भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 8.5

8.5.1

संसृष्टभक्ते शंसन्ति वस्तिकर्म चिकित्सकाः ।
विरिक्तेष्व् अपरे वैद्या निरूढे त्वपरे जनाः ॥

8.5.2

त्रीण्येतान्यवराण्याहुः न शंसन्ति विशारदाः ।
मतं तेषामहं सम्यग् व्याहनिष्यामि हेतुभिः ॥

8.5.3

सततन्तु विरिक्तस्य शीतीभवति पावकः ।
हृदाश्रयाणि स्रोतांसि गुदकोष्ठाश्रयाणि च ॥

8.5.4

प्रवृद्धो मारुतस्तस्य पक्वाधानं प्रधवति ।
शीतीकरोति कायाग्निं बलं चास्यापकर्षति ॥

8.5.5

स्रोतस्सु शुद्धाशुद्धेषु यदि वस्तिः प्रदीयते ।
स गम्भीरो गतः काये सर्वशो न निवर्तते ॥

8.5.6

छर्दिं पिपासां हृद्रोगं पाण्डुत्वं श्वयथुं तथा ।
जनयेद् इह तस्माद् धि विरिक्तं नानुवासयेत् ॥

8.5.7

संसृष्टभक्तस्य पुनः जातदोषस्य देहिनः ।
स्रोतस्सु मललिप्तेषु भवेत्स्नेहो निरर्थकः ॥

8.5.8

तीक्ष्णेतरनिरूहेण निरूढस्य शरीरिणः ।
समुत्क्लिष्टेषु दोषेषु स्नेहवस्तिर्न शस्यते ॥

8.5.9

केचिच् चापि शरीरस्य रात्रिपर्युषितस्य च ।
प्रशान्ता दोषसंज्ञानः प्रशंसन्त्यनुवासनम् ॥

8.5.10

वस्तिकर्मविधानं तु शृणु मे निरुपद्रवम् ।
स्नेहितस्य यथान्यायं विरिक्तस्य च कल्पशः ॥

8.5.11

संसृष्टभक्तस्य तथा पुनश् च स्नेहितस्य च ।
पञ्चरात्रात्परं तस्य कारयेद् अनुवासनम् ॥

8.5.12

नोपर्यस्निग्धकोष्ठस्य कर्तव्यमनुवासनम् ।
वातो ह्यूरीकृतस् तस्य हृदये परितिष्ठति ॥

8.5.13

उचिताद्भक्तमानादप्यर्धमात्रं तु भोजयेत् ।
तनुना मुद्गयूषेण जाङ्गलेन रसेन वा ॥

8.5.14

भुक्त्वा कृतसमाश्वासः शकृन्मूत्रे विसृज्य च ।
सव्येन पार्श्वेन नरः संविशेच्छयने समे ॥

8.5.15

संकोचयेद् दक्षिणं च सक्थि वामं प्रसारयेत् ।
वामोपधानं कुर्वीत शिरस्युपहितं नरः ॥

8.5.16

अथास्य प्रणयेद् वस्तिं पृष्ठवंशानुगं सुखम् ।
यथाकर्मबलं चैव न द्रुतं न विलम्बितम् ॥

8.5.17

निर्व्यलीको मृदुर्वस्तिर्व्यपनीतानिलस्तथा ।
गाढानिलानुबन्धो ऽ स्याप्रशस्तो वस्तिकर्मणि ॥

8.5.18

नेत्रं वस्तिमुखे धृत्वा सम्यगेकेन पाणिना ।
प्रपीडयेच्चापरेण हस्तौ चापि न कम्पयेत् ॥

8.5.19

पूर्वं च गुदमभ्यज्य यन्त्रं हस्तौ च मानवः ।
प्रवर्तयेद् अथोत्तानं पादौ वास्य प्रसारयेत् ॥

8.5.20

मुहूर्तान्न निगृह्णीयाद्दत्ते वस्तौ यथासुखम् ।
ततः परमतो वेगानागतान्न विधारयेत् ॥

8.5.21

अविबन्धस्सवातश्च सपुरीषस्स सिध्यति ।
दत्तमात्रे पुनर्यस्य तैलवस्तिर्निवर्तते ॥

8.5.22

न स कर्यकरः प्रोक्तस्तस्यान्यं प्रणिधापयेत् ।
तृषितस्स तथा रात्रिं काल्यमुष्णोदकं पिबेत् ॥

8.5.23

एकान्तरे च दातव्यो बस्तिर्न सततं नृणाम् ।
अभ्यङ्गोन्मर्दनं चैव कोष्णतोयावसेचनम् ॥

8.5.24

उष्णोदकानुपानं च वस्तिकर्मणि शस्यते ।
चतुर्षु त्रिषु वा वैद्यो यावद्वा स्निग्धता पुनः ॥

8.5.25

स्नेहवस्तिषु दत्तेषु कुर्याद् आस्थापनं ततः ।
आर्द्रीकृतेषु स्रोतस्सु स्नेहेन विहितेन च ॥

8.5.26

शुद्धये स्रोतसां दद्यान्निरूहान्युक्तितः सुखम् ।
अशुद्धे मलिने कोष्ठे स्नेहवस्तिः प्रयोजितः ॥

8.5.27

प्रदर्शयति वैशिष्यं शुक्ले पर्वव्ययीकृतम् । विरेचनोपचारश्च कर्तव्यो वस्तिकर्मणि ॥

8.5.28

यवागूप्रतिपानं च बस्तिकर्मणि वर्जयेत् ।
चतुर्विंशतिसङ्ख्याताः निरूहास्सानुवासनाः ॥

8.5.29

एतत्कर्मेति निर्दिष्टमूर्ध्ववाते प्रदापयेत् ।
मृदुमध्यमतीक्ष्णेषु रोगेषु कुशलो भिषक् ॥

8.5.30

मृदुमध्यमतीक्ष्णं च वस्तिकर्म च कारयेत् ।
ग्राम्यानूपौदकं मांसं पिष्टान्नं पललं दधि ॥

8.5.31

अम्लशाकविकारांश् च भक्ष्याणि विविधानि च ।
शीतोदकस्य पानं च तथा शीतावगाहनम् ॥

8.5.32

गुरूणि चान्नपानानि वस्तिकर्मणि वर्जयेत् ।
शालिषष्टिकमुद्गांश् च भोजनार्थं प्रदापयेत् ॥

8.5.33

व्यञ्जनार्थं प्रदेयाः स्युः शशतित्तिरिलावुकाः ।
ज्ञानवान्सुमिताहारो वैद्यशुश्रूषुरेव च ।
यश् च वस्तिमुपासीत स जीवेच्छरदां शतम् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले सिद्धिस्थाने पञ्चमो ऽ ध्यायः ॥ ॥ षष्टो ऽ ध्यायः ॥ अथात उपकल्पसिद्धिं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc