भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 8.6

8.6.1

उपकल्पमतो वस्तेर्नेत्रं स्नेहं च सर्वशः ।
तेषां प्रयोगयुक्तिं च क्रियां कर्म च मे शृणु ॥

8.6.2

बालानामथ वृद्धानां युवमध्यमयोस्तथा ।
स्वस्थानामातुराणां च वस्तिकर्म प्रशस्यते ॥

8.6.3

सौवर्णं राजतं ताम्रं कांस्यं त्रपुजमायसम् ।
शृङ्गवंशास्थिवंशाग्राण्याहुर्नेत्राणि पण्डिताः ॥

8.6.4

यथाक्रममथैतानि प्रधानानीतराणि च ।
उत्तमाधममध्येषु मनुष्येषु प्रयोजयेत् ॥

8.6.5

गुलिकास्यं तु नेत्रं स्यादनूनद्वादशाङ्गुलम् ।
अङ्गुले कर्णिकावासः तां च न क्रमयेद् गुदे ॥

8.6.6

तत्र गोपुच्छसंस्थानं सुश्लक्ष्णं सुखकर्णिकम् ।
प्रदेशिनीपरीणाहं दानं तेन प्रशस्यते ॥

8.6.7

तत्र मात्राशतं स्थित्वा स्वेनैव विनिवर्तते ।
यद्यकाले नवस्नेहो मद्यमांसप्रकल्पितः ॥

8.6.8

न्यूनकालनिवृत्तश्च शीघ्रत्वान्न निरूहति ।
ततस् तु मध्यमः किञ्चिन्निवर्तेत शतैस्त्रिभिः ॥

8.6.9

एवं कालगतिक्रान्तो यो वस्तिर्न निवर्तते ।
तीक्ष्णेनास्थापनेनैवं क्षिप्रं प्रतिनिवर्तते ॥

8.6.10

तस्मात् तीक्ष्णतरं वस्तिं पूर्वमेवोपकल्पयेत् ।
प्राणसंधारणे ह्युच्चैर्विबन्धो न प्रशस्यते ॥

8.6.11

तस्मात् कालं च यो व्याधिं निरूहाणां बलाबलम् ।
पूर्णरूपं च यो वेत्ति स मोहं न निगच्छति ॥

8.6.12

न तथा ह्य् अन्यतो हन्यान्नाशनिर्न हुताशनः ।
दुष्प्रयुक्तो यथा वस्तिः प्राणैस्सद्यो वियोजयेत् ॥

8.6.13

शस्तः प्राणिहितो वस्तिस्सद्यो रोगहरस् तथा ।
सम्यङ् निवृत्तो, रोगौघैर्ह्यनिवृत्तस् तु प्राणहा ॥

8.6.14

स निवृत्तस् तु वेगेन दोषान् गम्भीरमास्थितान् ।
उन्मार्गस्थान्नयेन्मार्गं मार्गस्थांश् चानुलोमयेत् ॥

8.6.15

वस्तिवेगो ऽ निलं हन्ति पर्जन्यं च यथानिलः ।
कफपित्तविकाराहि सर्वे वातवशानुगाः ॥

8.6.16

अशीतिर्वातिका रोगाश्चत्वारिंशत् तु पित्तजाः ।
विंशतिः श्लैष्मिकाश् चापि संसृष्टानामसंग्रहात् ॥

8.6.17

सर्वेषाम् एव चैतेषां रोगाणां संग्रहैस्सदा ।
अर्दितानां हि भूतानां वस्तिरग्र्यं परायणम् ॥

8.6.18

अनिलप्रभवा ह्येते सर्वे वस्तिवशानुगाः ।
तस्माद् अर्धं चिकित्सायाः सर्वं वा वस्तिर् उच्यते ॥

8.6.19

यस् तु वस्तिं निषेवेत चातुर्मास्यं सदा नरः ।
रोगास्संवर्जयेयुस्तं सिंहावासं यथा गजाः ॥

8.6.20

एते गुणविशेषाश् च व्याख्याता वस्तिकर्मणि ।
निरूहस्यास्य सामर्थ्यम् उपचारं च मे शृणु ॥

8.6.21

स्विन्ने पर्युषिते जीर्णे त्वत्यन्तं च निरूहयेत् ।
सो ऽ स्य मूत्रं पुरीषं च श्लेष्माणं चापकर्षति ॥

8.6.22

वातानुलोम्यं कुरुते बलं सञ्जनयत्य् अपि ।
विषस्थिरं दोषबलं यच् च नाडीषु संस्थितम् ॥

8.6.23

विशोधयति तत् सर्वं निरूहः स प्रयोजितः ।
रोगानीकस्य सर्वस्य परो नास्ति हि तत्समः ॥

8.6.24

व्याकुलानां च केशानां सीमन्तकरणं यथा ।
तथा भृशं व्याकुलानां दोषाणां स्यान्निरूहतः ॥

8.6.25

निरूहो हि समायुक्तस्सम्यग्वीर्यस्समैर्गुणैः ।
व्याधीनथोद्धरेत्क्षिप्रं पुण्यं युक्तं नरं यथा ॥

8.6.26

कृच्छ्रमूत्रपुरीषाणां शूलिनां वातगुल्मिनाम् ।
विरेचनाद्युदावर्ते हृद्रोगे पार्श्वशूलिनि ॥

8.6.27

उदरेषु प्रमेहेषु कुष्ठेषु कृमिकोष्ठिषु ।
श्लेष्मणा सह संसृष्टे शोणितेन च दूषिते ॥

8.6.28

संसृष्टेषु च सर्वेषु सन्निपातोद्भवेषु च ।
गम्भीरा धातुगा ये च तेषां श्रेष्ठं निरूहणम् ॥

8.6.29

यदा कफं विरिच्येत शङ्खस्फटिकसन्निभम् ।
ऋते मूत्रपुरीषाभ्यां तन्निरूहस्य लक्षणम् ॥

8.6.30

सुशोधितं निरूहेण नातिपर्युषितं तथा ।
सुखोषितं समाश्वस्तं भोजितं चानुवासयेत् ॥

8.6.31

एकतो वस्तिकर्माणि ह्येकतो ऽ न्यच्चिकित्सितम् ।
अमृतार्थं वस्तिकर्म कुरुते सुप्रयोजितम् ॥

8.6.32

शुक्लं बह्ववरोधस्य न क्षयं याति देहिनः ।
स्त्रीषु प्रधर्षणं कुर्यान्नराणां क्षीणरेतसाम् ॥

8.6.33

वस्तिप्रयोगात् षण्डो ऽ पि पुमान् भवति सर्वशः ।
कृशानाम् अपि मर्त्यानां मांससंजननं स्मृतम् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले सिद्धिस्थाने षष्ठो ऽ ध्यायः ॥ ॥ सप्तमो ऽ ध्यायः ।
।
अथातः फलमात्रासिद्धिं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc