भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 7.5

7.5.1

वसन्ते वा शरदि वा कुटजान्य् उद्धरेद् भिषक् ।
शुचिश्शुद्धश्शिरःस्नातः पुष्येणाश्वयुजेन वा ॥

7.5.2

प्रतूठानि शुचौ देशे कुशरोहिषसंस्कृते ।
कृष्णमृत्स्नाप्रभे वापि तथा वा स्वर्णमृत्तिके ॥

7.5.3

व्यातपे न नदीतीरे श्वभ्रवल्मीकयोस् तथा ।
परिपूर्णानि पक्वानि तथा जातरसानि च ॥

7.5.4

कुटजानामथैतेषां मुष्टिं सङ्गृह्य सन्नखम् ।
कोविदारकषायेण रात्रिमेकां निधापयेत् ॥

7.5.5

अथ चोत्थाय पूर्वाह्णे हस्तौ प्रक्षाल्य मर्दयेत् ।
परिस्रुतं सलवणं मधुयुक्तं प्रताप्य च ॥

7.5.6

पाययेद् आतुरं स्निग्धं छर्दयेत् तेन साधु सः ।
अनेनैव च कल्पेन कषायं कारयेद् भिषक् ॥

7.5.7

कोविदारस्य बीजैश् च नीपस्य विदुलस्य च ।
गुलूच्याश्च सुष्व्याश् च पटोलपिचुमन्दयोः ॥

7.5.8

कृत्वा मधूलिकायाश् च कषायं तेन छर्दयेत् ।
एषाम् एव फलानान्तु मुष्टिं संगृह्य सन्नखम् ॥

7.5.9

मधुकस्य कषायेण तच्चूर्णं परिमर्दयेत् ॥

7.5.10

गुलिकाः कारयेत् तेन कर्कन्धुबदरोपमाः ।
कोविदारकषायेण पूर्वकलोएन छर्दयेत् ॥

7.5.11

यथाबलं यथोद्दिष्टं छर्दयेत् तेन साधु सः ।
कृतवेधनकल्पो ऽ यमुक्तो वमनविस्तरे ॥

7.5.12

य एवं सम्प्रजानाति स राज्ञां कर्तुमर्हति ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले कल्पस्थाने पञ्चमो ऽ ध्यायः ॥ ॥ षष्ठो ऽ ध्यायः ॥ अथातश्चतुरङ्गुलीयं कल्पं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc