भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 7.3

7.3.1

इक्ष्वाकूण्युद्धरेद्धीमान् वसन्ते ऽ थ शरद्य् अपि ।
यदा प्रयुष्पितानि स्युर्मधुगन्धीनि वान्ति च ॥

7.3.2

तेषां क्रियां प्रवक्ष्याम इक्ष्वाकूणां यथा विधिः ।
इक्ष्वाकुभिः पयस्सिद्धं तेनैवं वामयेद् भिषक् ॥

7.3.3

पयसा दधि कृत्वा वा पाययेत् तु यथाबलम् ।
निर्मथ्य वामयेच्चैनं नवनीतेन वा नरम् ॥

7.3.4

विहिता चेक्ष्वाकुष्वेषा समाख्याता क्रिया मया ।
वृन्तान्यार्द्राणि चादाय स्थापयेत्फाणितोदरे ॥

7.3.5

एकरात्रस्थितान्यत्र हस्तौ प्रक्षाल्य मर्दयेत् ।
परिस्रुतं सलवणं मधुयुक्तं प्रताप्य च ॥

7.3.6

पाययेद् आतुरं स्निग्धं छरयेत् तेन साधु सः ।
एतेनैव च कल्पेन इक्षुदर्भेक्षुवारिकैः ॥

7.3.7

तथा पोटगलेक्षोश्च कारयेत् तु रसाप्लुतम् ।
अथवा कोविदारस्य पत्रैस्सम्मिश्रितानि तु ॥

7.3.8

इक्ष्वाकूणां पल्लवानि स्वेदयेद् गोमयाग्निना ।
तानि स्विन्नानि चोद्धृत्य क्षोदयित्वा ह्युलूखले ॥

7.3.9

ततः फलकषायेण स्वभ्यासिच्य समस्य च ।
एकरात्रं कषाये ऽ स्मिन् स्वनुगुप्तं निधापयेत् ॥

7.3.10

पूर्वकल्पविधानेन वामयेत् तं यथाबलम् ।
इक्ष्वाकूणां प्रसृतं च सूक्ष्मं चूर्णानि कारयेत् ॥

7.3.11

कोविदारकषायेण गुलिकाः कारयेद् भिषक् ।
एतेनैव कषायेण विनीय गुलिकान्तु ताम् ॥

7.3.12

यथाबलं पाययेत् तु छर्दयेत् तेन साधु सः ।
एतेन खलु कल्पेन कुशानां तगरस्य च ॥

7.3.13

एतैकस्य कषायेण सुस्निग्धं वामयेद् भिषक् ।
यथाबलं यथोद्दिष्टं छर्दयेत् तेन साधु सः ॥

7.3.14

इक्ष्वाकुभिः पयस्सिद्धं पाययेत् तु यथाबलम् ।
इक्ष्वाकूणामयं कल्पो वमनार्थाय कीर्तितः ॥

7.3.15

मृदुरभ्यासतस्सिद्धः प्रयोज्यो देशकालतः ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले कल्पस्थाने तृतीयो ऽ ध्यायः ॥ ॥ चतुर्थो ऽ ध्यायः ॥ अथातो धामार्गवकल्पं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc