भेलसंहिता · अध्याय 8.2
अवपीडानुवासाश् च धूमाः प्रधमनानि च ।
चतुर्विधं नस्यम् आहुः पृथक्त्वेन तु मे शृणु ॥ 8।
गलग्रहो रोहिणिका शङ्खको ऽ र्धावभेदकः ।
प्रतिश्यायश् च कासश् च श्वासो हिक्का बिडालिका ॥
मुखरोगो ह्य् अपस्मारो दन्ततालुकविद्रधी ।
दन्तपुप्पुटकश् चैव पूतिनासामुखं तथा ॥
अभिष्यन्दाश् च चत्वारस्तन्द्रा ये नेत्रसंभवाः ।
सार्बुदाश् चाप्य् अधीमन्थाः नासार्शश् च भगन्दराः ॥
उपजिह्वा गलग्रन्थिः कण्ठशालूक एव च ।
गलशुण्ठिकालसके कार्यं शीर्षविरेचनम् ॥
मरिचानि विलङ्गानि पिप्पल्यो ऽ थ फणिर्जकः ।
क्षवको यवनश् चैव शिग्रुबीजं मयूरकः ॥
हिङ्गु सौवर्चलं भार्ङ्गी नक्तमालफलानि च ।
ज्योतिष्मती शृङ्गिबेरं शैरीषं बीजम् एव च ॥
एतच्छीर्षविरेकार्थमुक्तव्याधिषु योजयेत् ।
अवपीडे ऽ थ धूमे वा द्वन्द्वशः सर्वशो ऽ पि वा ॥
एतैर् एव उषधगणैस् तैलं धीरो विपाचयेत् ।
अविमूत्रेण संयुक्तं श्रेष्ठं शीर्षविरेचनम् ॥
धूमं च सर्वगन्धानां नतकुष्ठविवर्जितम् ।
धूमवर्तिं पिबेत्तावच्छ्रेष्ठं शीर्षविरेचनम् ॥
शिरसस् तु विरेकेण कर्णजिह्वाक्षिनासिकाः ।
विशुध्यन्ते यथादोषं मुखनासावहेषु च ॥
विवृतिः खेषु विशदा न च श्लेष्मा प्रसिच्यते ।
सम्यक् शिरसि संशुद्धे वेदना चोपशाम्यति ॥
व्याधौ च भङ्गचूर्णत्वं स्रोतसां सुविशुद्धता ।
तथैवातिविशुद्धेषु स्रोतस्स्वायस्यते शिरः ॥
दन्तचाले हनुस्तम्भे मन्यास्तम्भे शिरोग्रहे ।
वाधिर्ये कर्णशूले च कर्णमूलाच् च भेदने ॥
अपतन्त्रे केशसादे ऽ प्रबोधे दृष्टिविभ्रमे ।
हिक्कानेत्रमुखास्रावे स्वरभेदे ऽ थ वाग्ग्रहे ॥
गण्डोष्ठमुखचालेषु काचेषु तिमिरेषु च ।
दौर्गन्ध्ये मुखनासाभ्यां पालित्य् ए वाप्य् अकालजे ॥
ऊर्ध्वजत्रुगता ये च रोगास्सम्परिकीर्तिताः ।
नस्यकर्म हितं तेषां तैलं वा सर्पिरेव वा ॥
जीवकर्षभकौ द्राक्षा पिप्पल्यो मधुकं बला ।
प्रपौण्डरीकं मेदा च शर्करा नीलमुत्पलम् ॥
निदिग्धिका चांशुमती नीलिका सैन्धवं वचा ।
रास्ना श्वदंष्ट्रा मञ्जिष्ठा बृहती सपुनर्नवा ॥
एभिः पलसमैः सिद्धं तैलं वा यदि वा घृतम् ।
चतुर्गुणेन पयसा नस्यं तत्परमुच्यते ॥
नस्यतः स्नेहपानेन कृष्णरोमा दृढेन्द्रियः ।
अवलीपलितव्यङ्गः चक्षुष्माञ्जायते नरः ॥
कर्णाक्षिनासावक्त्राणां स्नेहेनावृत्य तर्पणम् ।
इन्द्रियाणां विमुक्तत्वं प्रसादः स्वरवर्णयोः ॥
स्रोतसां विमलत्वं च ज्ञेयं संस्निग्धलक्षणम् ।
अस्निग्धलिङ्गं रूक्षत्वं स्रोतसां रिक्तता तथा ॥
शिरसो गुरुदुःखत्वं स्रोतसां स्नेहपूर्णता ।
कर्णतालूपदेहश्च नस्यातिस्निग्धलक्षणम् ॥
नाजीर्णे नार्द्रशिरसि पन्थानं गन्तुमिच्छतः ।
न पीतमात्रे पानीये ज्वरितस्य न दापयेत् ॥
न मैथुनं गतवतः मद्यपीतस्य नैव च ।
नातिभुक्तस्य नास्निग्धस्विन्नस्यानिर्वृतेस् तथा ॥
सम्यङ् निरूढस्य नरुगुजा सम्यक् प्रशाम्यति ।
यतो मूत्रपुरीषाम्यां वातो ह्य् अस्य निवर्तते ॥
निरूढं तं भिषग्विद्यादनिरूढस्य लक्षणम् ।
तथैव व्याधिराध्मानं शूलं विण्मूत्रनिग्रहः ॥
पूर्णकुक्षित्वमानाहो दुर्निरूढस्य लक्षणम् ।
निरूढस्य पुनर्यस्य शोणितं सम्प्रदुष्यति ॥
अतीव तु निरूढस्य निष्पुरीषस्य मारुतः ।
शूलेनावेष्ट्यमनस्य सर्वगात्राणि पीडयेत् ॥
इति पञ्चविधं चोक्तं व्याख्यातं समुपाचरेत् ।
पञ्चकर्मविधानज्ञो राजार्हो भिषगुच्यते ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले द्वितीयो ऽ ध्यायः ॥ ॥ चतुर्थो ऽ ध्यायः ॥ अथातो दशव्यापदीयां वमनविरेचनसिद्धिं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0