भेलसंहिता · अध्याय 7.7
त्रिधा विभज्य मतिमान् स्वनुगुप्तं निधापयेत् ।
रसेनामलकस्यापि द्वौ भागौ श्च्योतयेद् भिषक् ॥
च्युतं कषायं विमलं परियोगमधिश्रयेत् ।
तस्मिंस् तथा पच्यमाने तच्चूर्णमभिसंसृजेत् ॥
तन्मात्रं त्रिफलाचूर्णमावपेन्मधुसंयुतम् ।
लेहभूतं विदित्वैनमथैनमवतारयेत् ॥
तस्य पाणितलं चूर्णं लेह्यं तेन विरिच्यते ।
एतेषां चैव मूलानां कृत्वा चूर्णानि सूक्ष्मशः ॥
श्यामाकषायेणालोड्य घृतं सिद्धं विपाचयेत् ।
जानीयात् तद् यदा सिद्धम् अथैनम् अवतारयेत् ॥
तद् दृढे मधुलिप्ते तु नवे कुम्भे समावपेत् ।
मृत्स्नाभिः स्वनुलिप्ते तु स्वनुगुप्तं निधापयेत् ॥
प्रसृतं पाययेत् तत्र तेन साधु विरिच्यते ।
एतेषां चैव मूलानां कृत्वा चूर्णानि सर्वशः ॥
बृहतीरससम्मिश्रैः गुलिकां कारयेत् तु तैः ।
गुलिकां कारयित्वा तु कर्कन्धुबदरोपमाम् ॥
श्यामाकषायेणालोड्य द्वे वा तिस्रो ऽ पि वा ततः ।
पाययेत् तु यथोत्साहं तं स्निग्धस्वेदितं नरम् ॥
विरिच्यते तेन साधु नायोगो नातियोगिता ।
स्नेहादि स्नेहमूलं तु प्रच्छर्दनविरेचनम् ।
नापरिस्निग्धकोष्ठस्य प्रसिध्यति विशोधनम् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले कल्पस्थाने सप्तमो ऽ ध्यायः ॥ ॥ अष्ठमो ऽ ध्यायः ॥ अथातः शङ्खिनीकल्पं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0