भेलसंहिता · अध्याय 7.9
श्यामायास्त्रिवृतयाश् च मूलान्युद्धारयेद् भिषक् ।
कल्याणदेशजातायाः कुशरोहिषसंस्कृते ॥
कृष्णमृत्स्नाप्रमे वापि ह्यथवा स्वर्णमृत्तिके ।
मूलान्य् एतानि संगृह्य सूक्ष्मचूर्णानि कारयेत् ॥
स्थिराकषाये संसृज्य पाययेत् तु यथाबलम् ।
विरिच्यते तेन साधु नायोगो नातियोगिता ॥
त्रिफलारसमात्रेण द्राक्षापीलुरसेन वा ।
आलोड्य वापि पयसा सर्पिषा वापि पाययेत् ॥
हरिणसय रसं दद्यान्न्यङ्कोश् च महिषस्य च ।
खड्गस्य कलविङ्कस्य तित्तिरेर्लावुकस्य च ॥
रसमन्यतमं तेषां त्रिवृच्छ्यामाप्रयोजितम् ।
यथाबलं पाययेत् तु सुस्निग्धं स्वेदितं नरम् ॥
श्यामायास्त्रिवृतायाश् च कृत्वा चूर्णानि सूक्ष्मशः ।
त्रिधा विभज्य तत्रैकं स्वयं गुप्तं निधापयेत् ॥
रसेन तु प्रियङ्गूणां द्वौ भागौ श्च्योतयेद् भिषक् ।
भाजने तु परिस्राव्य सुप्रसन्नमनाविलम् ॥
परियोगमधिश्रित्य् अ पाचयेन्मृदुनाग्निना ।
तस्मिंस् तथा पच्यमाने चूर्णान्य् एतानि धापयेत् ॥
प्रियङ्गुं तगरं चैव तालीसं नलदं तथा ।
हीबेरं चैव मुस्तां च बलां कालानुसारिबाम् ॥
अशोकपुष्पचूर्णानि पद्मसौगन्धिकानि च ।
नलिनं पुण्डरीकं च पिप्पलीमूलम् एव च ॥
मधुना सह संसृज्य लिह्यात् पाणितलोन्मितम् ।
सुस्निग्धो जीर्णभक्तश् च यथाशास्त्रं यथाबलम् ॥
विरिच्यते तेन साधु नायोगो नातियोगिता ।
चन्दनं पद्मकं नीपं सालं सप्तच्छदं तथा ॥
पुनर्नवां तु पललं किरातं तिक्तम् एव वा ।
ये चान्ये तिक्तमधुरा रसाः पूर्वं प्रकीर्तिताः ॥
तेषां कषायैर्योज्यं स्यात् पैत्तिकानां विरेचनम् ।
पारावतान् कपोतांश् च क्रौञ्चबर्हिणकुक्कुटान् ॥
कुरङ्गान् हरिणानेणान् हरितान् कालपुच्छकान् ।
वर्तकान् तित्तिरींश्चैव शशलावकपिञ्जलान् ॥
रसैस् तैर् उपयुञ्जीत पैत्तिकस्य विरेचनम् ।
साराः फलानि चूर्णानि पत्राणि च पयांसि च ॥
य उक्ताः स्थावराः पूर्वं तथैव मृगपक्षिणः ।
पानानि फलनिष्क्वाथकषायादिद्रवान् रसान् ॥
लेहान् भक्ष्यांश् च सान्नादीन् तेभ्यः समभिकल्पयेत् ।
परूषकस्य द्राक्षाया रसं समधुशर्करम् ॥
त्रिवृदक्षसमायुक्तं पीत्वा साधु विरिच्यते ।
साधयेच्छर्करायुक्तं सहैव मधुना भिषक् ॥
शीते तस्मिंस्त्रिवृच्चूर्णं यथाकोष्ठं समावपेत् ।
ततः कम्पिल्लकाच्चूर्णं द्वे च ते तिन्दुकस्य च ॥
आरग्वधफलान्मध्यभागाश् चाक्षसमास्तथा ।
त्रिवृच्चूर्णस्य धरणं शर्करा मधुकं मधु ॥
मरिचं नागपुष्पं च त्वक्पत्रं च सुचूर्णितम् ।
एतत् सर्वं समायोज्य मोदकं कारयेद् भिषक् ॥
अथ वा कारयेल्लेहं तेन साधु विरिच्यते ।
द्राक्षारसस्य कुडवं परूषकरसस्य च ॥
मधुनः कुडवार्धं च शर्करापलम् एव च ।
त्रिवृच्चूर्णकृतो लेहस्तेन साधु विरिच्यते ॥
एतदुत्सन्नदोषाणामीश्वराणां विरेचनम् ।
शर्करामोदकं वापि गुडकं माषपूरकम् ॥
अनेन विधिना कुर्यात् पैत्तिकानां विरेचनम् ।
त्रिवृच्चूर्णानि पिप्पल्याः फलान्यारग्वधस्य च ॥
कल्कानक्षसमानेतान् पिबेद्धीरो विरेचनम् ।
त्रिवृच्चूर्णस्य धरणं शर्करा मधुकं मधु ॥
एतदक्षसमायुक्तं पीत्वा साधु विरिच्यते ।
त्रिवृच्चूर्णानि पिप्पल्यो यवक्षारो महौषधम् ॥
श्लेष्मकोपशमार्थाय लिह्यात् तेन विरिच्यते ।
अविमूत्रमजामूत्रमुष्ट्रस्य महिषस्य च ॥
मृगस्य मूत्रं गोमूत्रं गर्दभस्य द्विपस्य च ।
एतान्यष्टौ प्रयुञ्जीत पृथग्वा यदि वा सह ॥
त्रिवृच्चूर्णविमिश्राणि विलिह्यान्मधुनापि वा ।
अजातानि च मद्यानि तीक्ष्णानि निशि तानि च ॥
त्रिवृच्चूर्णविमिश्राणि पीत्वा साधु विरिच्यते ।
त्रिवृच्चूर्णं यथाकोष्ठं श्लैष्मिकः पातुमर्हति ॥
त्रिवृतायाः कषायेण सक्षौद्रं साम्लवेतसम् ।
अथ वा दधिमण्डेन कोलकानां रसेन वा ॥
कुलुत्थमुद्गयूषैर् वा सतीनचिरिबिल्वयोः ।
यवकोलकयूषेण पिबेत्कौलत्थमेव वा ॥
युक्तं वा तैन्त्रणीकेन साम्लवेतसदाडिमम् ।
यूषेण शिग्रुकोलाह्वामूलकानां रसेन वा ॥
रसेनामलकानां वा बीजपूरार्जकस्य वा ।
कपित्थरसमण्डेन करमर्दरसेन वा ॥
यच्चान्यदपि वा किञ्चित्फलमम्लम् इति स्मृतम् ।
पिबेत्तत्स्वरसैर् वापि पञ्चमूलीरसेन वा ॥
कटुकल्कविमिश्रं वा यवक्षारेण संयुतम् ।
मृद्वीकाफलकल्केन लेहार्थम् उपकल्पयेत् ॥
प्रत्येकस्य फलानां च पूर्वोक्तानां चिकित्सकः ।
सुजातानां सुपक्वानां प्रत्यग्रं ग्राहयेद् रसम् ॥
तत्राम्लल्वणीभूते विरिप्यात् सैन्धवे भवेत् ।
लेहे ऽ स्मिन् त्रिवृतश्चूर्णं यथाकोष्ठं समावपेत् ॥
सक्षौद्रं सगुडं वापि लिह्यात् सकटुकं तथा ।
एतेन विधिना कुर्यान्मोदकान् षाडबान्रसान् ॥
पानानि च फलाम्लानि भक्ष्यं भोज्यं च संस्कृतम् ।
एतद् राज्ञां समाख्यातम् ईश्वराणां विरेचनम् ॥
विधिमेवं प्रयुञ्जीत त्विमं चान्यं चिकित्सकः ।
शाणमामलकानां च विभीतकफलानि च ॥
तिल्वकस्सप्तला दन्ती शङ्खिनी चतुरङ्गुलः ।
हरीतकीनामेकं च यवक्षारो वचैव हि ॥
पिप्पलीनां च शाणस्स्याद्विडङ्गाच्छाण एव च ।
त्रिवृच्चूर्णस्य त्रिश्शाणास्तत् सर्वमवचूर्णयेत् ॥
तानि चूर्णानि मधुना सर्पिषा वा गुडेन वा ।
लेहं वा विधिना ।.. ।.. ।.. ।.. ॥ ॥ सिद्धिस्थानम् ॥ ॥ प्रथमो ऽ ध्यायः ।
।
।.. ।.. ।.. ।.. ।.. ।.. ।.. ।..
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0