भेलसंहिता · अध्याय 7.6
मनोज्ञदेशजातस् तु यो भवेच् चतुरङ्गुलः ।
फलमुष्टिं समाहृत्य ततश्चूर्णानि कारयेत् ॥
तच्चूर्णितं त्रिधाकृत्य भागमेकं निधापयेत् ।
द्वौ भागौ च शुचिस्सम्यक् कृत्वा मन्थनम् एव तु ॥
श्च्योतयित्वा परिस्रुत्य सुप्रसन्नमनाविलम् ।
परिभागं समावाप्य साधयेद् गोमयाग्निना ॥
तस्मिंस् तथा सिच्यमाने सूक्ष्माणीमानि दापयेत् ।
हरीतकीमामलकं विभीतकफलानि च ॥
मधूकभागमावाप्य तद्विलेपनमाहरेत् ।
ततः पाणितलं चूर्णं लेह्यं तेन विरिच्यते ॥
एतेनैव च कल्पेन कण्टकार्याः फलैर् अपि ।
श्च्योतयित्वा लेहजातं परितः सासवं पिबेत् ॥
चतुरङ्गुलसिद्धा वा पेया योज्या सुसंस्कृता ।
विरिच्यते तेन साधु नायोगो नातियोगिता ॥
धात्रीफलरसद्रोणे शर्करार्धतुलां पचेत् ।
घृतं चतुष्पलं पक्वं पृथगर्धपलं क्षिपेत् ॥
नतं वेल्लं चतुर्जातं यष्टिसैन्धवजीरकम् ।
पलाशं विश्वमरिचं मृद्वीकायाश्चतुष्पलम् ॥
प्रस्थं कणात्रिवृतयोर् मधुनश् च निहन्ति तत् ।
तत्खण्डामलकं नाम पाण्डुश्वयथुकामिलाम् ॥
शिरोभ्रमणमुन्मादमम्लपित्तविकारजित् ॥
भल्लातकानां पवनाहतानां वृन्तच्युतानामिह चाठकं स्यात् ।
तदिष्टकाचूर्णकणैर्विघृष्य प्रक्षालयित्वा विसृजेत्प्रवाते ॥
शुष्कं पुनस्तद्विदलीकृतं च विनिक्षिपेदप्सु चतुर्गुणासु ।
पादावशिष्टं परिपूतशीतं क्षीरेण तुल्येन पुनः पचेत ॥
तत्पादशिष्टं पुनरेव शीतं घृतेन तुल्येन पुनः पचेत ।
तदर्धया शर्करयावगाठं लोहाभयाव्योषकचूर्णयुक्तम् ॥
एतत्समं शार्करपादयुक्तं ततः खजेनोन्मथितं निधाय ।
प्रस्थद्वयेनामलकीमधूनां शीते ऽ थ धान्येन पुनः पचेत ॥
तत्सप्तरात्रादुपजातवीर्यं सुधारसादप्यधिकत्वमेति ।
प्रातर्विशुद्धीकृतदेहभाजां मात्रां ददीतात्मशरीरयोग्याम् ॥
न चान्नपाने परिहार्यमास्ते न चोष्णवाताध्वनि मैथुने च ।
जन्तुर्नितान्तं नरसिह्मवत्स्याद्भवेन् नरः काञ्चनराशिगौरः ॥
दन्ताश् च शीर्णाः पुनरुद्भवन्ति केशाश् च शुक्लाः पुनरेव कृष्णाः ।
विशीर्णकर्णाङ्गुलिनासिको ऽ पि कृम्यर्दितो भिन्नगलो ऽ पि कुष्ठी ॥
सो ऽ पि क्रमेणाङ्गुलिगात्रशाखस्तरुर्यथा रोहति वारिसिक्तः ।
महामयूराञ्जयति स्वरेण बलेन नागांस्तुरगान् जवेन ॥
।.. ।.. ।.. ।.. ।.. सुधाक्षीरेण भावयेत् ।
तत्पिबेत् तु यथोत्साहं तेन साधु विरिच्यते ॥
दन्त्यक्षता तु तेजोह्वा तर्कारी सुदुरालभा ।
कषायक्वाथ इत्य् एतत्सुधाक्षीरेण मिश्रयेत् ॥
तत्पिबेत् तु यथोत्साहं तेन साधु विरिच्यते ।
सुधाक्षीरेण गोक्षीरमेकस्थमभिसंसृजेत् ॥
तत्पिबेत् तु यथोत्साहं तेन साधु विरिच्यते ।
कृतमूत्रपुरीषस्य वाते चाप्य् अनुलोमिते ॥
प्रथमं स्निग्धकोष्ठस्य स्विन्नस्य च यथाविधि ।
सन्ध्यावेलामतिक्रम्य विमले च दिवाकरे ।
मैत्रे मुहूर्ते व्यक्ते तु योगानेतान् प्रयोजयेत् ॥ इत्य् आह भगवान् आत्रेयः ॥ इति भेले कल्पस्थाने षष्ठो ऽ ध्यायः ॥ ॥ सप्तमो ऽ ध्यायः ॥ अथातो दन्तीफलकल्पं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
।.. ।.. ।.. ।.. ।.. ।.. ।.. ।..
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0