भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 7.8

7.8.1

फलानि परिपक्वानि शङ्खिन्यास्तूद्धरेद्भिषक् ।
अन्तरा चैत्रवैशाखमव्यग्रो यवसंग्रहे ॥

7.8.2

अनूषरे निरुद्धारे क्षेत्रे सूर्यप्रतापिते ।
कृष्णमृत्स्नाप्रभे वापि तथा च स्वर्णमृत्तिके ॥

7.8.3

न व्यग्रे न च वल्मीके न चापि तृणछादिते ।
सुसमे भूप्रदेशे तु या जाता शङ्खिनी भवेत् ॥

7.8.4

तस्या द्रोणं समावाप्य तद्भाण्डं सिद्धबन्धनम् ।
यवपर्णोषितं चापि समुद्धृत्य निधापयेत् ॥

7.8.5

सप्तरात्रं वार्धमासं समाच्छाद्य समन्ततः ।
आतपे परिशुष्काणि सूक्ष्मचूर्णानि कारयेत् ॥

7.8.6

फलानामथ चैतेषां द्वौ भागौ कारयेद् भिषक् ।
तिलं तृतीयकं कृत्वा क्षोदयित्वा ह्युलूखले ॥

7.8.7

सम्यग् दृषदि निष्पिष्य तैलमुद्धारयेत् ततः ।
शङ्खिन्या ह्य् अक्षमात्रं तु त्रिवृत्कल्कमथापि वा ॥

7.8.8

तस्मिंस्तैले पयश् चैव भिषग्दद्याच्चतुर्गुणम् ।
एतत् सर्वं समालोड्य पाचयेन्मृदुनाग्निना ॥

7.8.9

पक्वमाहृत्य विस्राव्य स्वनुगुप्तं निधापयेत् ।
तस्याञ्जलिं प्रकुञ्चं वा प्रसृतं वापि पाययेत् ॥

7.8.10

विरिच्यते तेन साधु नायोगो नातियोगिता ।
सुसूक्ष्मस्याथ शङ्खिन्याश्चूर्णस्य प्रसृतं शृतम् ॥

7.8.11

क्षीरपात्रेण संयोज्य परियोगमधिश्रयेत् ।
तथा विपाच्य विस्राव्य शीतीकृत्याभिमन्थयेत् ॥

7.8.12

तत्र यन्नवनीतं स्यात् तद् उद्धृत्य विपाचयेत् ।
शङ्खिनीफलकल्केन क्षीरेण सलिलेन च ॥

7.8.13

स पिबेत्तद् यथोत्साहं तेन साधु विरिच्यते ।
शङ्खिनीफलकल्कन्तु सम्यक् दृषदि पेषयेत् ॥

7.8.14

गोक्षीरेण समालोड्य पिबेत्तेन विरिच्यते ।
एतेनैव च कल्पेन ह्युष्ट्रीक्षीरेण पाययेत् ॥

7.8.15

अजाक्षीरे ऽ विकाक्षीरे माहिषे वाथ वा पुनः ।
गोमूत्रेणोष्ट्रमूत्रेण चाविमूत्रेण वा पुनः ॥

7.8.16

अथवा हस्तिमूत्रेण पिबेत्तेन विरिच्यते ।
आमृद्गन्नथ मृद्वीकां दापयेत्फाणितोदके ॥

7.8.17

भृष्ट्वा तु शङ्खिनीतैले परियोगमधिश्रयेत् ।
अर्धं चूर्णानि पिप्पल्या हरीतक्याश् च दापयेत् ॥

7.8.18

अतः पाणितलं प्राश्य तेन साधु विरिच्यते ।
शङ्खिनीफलमध्यानि दातव्यं लवणं तथा ॥

7.8.19

शङ्खिनीतैलभृष्टानि फाणितेनाथ संसृजेत् ।
गोधूमाज्येन संसृज्य मोदकान् कारयेद् भिषक् ॥

7.8.20

तांस्त्रीन् द्वौ वाथ संभक्ष्य ततस्साधु विरिच्यते ।
सुरां सौवीरकं तक्रं दधिमस् तु तुषोदकम् ॥

7.8.21

कट्वरं कोलसीधुं वा दधि पक्वरसं तथा ।
कर्कन्धुबदराणां वा सीधुं पीलुप्रियालयोः ॥

7.8.22

भव्यपारावतानां च मृद्वीकामद्यम् एव वा ।
बिल्वशिग्रुकपित्थानां रसान्वा सह पाययेत् ॥

7.8.23

अयं हि शङ्खिनीकल्पो मया तु समुदाहृतः ।
य एवं सम्प्रजानाति स राज्ञां कर्तुमर्हति ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले कल्पस्थाने ऽ ष्टमो ऽ ध्यायः ॥ ॥ नवमो ऽ ध्यायः ॥ अथातः श्यामात्रिवृत्कल्पं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc