भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 7.4

7.4.1

धामार्गवान्युद्धरेत वसन्ते वा शरद्य् अपि ।
यदा प्रपुष्पितानि स्युः मधुगन्धीनि भान्ति च ॥

7.4.2

समे भूमिप्रदेशे ऽ स्मिन् कुशरोहिषसंस्कृते ।
कृष्णमृत्स्नाप्रभे वापि ह्यथवा स्वर्णमृत्तिके ॥

7.4.3

व्यातपे न नदीतीरे श्वभ्रवल्मीकयोस् तथा ।
परिपूर्णानि पक्वानि तथा जातरसानि च ॥

7.4.4

भिषगुद्धृत्य मतिमान् यवपल्ले निधापयेत् ।
वुसपल्ले ऽ थ वा धीरः सप्तरात्रं निधापयेत् ॥

7.4.5

सुभावितानि विज्ञाय मृदुभूतानि शास्त्रवित् ।
जर्जरीकृत्य दृषदि पात्रेष्वासिच्य निर्हरेत् ॥

7.4.6

कोविदारकषायेण रात्रिमेकां निधापयेत् ।
अथ चोत्थाय पूर्वाह्णे हस्तौ प्रक्षाल्य मर्दयेत् ॥

7.4.7

परिस्रुतं सलवणं मधुयुक्तं प्रताप्य च ।
पाययेद् आतुरं स्निग्धं छर्दयेत् तेन साधु सः ॥

7.4.8

धामार्गवाणामेतेषां मुष्टिं संगृह्य सन्नखम् ।
जर्जरीकृत्य दृषदि पात्रेष्व् अभ्यवहारयेत् ॥

7.4.9

कोविदारकषायेण रात्रिमेकां निधापयेत् ।
पूर्वोक्तेनैव कल्पेन वामयेत् तु यथाबलम् ॥

7.4.10

नलदस्य कषायेण तालीसशतपुष्पयोः ।
कुष्ठस्य मूर्वापाठायाः पूर्वकल्पेन छर्दयेत् ॥

7.4.11

धामार्गवाञ्जलिं पूर्णं सूक्ष्मचूर्णानि कारयेत् ।
श्यामाकषाये प्रक्षिप्य चैकरात्रं यथाविधि ॥

7.4.12

तथा फलकषाये ऽ स्मिन्निक्ष्वाकुकृतवेधने ।
जीमूतके हस्तिपर्णे कषाये परिभावयेत् ॥

7.4.13

तत उद्धृत्य संशोष्य सूक्ष्मचूर्णानि कारयेत् ।
कृसरां तेन संयुक्तां नात्युष्णां पाययेन्नरम् ॥

7.4.14

उत्पलं पुण्डरीकं च नलदं कुमुदं तथा ।
तेन चूर्णेन संस्पृश्य घ्रातुमस्मै प्रदापयेत् ॥

7.4.15

सिराहृदयमाप्नोति यावत्तत्किल मिश्रकम् ।
त्वरितं तानि पुष्पाणि घ्रातुमस्मै प्रदापयेत् ॥

7.4.16

घ्रातुं पुनः पुनर्मध्यं चूर्णयित्वा मुहुर्मुहुः ।
अनेनैव च कल्पेन सुखं वमति मानवः ॥

7.4.17

धामार्गवाञ्जलिं पूर्णं सूक्ष्मचूर्णानि कारयेत् ।
त्रिधा विभज्य मतिमान् स्वनुगुप्तं निधापयेत् ॥

7.4.18

अथ बिल्वकषायेण द्वौ भागौ श्च्योतयेद् भिषक् ।
च्युते कषाये विमले स्वनुगुप्तं निधापयेत् ॥

7.4.19

भागं तु गुलिकाः कार्याः कोलकर्कन्धुसम्मिताः ।
कोविदारकषायेण पूर्वकल्पेन छर्दयेत् ॥

7.4.20

कर्कन्धूबदराणां च कोलानां वापि सीधुना ।
गुलिकां विनीय विधिवच्छर्दयेत् तेन साधु सः ॥

7.4.21

रोहितस्य च मत्स्यस्य तथा कर्कटकस्य च ।
पक्षिणामौदकानां च रसेन तु वमेत्सुखम् ॥

7.4.22

एतेन खलु कल्पेन चाम्लैश् च मधुसीधुभिः ।
गुलिकां विनीय विधिवत् पाययेत् तां यथाबलम् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले चतुर्थो ऽ ध्यायः ॥ ॥ पञ्चमो ऽ ध्यायः ॥ अथातः कुटजकल्पं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc