भेलसंहिता · अध्याय 7.1
पिण्डीतकानि तु त्रीणि संग्रहोक्तानि मे शृणु ।
कृष्णं श्वेतमुभे तच् च त्रितयं मदनं स्मृतम् ॥
फलानान्त्वेव सर्वेषां मदनं सर्वशोधनम् ।
वमनास्थापने योज्यं तथैवाप्य् अनुवासने ॥
यदा न परिपूर्णान् परिपक्वानि तानि च ।
भवन्ति रसपूर्णानि ततस्तान्युद्धरेद् भिषक् ॥
यवपल्ले तथैतानि तुषपल्ले तथा पुनः ।
सप्तरात्रं वासयित्वा संकुञ्चितफलत्वचा ॥
सुभावितानि विज्ञाय मृदुभूतानि शास्त्रवित् ।
द्विधा त्रिधा शोधयित्वा सम्यक् संशोध्य चावपेत् ॥
धान्येषु मासं संस्थाप्य मृदा चैवावलेपयेत् ।
निधूमे च निवाते च कपाटपिहिते गृहे ॥
वैहायसे स्थापयेच् च यथा स्वेदो न संभवेत् ।
एतेषां फलमज्जानां सनखं मुष्टिमाहरेत् ॥
जर्जरीकृत्य दृषदि पात्रे चाप्य् अधिवासयेत् ।
मधुकस्य कषायेण रात्रिमेकां निधापयेत् ॥
अथ चोत्थाय पूर्वाह्णे हस्तौ प्रक्षाल्य मर्दयेत् ।
परिस्रुतं सलवणं मधुयुक्तं प्रताप्य च ॥
पाययेद् आतुरं स्निग्धं छर्दयेत् तेन साधु ना ।
एतेनैव च कल्पेन जीमूतकफलैर् अपि ॥
इक्ष्वाकुकुटजाभ्यां च लवणैश् चापि कारयेत् ।
कृतवेधैर्हस्तिपर्णैः धामार्गवफलैर् अपि ॥
कषायं कारयेद् एभिः फलबीजानि भावयेत् ।
अनेन कल्पेन भिषक् पाययेत् तु यथाबलम् ॥
मदनस्य फलान्येव पुनरुद्धारयेद् भिषक् ।
यथा स्युर्नातिपाण्डूनि तथैव हरितान्य् अपि ॥
परिपूर्णानि पक्वानि तथा जातरसानि च ।
सूच्या वा कण्टकैर् वाथ व्यधयित्वा समन्ततः ॥
मदनानां कषायेण त्रिरात्रं भावयेद् भिषक् ।
एतेनैव च कल्पेन जीमूतकफलैर् अपि ॥
इक्ष्वाकुकुटजानां तु धामार्गवफलैर् अपि ।
कृतवेधैर्हास्तिपर्णैश्छर्दयेत् तेन साधु ना ॥
स खल्वेतेन कल्पेन कुशानां वरुणस्य च ।
काकोदुम्बरिकायाश् च कुष्ठाख्यायास् तथैव च ॥ एकैकस्य कषायेण सुस्निग्धं पाययेद् भिषक् ।
बलाबलमवेक्ष्य ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ॥ ॥ तृतीयो ऽ ध्यायः ॥ ।.. ।.. ।.. ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0