भेलसंहिता · अध्याय 8.4
अधोभागोर्ध्वभागानि भेषजानि प्रयत्नतः ।
कल्पयेन्मतिमान्वैद्यो विषशस्त्रनिभानि तु ॥
कटुतिक्तकषायाणि विदाहीनीतराणि च ।
सूक्ष्माण्युष्णानि तीक्ष्णानि विष्यन्दीनि गुरूणि च ॥
तानि सम्प्राप्य हृदयं धमनीः प्रतिपद्य हि ।
तिर्यगूर्ध्वमधश् चैव दोषान्निष्यन्दयन्त्यपि ॥
सूक्ष्माञ्छरीरावयवान् सौक्ष्म्यादनुसरिन्ति च ।
विस्रावयन्ति धातूंश् च विमार्गौरपि देहिनाम् ॥
आनयन्तीव हृदयं दोषांस्तानतिमूर्च्छितान् ।
आमाशयं पूरियित्वाह्यूर्ध्वभागभवांस् तथा ॥
एवम् एव च बिष्यन्दीन्यापूर्यामाशयं पुनः ।
अधोभागे प्रवर्तन्ते विकारेष्व् इह देहिनाम् ॥
विष्यन्दयन्ति दोषांश् च यावत्तिष्ठन्ति देहिनाम् ।
संशोधयन्त्यतः पश्चादूर्ध्वं वा यदि वाप्य् अधः ॥
तेषां तु दुष्प्रयुक्तानां विभ्रान्तानां विधावताम् ।
अयोगाच्चातियोगाच्च जायन्ते व्यापदो दश ॥
परिस्रावस्तथाध्मानं विबन्धो गुदनिःस्रवः ।
हृद्रोगश् चैव शूलं च तथैव परिकर्तिका ॥
जीवादानं शिरोरोगो दशमी च प्रवाहिका ।
तासामेकैकतस्सिद्धिं व्यापदां तु निबोध मे ॥
अथैति पीतं वमनं तच् च तीक्ष्णतरं पिबेत् ।
अनुपानान्न सिद्धिश् च संशोध्यास्थापयेन्नरम् ॥
असिध्यति विरेके ऽ पि भूयस्तमनुवासयेत् ।
अस्मिन्नपि जरां याति त्र्यहादूर्ध्वं पिबेद् घृतम् ॥
स्नेहस्वेदोपपन्नश् च लघु च प्रतिभोजितः ।
विरेचनं च वमनं नरस्तीक्ष्णतरं पिबेत् ॥
यदा विरेचनं पीतं वमनायोपपद्यते । प्रयोग एवं वमने विरेके ऽ पि च यः स्मृतः ॥
स्नेहस्वेदविमुक्तं च क्रूरकोष्ठं च देहिनम् ।
अजीर्णे चौषधं पीतमाध्यापयति मानवम् ॥
लङ्घितस्य सुभक्तस्य रूक्षस्यानशनस्य च ।
परिकर्तः परिस्रावः प्रलेपो ऽ स्वेदितस्य च ॥
स्नेहस्वेदविमुक्तस्य मृदुकोष्ठस्य देहिनः ।
दोषास्तथावशिष्टास् तु जनयन्ति प्रवाहिकाम् ॥
अतिरौक्ष्यादतिस्वेहादौषधानां च सम्भ्रमात् ।
नृणां शूलं प्रभवति गुदस्रंसश् च दारुणः ॥
वमने रेचने वापि पीते वेगविधारिते ।
वातपित्तकफाः क्रुद्धाः कुर्वन्ति हृदयग्रहम् ॥
तस्य गात्राणि सीदन्ति क्लमः शूलश् च दारुणः ।
शिरोग्रहश् च कोष्ठार्तिर्विसंज्ञश् च भवत्य् अपि ॥
स्विन्नस्य मृदुकोष्ठस्य स्नेहितस्य विरेचनम् ।
अतिमात्रौषधं पीतं जीवादानाय कल्पते ॥
सृजेच्छुक्लं स शकृता कृष्णं वा रक्तम् एव वा ।
लोध्रपुष्पसवर्णं वा भण्डिपुष्पनिभं तथा ॥
प्रविरिक्तो यदा शीतां क्रियां समुपसेवते ।
शरणानि च शीतानि वारि शीतं च सेवते ॥
स्रोतांसि कुपितो वायुस् तस्य चावृत्य तिष्ठति ।
खरीभवति तेनास्य दोषाः स्कन्दन्ति देहिनः ॥
वातमूत्रपुरीषाणामप्रवृत्तिस्तृषा ज्वरः ।
विबन्ध एष व्याख्यातो भिषजां बुद्धिविभ्रमात् ॥
अस्निग्धं तु यदा रूक्षमौषधं पाययेद् भिषक् ।
गृह्णाति कुपितस् तस्य सर्वगात्राणि मारुतः ॥
कटिपृष्ठशिरोग्रीवाहृदयं च यदानिलः ।
प्रपद्यते तदा मोहं चित्तनाशं च गच्छति ॥
दशैता व्यापदः प्रोक्ता रूपैर्नानाविधैः पृथक् ।
चिकित्सां तासु कुर्वीत यथात्रेयस्य शासनम् ॥
तत्रायोगिनमभ्यज्य तैलेन लवणेन च ।
सङ्करप्रस्तरस्वेदैर्नाडीस्वेदैरथपि वा ॥
सम्यङ् निरूढं विश्रान्तं परिषिच्य सुखाम्बुना ।
जाङ्गलेन रसेनैव भोजयेन्मृदुमोदनम् ॥
फलतैलेन कोष्णेन ततस्तमनुवासयेत् ।
आध्मानं परिकर्तश्च परिस्रावश् च शाम्यति ॥
सालो रुबूकस्त्रिफला दन्ती चित्रक एव च ।
सर्पिरेभिर् विपक्वं च पाययेच् च यथाबलम् ॥
तत्स्नेहपीतं सुस्निग्धं स्वेदकर्मोपपादितम् ।
वमनं रेचनं वापि पाययेत् तीक्ष्णमौषधम् ॥
हृद्रोगो गात्रहर्षश् च शीर्षस्कन्धग्रहस् तथा ।
विबन्धः परिकर्तश्च शूलश् चानेन शाम्यति ॥
परिकर्तः परिस्रावो यथातत्त्वेन शाम्यति ।
कषायवस्तिं प्रणयेत्पिच्छावस्तिमथापि वा ॥
शृतं मधु घृतं वापि क्षीरवस्तिं प्रदापयेत् ।
जीवनीयोपसिद्धेन सर्पिषा चानुवासयेत् ॥
एरण्डमूलं त्रिफला द्राक्षा काश्मर्यमेव च ।
एभिः शृतं पयो दद्याद्विविधैर् अपि मिश्रयेत् ॥
यावशूको भवेत्क्षारः सैन्धवं साम्लवेतसम् ।
हिङ्गु दाडिमसारश् च पिप्पल्यो विश्वभेषजम् ॥
सर्पिषा पयसा वापि मद्येनोष्णोदकेन वा ।
पीतं निवर्तयेच्छूलं तीव्रं च परिकर्तिकाम् ॥
देवदारु सबिल्वं च रास्ना कर्कटकाह्वया ।
एरण्डो ऽ प्यथ पूतिश्च तैलमेभिर् विपाचयेत् ॥
तेनानुवासयेच्चैनं तदा सम्पद्यते सुखम् ।
गात्रस्तम्भश् च शूलश् च परिकर्तश् च शाम्यति ॥
उपद्रवाणाम् एतेषां शान्तिर् यदि न विद्यते ।
तेषां चिकित्सितं कुर्याद् यथास्वं स्वं चिकित्सितम् ॥
एवं चिकित्सितं प्रोक्तम् अयोगे विस्तरेण मे ।
अतियोगे तु वक्ष्यामि व्यापदां यच् चिकित्सितम् ॥
अतिप्रवृत्तौ वमने विरेचनम् उपाचरेत् ।
विरेचने चातियुक्ते वमनं पाययेद् भिषक् ॥
वमने चातियुक्ते तु कार्यम् आस्थापनं भवेत् ।
उभयोर् अतियोगे तु स्तम्भनं हितमुच्यते ॥
उल्लिखेत्क्षौद्रयुक्तेन स नरस्तण्डुलाम्बुना ।
पादौ च सेचयेद् धस्तौ तथा वाप्य् अवगाहयेत् ॥
लामज्जकमृणालैश् च चन्दनैश् च सपद्मकैः ।
सन्दिह्यात् सर्वगात्राणि कषायैश् चावसेचयेत् ॥
धातकी मधुकं लोध्रं पद्मं मोचरसस् तथा ।
नीलोत्पलं समङ्गा च कट्फलं पद्मकेसरम् ॥
एतैर्लोहितशालीनां सिद्धां पेयां सुशीतलाम् ।
पिबेन्माक्षिकसंयुक्तं तदस्य स्थापनं परम् ॥
लाक्षा लोध्रस्समङ्गा च माक्षिकं कमलोत्पलम् ।
आजेन पयसा पीतं रक्तस्तम्भनमुच्यते ॥
रसं कपित्थपत्रस्य पाययेन्मधुसंयुतम् ।
पयसा बादरं द्राक्षां मधुना च पिबेन् नरः ॥
रसाश् च जाङ्गला देया व्यक्ता दाडिमसारकैः ।
घृतदाडिमसंयुक्ता देयाः स्युः क्षीरवस्तयः ॥
अतिप्रवृत्ते रक्ते तु रक्तम् एवानुवासयेत् ।
शाशं मार्गमथौरभ्रं छागं माहिषम् एव वा ॥
ओदनं पयसाआमृद्य परिपूतं समाक्षिकम् ।
पिबेद् इक्षुरसैर् वापि परिमर्द्यौदनं पुनः ॥
न्यग्रोधोदुम्बरप्लक्षवेतसाश्वत्थजैस् तथा ।
शृङ्गैरथैषां क्षीरेण यवागूः स्थापनं परम् ॥
पद्मं शाल्मलिनिर्यासः समङ्गा धातकी तथा ।
जम्ब्वाम्रसारो मधुकः लाजा लाक्षा प्रियङ्गवः ॥
एतैः शृतं पयः पेयं यवागूं चापि पाययेत् ।
तण्डुलोदकयुक्तानि पिबेद्वा मधुना सह ॥
ओदनः कोरदूषाणां मधुना सस्यसंभृतः ।
पलङ्कषासमायुक्तश् चातिसारं निवर्तयेत् ॥
संयुक्तं तिलतैलेन सप्तरात्रस्थितं दधि ।
कोरदूषौदनोपेतमतिसारप्रणाशनम् ॥
सप्तरात्रं स्थिते तक्रे मूलकं साधयेद् भिषक् ।
कोरदूषौदनो योज्यः तेनातीसारनाशनः ॥
वटाङ्कुरो मोचरसो लोध्रमाम्रास्थिकन्दकः ।
तरुणानि च बिल्वानि धातकीकुसुमानि च ॥
पञ्चरात्रस्थिते तक्रे यूषमेभिस् तु कारयेत् ।
कोरदूषौदनो योज्यः तथातीसारनाशनः ॥
नीलोत्पलं नीलतिलाः समङ्गा लोध्रम् एव च ।
क्षीरं विपाचयेद् एभिर् अतीसारविनाशनम् ॥
तिलतैलं तथा लोध्रमाजं क्षीरं विपाचयेत् ।
प्रवाहिका गुदभ्रंशः सर्वमेतेन शाम्यति ॥
बला चातिबला बिल्वमेरण्डश्चोरकस् तथा ।
एभिर् विपाचयेत् क्षीरं कफपित्तप्रणाशनम् ॥
हनुस्तम्भे च पातव्यमर्शःशूले च दारुणे ।
अनेनैव च कल्केन कुर्याद् आच्छादितं शिरः ॥
तेन मूर्च्छा भ्रमश् चैव प्रशाम्यति शरीरिणाम् ।
उपद्रवाश् च ये ऽ प्यन्ये तेषां तत्तच्चिकित्सितम् ॥
शर्करापद्मकोशीरन्यग्रोधोदुम्बरास्तथा ।
एभिर् विपाचयेत् क्षीरं तृष्णादाहप्रणाशनम् ॥
क्षीरवस्तिं विदद्याच् च पिच्छावस्तिमथापि वा ।
अतियोगे प्रशस्यन्ते शीताश् च घृतवस्तयः ॥
जीवादानचिकित्सायां यत्पूर्वं परिकीर्तितम् ।
तत्कर्तव्यं गुदभ्रंशे तथा सम्पद्यते सुखम् ॥
वातशूले तु सञ्जाते सङ्करप्रस्तरादिकान् ।
स्वेदांश्चैवोपदेहांश्च स्वभ्यक्तानां प्रयोजयेत् ॥
वचां श्वदंष्ट्रां पूतीकां पञ्चमूलीं च साधिताम् ।
यदि वाआस्थापनं दद्यात् सुखोष्णं चानुवासनम् ॥
क्षारैः क्षारघृतैश् चापि शूलघ्नैस्समुपाचरेत् ।
दाधिकं षट्पलं वापि पाययेन्मात्रया घृतम् ॥
एवम् एव विबन्धे ऽ पि विधिं कुर्याच् चिकित्सकः ।
याश् च व्यापत्तयः पश्चाद्वमने च विरेचने ॥
ताश्चिकित्सेत मतिमान् यथा स्वे स्वे चिकित्सिते ।
ग्राम्यान् पौदकं मांसं स्नेहितो यो ऽ पि सेवते ॥
कफे प्रवृद्धे तस्याशु विरेको वमनं भवेत् ।
अजीर्णे चौषधं पीतमल्पं वा यदि वा बहु ॥
उत्क्लेशे चोर्ध्ववाते च दुर्युक्ते वापि भेषजे ।
एवं विरेचनं पीतं वमनायोपपद्यते ॥
कर्शिते रूक्षिते वापि सुकुमारे सुदारुणे ।
असंजातकफस्यैव न च स्निग्धस्य देहिनः ॥
छर्दनं वा स्थितं क्षुब्धं विरेकायोपपादयेत् ।
तत्रानुपानमेवाहुः केचित्केचित्त्वसाम्प्रतम् ॥
भेषजं ह्य् अतिमात्रं तु जीवादानाय कल्पते ।
ऊर्ध्वं दशाहात्परतः स्नेहस्वेदोपपादितम् ॥
पाययेत् तीक्ष्णमेवैतं भेषजं कल्पकल्पितम् ।
सिद्धिर्विरेचनस्यैषा वमनस्य च कीर्तिता ।
व्यापदश् च चिकित्सा या यथावदनुपूर्वशः ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले सिद्धिस्थाने चतुर्थो ऽ ध्यायः ॥ ॥ पञ्चमो ऽ ध्यायः ॥ अथातो वस्तिमात्रीयां सिद्धिं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0