यः मांसशुक्लविवर्धनः ॥

8.8.77

यतश् शतं वा षष्टिं वा नारीर् गच्छति मानवः ।
एष वर्णबलोत्साहः स्थविरे ऽ पि प्रदृश्यते ॥

8.8.78

तिमिङ्गिले वा मकरे पाठीने नक्रमीनयोः ।
दुग्धं कूर्मे अथकुम्भीरे कल्पयेच्छिशुमारवत् ॥

8.8.79

वाराहबस्तवृषणौ वृषणौ गोवृषस्य च ।
चटकर्कटकांश् चैव क्षीरेण सह साधयेत् ॥

8.8.80

तन्निरूहं तु शुक्रेण बस्तानामथ मिश्रयेत् ।
उच्चटेक्षुरकं चात्र कल्कपेष्यं समावपेत् ॥

8.8.81

घृतमाक्षिकसंयुक्तं प्रणीतः शर्करायुतः ।
किंचिल्लवणितो वस्तिर् गमयेत् स्त्रीशतान्य् अपि ॥

8.8.82

एष नारीविहाराणां बह्वन्तः पुरवासिनाम् ।
रेतोबलकरः श्रेष्ठः क्रीडावस्तिरनुत्तमः ॥

8.8.83

आत्मगुप्ताफलैः क्षीरम् उच्चटेक्षुरकैः शृतम् ।
भोजने वानुपाने वा वृष्यार्थं सम्प्रयोजयेत् ॥

8.8.84

रसायना वस्तयस् तु ये मया पूर्वदर्शिताः ।
तान् एतैर् मांसनिर्यूहैर् योजयेत् कल्पकल्पितान् ॥

8.8.85

बभ्रुसूकरखड्गाश् च छागगोमहिषास् तथा ।
क्रौञ्चकारण्डवाः क्रौञ्चचक्रवाकबकास्तथा ॥

8.8.86

निरूहमेषां संहृत्य लाभतस्साधु योजयेत् ।
क्षीरं पनसबीजानि कपिकच्छूफलानि च ॥

8.8.87

उच्चटेक्षुरबीजानि मधुकं तालमस्तकम् ।
पिप्पल्यश्शारिबा द्राक्षा खर्जूरो मदनान्य् अपि ॥

8.8.88

जीवकर्षभकौ मेदा बीजं नीलोत्पलस्य च ।
गर्भेणानेन संसिद्धं चटकाण्डरसायुतम् ॥ भ्ष्8.8. ।
शर्करामधुसंयुक्तं ।.. ।.. ।.. ।.. ।.. ॥
-------------------------------------------------------------------------

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc