भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 8.1

8.1.1

रिक्तकोष्ठस्य वमने मारुतः सम्प्रकुप्यति ।
प्लीहा प्रचलति स्थानात्तस्माद् दोषान्निहन्त्यसून् ॥

8.1.2

पेयां मण्डं पिबेत्तस्मात् सुस्निग्धं लवणान्वितम् ।
सौम्ये तिथौ मुहूर्ते च नक्षत्रे करणे शुभे ॥

8.1.3

शुक्लवस्त्रः शुचिर्भूत्वा ह्यर्चयित्वा द्विजन्मनः ।
ततो ऽ स्मै वमनं देयं पूजयित्वा भिषग्वरान् ॥

8.1.4

प्राङ्मुखेन तु पातव्यं निवाते शरणे शुभे ।
न चास्य कुर्याद् आयासं मण्डं भोज्यं प्रशस्यते ॥

8.1.5

विधिरेष भवेत्कार्यो वमने च विरेचने ।
निष्क्वाथस्य त्रयः प्रस्थाः मागधास् तु कनीयसि ॥

8.1.6

ज्येष्ठे तु पुरुषे ज्येष्ठं वमनं न कनीयसि ।
चतुःप्रस्थं तु मध्यं स्याज्ज्येष्ठं प्रस्थास् तु ते नव ॥

8.1.7

कनीयो मध्यमं ज्येष्ठं त्रिविधानि पृथक् पृथक् ।
अपीतपूर्वं वमनं विरेको वापि येन तु ॥

8.1.8

कनीयसा प्रमाणेन परीक्षेत च बुद्धिमान् ।
त्रिपलं श्रेष्ठम् आख्यातं कनीयस् तु पलं भवेत् ॥

8.1.9

मध्यं द्वे पले विद्यादिति मे निश्चिता मतिः ।
विषकुष्ठहता ये तु कासश्वासप्रपीडिताः ॥

8.1.10

तरुणा बलवन्तश् च वामयेद् उत्तमेन तान् ।
मध्यमे प्राणवयसि मध्यमं तत्र कारयेत् ॥

8.1.11

कनीयसि कनीय्स् तु तथा प्राणे कनीयसि ।
विपरीतं प्रयुञ्जानो न रोगान्विजयिष्यति ॥

8.1.12

उपद्रवान्वा जनयेद् आतुरं वा विनाशयेत् ।
अङ्कोलस्याथ निम्बस्य निष्क्वाथं साधु योजयेत् ॥

8.1.13

सर्पिषा भेषजैश्चेमैः सुखोष्णं शीतम् एव वा ।
मदनस्य फलं पिष्ट्वा देवदालीफलैस्सह ॥

8.1.14

निम्बपत्राणि सार्द्राणि सैन्धवं मरिचानि च ।
सैन्धवेन समायुक्तं तक्रमण्डेन वा पुनः ॥

8.1.15

बन्धुजीवो ऽ थ पिप्पल्यो मदनं सर्पिरेव च ।
तत्कषायेण संयुक्तं प्रधानं वमनौषधम् ॥

8.1.16

मदनं बन्धुजीवश् च शतपुष्पा शुकानना ।
सैन्धवेन समायुक्तं प्रधानं वमनौषधम् ॥

8.1.17

मदनस्य च पत्राणि पुष्पाणि सफलानि च ।
सैन्धवं बन्धुजीवश् च राजकोशातकानि च ॥

8.1.18

एवं प्रच्छर्दनो योगः प्रधानं वमनौषधम् ।
श्रेष्ठश् च विषयुक्तेषु कासश्वासे तु पूजितः ॥

8.1.19

यदा तु वमनं पीतं न छर्दयति मानवम् ।
किं तत्र भेषजं कुर्यात् कथं वैद्यः समाचरेत् ॥

8.1.20

दर्शयेत् तस्य तु भिषक् पालितानि पृथक् पृथक् ।
मक्षिकाकेशचूर्णानि तच् च मण्डे नियोजयेत् ॥

8.1.21

एतेन तु प्रयोगेण क्षिप्रं छर्दयते नरः ।
एषा क्रिया समाख्याता दुर्बलानां विशेषतः ॥

8.1.22

हृदयं पृष्ठदेशं च विगृह्य च वमेन् नरः ।
तथास्य चलति स्थानात्पीतं ह्य् अस्मिन्नुपक्रमे ॥

8.1.23

कफं हि पूर्वं वमति ततः पित्तमनन्तरम् ।
पित्तस्थान्ते भवेद्वातः ततो वमति शोणितम् ॥

8.1.24

लक्षणानि तु वक्ष्यामि सम्यग्वान्तस्य देहिनः ।
लघुरामाशये शुद्धिर्हृच्छुद्धिश् चाप्य् अतन्द्रिता ॥

8.1.25

क्षुत्पिपासे यथाकालं स्रोतःशुद्धिर्यथाग्निता ।
श्लैष्मिकाणां च सर्वेषां व्याधीनां विनिवर्तनम् ॥

8.1.26

न च वैरस्यमास्यस्य सम्यग्वान्तस्य लक्षणम् ।
हृल्लासो ऽ थ सिराहर्षो मन्या कण्ठश् च दीर्यते ॥

8.1.27

अत्युद्गारस्तमः कासो हिक्का श्वासः स्वरक्षयः ।
वातज्वरः शुष्कवमिस्तृष्णा शूलो ह्य् अनिद्रता ॥

8.1.28

आस्यहृच्छोषणं चैव क्षताच् च रुधिरागमः ।
इन्द्रियाण्युपरुध्यन्ते मूर्च्छा चास्योपजायते ॥

8.1.29

हनुस्तम्भश् च कम्पश् च ह्यतिवान्ते प्रवर्तते ।
ऊर्ध्वरक्ती प्रमेही च गुल्मी चार्शोभगन्दरी ॥

8.1.30

उदरी पाण्डुरोगी च हृद्रोगी कृमिकोष्ठकः ।
अपस्मारी विषार्तश् च शोफस्तम्भश् च वातिकः ॥

8.1.31

विषमज्वरवीसर्पी वातशोणितिकश् च यः ।
अर्शो ऽ तिविषमाग्निश् च कुष्ठश्वयथुपीडितः ॥

8.1.32

उदावर्ती तथोन्मादी पिप्लुव्यङ्गनिपीडितः ।
पित्तश्लेष्मसमुत्थाना व्याकुला ये च धातवः ॥

8.1.33

सन्निपातसमुत्थाश् च योनिदुष्टाश् च याः स्त्रियः ।
शूलार्ता रक्तगुल्मिन्यो याश् च सौम्येन पीडिताः ॥

8.1.34

अस्निग्धारक्तताङ्गानां लाघवं गात्रमार्दवम् ।
हृदयोद्गारमूत्राणां शुद्धिर्वातानुलोमतः ॥

8.1.35

प्रसन्नस्वरवर्णत्वं बुभुक्षा व्याधिनिग्रहः ।
श्लेष्मणा च स्वयं स्थानं सुविरिक्तस्य लक्सणम् ॥

8.1.36

उदरं वातसम्पूर्णं कण्डूमण्डलसम्भवः ।
पिटकाजन्म गात्रेषु भ्रमणं ज्वरसम्प्लवः ॥

8.1.37

हृदयावेष्टनं वह्नेः सादस्स्यात् कुक्षिगौरवम् ।
कृच्छ्रविण्मूत्रवातत्वं दुर्विरिक्तस्य लक्षणम् ॥

8.1.38

पार्श्वशूलं गुदभ्रंशः शाखासंकोचसम्भ्रमः ।
वातवृद्धिर्विसंज्ञत्वं गुदशूलस्तृषा क्लमः ॥

8.1.39

शून्यता जर्जरीभावस्ततश्चिमचिमायनम् ।
रूपाण्यतिविरिक्तानां शूलः शोफश् च जायते ॥

8.1.40

गौरवे दुर्विरिक्तस्य यदजीर्णं तदुल्लिखेत् ।
सात्म्यं तु पेयं भैषज्यं निरूहो गाढवर्चसाम् ॥

8.1.41

रूपाण्यतिविरिक्तस्य हरेत्क्षीरघृतादिभिः ।
स्नेहैश्चैवोपनाहैश् च साभ्यङ्गैश् च भिषग्जयेत् ॥ ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ॥ द्वितीयो ऽ ध्यायः ॥ ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।..

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc